Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.65
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.65
- Language
- English
v3.c24.s18.65
मण्डपे स्थण्डिलं कृत्वा शालिभिश्च स्थलं न्यसेत् ।
पञ्चविंशत्पदं न्यस्य शुद्धतण्डुलरेखया ॥ १७१ ॥ 344
दर्भैरास्तीर्य तत्पश्चात्पादप्रक्षालनं कुरु ।
ततश्चाचमनं कुर्यात्सकलीकरणं कुरु ॥ १७२ ॥
पुण्याहं वाचयित्वा तु स्थपतिर्ब्राह्मणैः सह ।
ब्रह्मादिदेवतानां च गन्धपुष्पादिधूपकैः ॥ १७३ ॥ 348
स्तूपिकीलं समुद्धृत्य स्थण्डिलोपरि विन्यसेत् ।
कीलस्य परितो देशे निक्षिपेच्चतुरिष्टका (काम् ) ॥ १७४ ॥
तद्बहिः परितः शुद्धतोयपूर्णान्वटान्न्यसेत् ।
ईशस्वान्तः प्रदेशे तु मूलकुम्भं विनिक्षिपेत् ॥ १७५ ॥ 352
ससूत्राङ्ग(ङ्गाम्) सवस्त्रं(स्त्राम्) च सकूर्चान् रुद्रपल्लवान् ।
सविधानफलं (ल) युक्तं (क्तान्) परितोऽष्टघटान्न्धसेत् ॥ १७६ ॥
कीलस्य पूर्वदिग्देशे रत्नलोहेश(शं) च निक्षिपेत् ।
नववस्त्रे [ण] सकूर्चं च आ(चा)च्छाद्य रत्नपात्रकम् ॥ १७७ ॥ 356
स्तूपिकीलं च संछाद्य नववस्त्रेण कूर्चकम् ।
आराध्य मूलकुम्भे तु भुवनाधिपतिं जपेत् ॥ १७८ ॥
गन्धपुष्पैः समभ्यर्च्य नैवेद्यानि निवेदयेत् ।
धूपदीपं दशे(द्या)त्पश्चान्नृत्तगीतादिघोषकैः ॥ १७९ ॥ 360
इन्द्रादि चाष्टकुम्भानामष्टशक्तीः प्रपूजयेत् ।
प्रणवादि नमोऽन्तेन तत्तन्नाम्ना प्रपूजयेत् ॥ १८० ॥
स्तूपिकीलं समभ्यर्च्य गन्धपुष्पैश्च धूपकैः ।
कुण्डे वा स्थण्डिले वापि होमं कुर्यात्तदमके ॥ १८१ ॥ 364
समिदा (धादि) चरुं (रुं) लाजान्प्रत्येकं पञ्चविंशति (तिः) ।
हुत्वेस्वाबीजमुच्चार्य प्रणवादिनमोऽन्त कम् ॥ १८२ ॥
व्याहृत्या (त्य) न्ते ततः शिल्पी स्थण्डिले प्रान्तमाश्रयेत् ।
यद्यद्देवालये कीलं ज्ञात्वा तत्पररूपकम् ॥ १८३ ॥ 368
Linked texts (1)
- Mānasāra — Sanskrit