Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s20: द्वितलविधानम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s20

Language
English

द्वितलविधानम्

v3.c24.s20.1

द्वितलानामलङ्कारं वक्ष्ये संक्षिप्यनेऽधुना ।
विस्तारोत्सेध(धौ) हर्म्ये वा पूर्ववत्परिकल्पयेत् ॥ १ ॥
उपानादिस्तूपिपर्यन्तं अ(चा)ष्टाविंशाद्विभाजिते ।
अ(आ)धारोकं गुणांशं स्यात्पादतुङ्गं षडंशकम् ॥ २ ॥
बन्ध्यंशं प्रस्तरोत्सेधं चोर्ध्वं पादं शरांशकम् ।
तदूर्ध्वं पादमञ्चोर्ध्वं शिवांशं वेदिकोदयम् ॥ ३ ॥
तद्द्वयं कन्घरोत्सेधं वेदांशं शिखरोदयम् ।
तदूर्ध्वं स्तूपियुग्मां(त्रयां)शं तुङ्गं तु परिकल्पयेत् ॥ ४ ॥
एकत्रिशांशकं तुङ्गं सार्धबन्द्य(न्धु) मसूरकम् ।
सप्तांशं पादतुङ्गं स्यात्तदर्थं प्रस्तरोदयम् ॥ ५ ॥
तदूर्ध्वेऽर्धमधिष्ठानं द्व्यंश(शं) वेदाङ्घ्रितुङ्ककम् ।
तदर्धं प्रस्तरोत्सेधं तदर्धं वेदिकोदयम् ॥ ६ ॥
तद्द्वयं वेदिसुङ्गं स्याच्छिखरोशं युगांशकम् ।
स्तूपितुङ्गं द्वयांशं स्याद्द्वितले तद्द्वितीयकम् ॥ ७ ॥
तदेवोर्ध्वमधिष्ठानं विमानांशे कवितस्तिकम् ।
तदूर्ध्वेऽङ्घ्रि शरांशं स्यात्कर्णहर्म्यादिमण्डितम् ॥ ८ ॥
शेषं तु पूर्ववत्कुर्यात्तत्तीयद्वितलं भवेत् ।
तुङ्गे द्विरष्टभागं स्याद्व्यर्धांशं मसूरकम् ॥ ६ ॥
गुणांशं चाङ्घ्रितुङ्गं स्यात्प्रस्तरं सार्धभागिकम् ।
तदूर्ध्वमंशमधिष्ठानं तदूर्ध्वे द्व्यंशका(कन) ङ्घ्रिकम् ॥ १० ॥
शिवांशं प्रस्तरोत्तुङ्गं त्रिपादं वो(चो)र्ध्वमसूरकम् ।
पादांशं वेदिकोत्तुङ्गं सपादांशं गलोदयम् ॥ ११ ॥

v3.c24.s20.2

अर्धांशं शिरस्तु(स्तु)ङ्गं स्यात् (स) पादांशं शिखरोदयम्।
चतुर्थ द्वितलं प्रोक्तं तदेव शिखरं विदुः ॥ १२ ॥
लम्बनं सार्धभागेन गोपानादि क्रियान्वितम्।
शेषं प्रागुक्तवत्कुर्यात्पञ्चधा द्वितलं विदुः ॥ १३ ॥
एकादशांशकं तुङ्गममकेन मसूरकम्।
अम्ब्रिका (कम) ङ्घ्रितुङ्गं स्याच्छिष्टांशं प्रस्तरोदयम् ॥ १४ ॥
तदूर्ध्वे चोपपीठं स्यात्तत्समं च मसूरकम्।
तद्द्वयं पादतुङ्गं स्यात्तदधं प्रस्तरोदयम् ॥ १५ ॥
तत्समं वेदिकाङ्गं स्याच्छिष्टांशं गलतङ्गतुम्।
शिखरोच्चं द्विभागं स्यादेकांशं स्तूपिकोदयम् ॥ १६ ॥
षष्ठमं (कं) द्वितलं प्रोक्तं सप्तमं वक्ष्यतेऽधुना।
एकादशांशकं तुङ्गे चैकांशेन मसूरकम् ॥ १७ ॥
द्विभागं पादतुङ्गं स्यात्प्रस्तरं चाम्बरांशकम्।
कुर्यात्तत्र व(घ)नं चोर्ध्वे त्रिपादांशा (शं) मसूरकम् ॥ १८ ॥
तद्द्वयं पादतुङ्गं स्यात्तदधं प्रस्तरोदयम्।
तदूर्ध्वेऽङ्घ्रि सपादांशं एकां (चार्धा) शं प्रस्तरोदयम् ॥ १६ ॥
पादांशं वेदिकोत्तुङ्गं तद्द्वयं गलतङ्गतुम् ।
शिखरोच्चं शिवांशं स्यात्तदधं तच्छिखोदयम् ॥ २० ॥
द्वितले सप्तकं प्रोक्तं त्रयाङ्घ्रिकर्णहर्म्यकम्।
तदेवांशाधिकं तुङ्गे तन्मूले प्रस्तरोर्ध्वके ॥ २१ ॥
अंशेन चोपपीठं स्यादधिकं द्वितलं स्मृतम्।
एवं दण्डवशात्कुर्यान्निर्गमं तदिहोच्यते ॥ २२ ॥
प्रागुक्तविस्तृते बाह्ये निर्गमं परितस्तथा।
एकदण्डं द्विदण्डं वा त्रिदण्डं निर्गमं स्मृतम् ॥ २३ ॥
एकहस्तं द्विहस्तं वा त्रिहस्तं वाथ निर्गमम्।
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥ २४ ॥

