Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.79

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s18.79

Language
English

v3.c24.s18.79

स्थपतिर्वरवेषाढ्यः प्राप्तपञ्चाङ्गभूषणः ।
सुमुहूर्ते सुलग्ने च जयशब्दादिमङ्गलैः ॥ १६७ ॥
ब्राह्माणैश्च यथाशक्त्या(क्ति) वाचयेत्स्वस्तिवाचनम् ।
स्तूपिकीलं समुद्धृत्य स्थपतिः स्थापकैः सह ॥ १६८ ॥
एतद्गर्तोपरि स्थाप्य मूलमन्त्रं समुच्चरन् ।
स्तूपकीलस्य परितः स्थापयेच्चतुरिष्टकम् ॥ १६६ ॥
पूर्वादि(दै) च शकारादीशन्यावर्त (नीशानान्तं) क्रमान्न्यसेत् ।
प्राक् मूलकुम्भमुद्धृत्य चालयद्भिः (यन्) प्रदक्षिणम् ॥ २०० ॥
स्थपतिः स्तूपिमूर्ध्वाग्रे तज्जलेनाभिषेचयेत् ।
इन्द्रादिकुम्भतोयेन पूजयेच्चतुरिष्टकान् ॥ २०१ ॥
शुद्धतोयेन संपूर्थ्य गन्धपुष्पैः समर्पयेत् ।
पूर्ववत्समलङ्कृत्य नैवेद्यादि (दीन्) निवेदयेत् ॥ २०२ ॥
षोडशोपचारांश्च कुर्याद्गन्धाक्षतैः सह ।
स्तूपिहर्म्ये मूर्ध्नि[न]स्तु ईसपादः स्थितो भवेत् ॥ २०३ ॥
नमस्ते कर्तृराज्यादि ग्रामं रक्षतु सर्वदा ।
सुधागुलोदकं (कैः) चापि इ(चे)ष्टकैर्वहुभिस्ततः ॥ २०४ ॥
स्तूपिकीलं दृढीकृल पश्चात्प्रागुक्तवत्कुरु ।
ब्रह्माविष्णुमहेश्वरस्य (राणां) स्तूपिप्रतिष्ठां कुरु ॥ २०५ ॥
कुर्वन्तद्यजमानगृहे नृपालये भुक्ति मुक्तिमावहेत ।
यस्मादकुर्वन्ननारद (नारी) नरनृपतयोः कर्ता (र्तु)श्च पीडा भवेत् ॥ २०६ ॥
तस्मात्सर्वसुखप्रदं नृपगृहे कुर्यात्स (ब) देवालयं ।
विप्रवाइनयुतं च सद्गुरुं शिल्पिनान्दि (कादि) गजवाजनस (जिनं) तथा ॥ २०७ ॥
नृत्तगीत(तं) सह सर्वघोषयैः सेवितानि स्वगृहं प्रवेशयेत् ॥ २०८ ॥