Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s2.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s2.1
- Language
- English
v3.c24.s2.1
शिल्पिनां लक्षणं वक्ष्ये मानो उपकरण (णं) क्रमात् ।
परःशिवसकाशाद्धि ब्रह्मा इ(चे)न्द्रोऽपि लोककृत् ॥ १ ॥
स महाविश्वकर्मेति ई(श्वी)श्वरेणेव कीर्तितः ।
स एवायं विश्वकर्मा ब्रह्माण्डं सृजते मुहुः ॥ २ ॥
विश्वकर्मा चतुर्वर्ण(र्वक्त्रा) जाति(तो) ब्रह्मादिवर्ण(वक्र)वत् ।
पूर्वोक्तवर्ण(पूर्ववक्रादीनि) चत्वारि नामं(मानि) वक्ष्ये पृथक् पृथक् ॥ ३ ॥
विश्वभूरिति नामैतत्पूर्ववक्रं प्रकीर्तितम् ।
दक्षिणे विश्वविद्वक्रं विश्वस्त(स्र)श्च तथोत्तरे ॥ ४ ॥
पश्चिमे विश्वस्रष्ट्राख्यं वक्रमेवं चतुर्विधम् ।
एतेभ्यः प्रथमो जातो विश्वकर्मा चतुष्टयः ॥ ५ ॥
पूर्वानुने विश्वकर्मा जायते दक्षिणे मयः ।
उत्तरस्य मुखे त्वष्टा पश्चिमे तु मनुः स्मृतः ॥ ६ ॥
उपयेमे विश्वकर्मा इ(त्वि)न्द्रस्य तनयां तदा ।
मयः सुरेन्द्रतनयामुपयेमे क्रमात्ततः ॥ ७ ॥
त्वष्टा वैश्रवणसुतामुपयेमे त्वनन्तरम् ।
मनुर्नलस्य तनयामुपयेमे तु तुर्यकम(कः) ॥ ८ ॥
विश्वकर्माख्यनाम्नोस्य(इत्यस्य) पुत्रः स्थपतिरुच्यते ।
मयस्य तनयः सूत्रग्राहीति परिकीर्तितः ॥ ९ ॥
त्वष्टुर्देव-ऋषेः पुत्रो वर्धकी(किरि)ति प्रकथ्यते ।
मनोः पुत्रस्तक्षकः स्यात्स्थपत्यादि चतुष्टयमये ॥ १० ॥
स्थपतिस्तु स्तुतैर्यैभ्यस्त्रिभ्यो गुरुरिति स्मृतः ।
सूत्रग्राही गुरुर्द्वाभ्यां तुर्येभ्योऽद्य इति स्मृतः ॥ ११ ॥
तक्षकस्य गुरुर्नाम(न्ना) वर्धकी(किरि)ति प्रकीर्तितः ।
स्थपतिः सर्वशास्त्रज्ञः सूत्रग्राहीति सूत्रधृत् ॥ १२ ॥
वर्धकी(किर्) मानकर्मज्ञः तक्षणात्तक्षकः स्मृतः ।
स्थपतिः स्थापनायार्हः वेदविच्छास्त्रपारगः ॥ १३ ॥