v3.c24.s20.3

एकादशार्कहस्तान्तं पञ्चधा निर्गमं भवेत् ।
पञ्चषट्करमारभ्य द्विद्विहस्तविवर्धनात् ॥ २५ ॥
सैकार्कमनुहस्तान्तं निर्गमं पञ्चधा भवेत् ।
क्षुद्रालपमध्यमुख्यानां युक्त्या तत्रैव योजयेत् ॥ २६ ॥
अथ हर्म्यविशालार्धं तत्समं निर्गमं तु वा ।
यत्तद्वक्तिविशाले तु कूटमेकैकभागिकम् ॥ २७ ॥
एकं वाथ द्विपादं वा तस्य हारा विशालकम् ।
द्विभागं वा त्रिभागं वा मध्यशालाविशालता ॥ २८ ॥
हर्म्ये चोर्ध्वतले पादं बाह्यकूटादि विन्यसेत् ।
कर्णहर्म्याकृतिं वाथ चान्तरं प्रस्तरं तु वा ॥ २९ ॥
त्रिचतुः(तुष्)पञ्चाङ्गुलं वापि द्वितलेऽङ्घ्रि विशालकम् ।
तच्चतुः(तुष्)पञ्चषट्सप्ताष्टांशाङ्घ्रिविशालके ॥ ३० ॥
तत्तदेकांशहीनं स्यादूर्ध्वे पादविशालकम् ।
शाला कूटश्च पादौ च बाह्ये मध्यान्तरालकम् ॥ ३१ ॥
नासिकापञ्जरैः शालाकुम्भपादादिभूषितम् ।
तोरणैर्नीडभद्रादि[भिः] मूले चोर्ध्वं च भूषितम् ॥ ३२ ॥
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ।
नानागोपानसंयुक्तं क्षुद्रनासैर्विभूषितम् ॥ ३३ ॥
अर्धशालाविशेषोऽस्ति चोर्ध्वंशालासन्वितम् ।
तदूर्ध्वं प्रस्तरान्तः स्यान्नासिकाभिरलङ्कृतम् ॥ ३४ ॥
कूटानां चतुरश्रं स्यान्मध्ये मध्यं तु नासिका ।
एकद्वित्रिचतुर्दण्डं मध्यभद्रैस्(द्रस्य) तु निर्गमम् ॥ ३५ ॥
चतुःशाला चतुः(तुष्)कूटं चाष्टभा(हा)रं सपञ्जरम् ।
एकदण्डा(ण्डम)र्धदण्डं वा चोर्ध्वकूटादिनिवेशनम् ॥ ३६ ॥
मध्यकोष्ठे द्विपाश्र्वे तु चार्धशालासन्वितम् ।
तदूर्ध्वं मध्यमे नासि तत्पार्श्वं वक्रनासिकम् ॥ ३७ ॥

v3.c24.s20.4

तत्पार्श्वं शालयोः पार्श्वे क्षुद्रनास्यैर्विभूषितम् ।
कूटकोष्ठादिसर्वाङ्गं युक्त्वा तु समलङ्कृतम् ॥ ३८ ॥
शेषं तु पूर्ववत्कुर्यात्कर्णहर्म्यादि चोक्तवत् ।
सप्ताष्टक(कं) द्विभूम्यं तु [वि] शेषाणां (षेण) वक्ष्यतेऽधुना ॥ ३६ ॥
विस्तारार्धद्विगुणं वा त्रिगुणं वा तदुच्छ्रयम् ।
तन्मुखे मण्डपाग्रे तु कुर्यादधिकमण्डपम् ॥ ४० ॥
तत्पुरे मध्यमे द्वारं गवाक्षं वाथ कल्पयेत् ।
दक्षिणे मध्यमे द्वारं स्यादग्रे मध्यसण्डपम् ॥ ४१ ॥
चतुर्द्वारसमायुक्तं पूर्वे सोपानसंयुतम् ।
तदूर्ध्वं तलसर्वाङ्गं कूटकोष्ठादिभूषितम् ॥ ४२ ॥
सोपपीठमधिष्ठानं सोपपीठं (ठं) मसूरकम् ।
तदूर्ध्वे पादमञ्चं च संयुक्तं तन्निबर्ह(र्गं)कम् ॥ ४३ ॥
पूर्ववन्मानयुक्त्वा च विमानान्तस्य निर्गमम् ।
कुर्यात्तत्पादतुङ्गेषु षड्भागशिखिहीनकम् ॥ ४४ ॥
प्रस्तरस्योपरि न्यस्य चान्तर्मण्डलकृत्व्य (व्य)कम् ।
कर्णहर्म्यादिसंयुक्तं सर्वालङ्कारसंयुतम् ॥ ४५ ॥
आरोह्यं प्रदक्षिणं सौम्यमेवं प्रकल्पयेत् ।
शेषं तु पूर्ववत्कुर्यात्सर्वदेवांश्च सष्टाके ॥ ४६ ॥
श्रीकरं विजयं सिद्धं पौष्टि [कं] कान्तकं प्रभूतकम् ।
स्वस्तिकं पुष्कलं नाम प्रथमाद्यष्टसप्तके ॥ ४७ ॥
पूर्ववच्चोक्तदेवानां सर्वहर्म्येषु योजयेत् ।
अथवा विष्णुहर्म्ये तु गले पूर्वे जनार्दनम् ॥ ४८ ॥
दक्षिणे दक्षिणामूर्तिं नारसिंहमथापि वा ।
पश्चिमे केशवं प्रोक्तं चोत्तरे श्रीधरं भवेत् ॥ ४६ ॥
अथवा पितामहं स्यान्नागरादौ च हर्म्यके ।
द्वारदेवादि सर्वेषां (र्वांन्) पूर्ववत्कल्पयेत्सुधीः ॥ ५० ॥

v3.c24.s20.5

तदेव शिवहर्म्यं तु मण्डपे तु विशेषतः ।
सौम्ये तु कालरूपं वा प्रोक्तवांस्तत्रदैवतम् ॥ ५१ ॥

v3.c24.s20.6

स्थापयेत्क्षेत्रपालानां(न्) षण्मुखं चापि कल्पयेत् ।
आरोग्यं(प्यं) हर्म्यमूले तु कर्णहर्म्यात्प्रवेशयेत् ॥ ५२ ॥
सर्वेषां देवताहर्म्ये पूर्ववद्देवता न्यसेत् ।
उक्तवच्छालमार्गेण ऊ(चो)द्वापोहेन योजयेत् ॥ ५३ ॥

v3.c24.s20.7

वेदाश्रान्तं वर्तुलाभं गजाश्रं
> वृत्ताश्राभं द्व्यश्रवृत्तं समे(वै)व च ।
तदीर्घं तच्छिरोमीवयुक्तम्
> उक्तं प्राग्वद्भूषणादि द्विभूमौ ॥ ५४ ॥

v3.c24.s20.8

द्वाराप्रान्ते द्व्यंशकैकांशमलिन्दम्
> मञ्चस्योर्ध्वे चावृतं प्रस्तरं च ।
आरुह्य सार्धंहर्म्यमूलं यद्
> युक्त्या भक्त्या यन्मानोरम्यं कुर्यात् ॥ ५५ ॥

v3.c24.s20.9

इति मानसार वास्तुशास्त्रे द्वितलविधानं नाम विंशोऽध्यायः ॥

Linked texts (1)