Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s20.4
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s20.4
- Language
- English
v3.c24.s20.4
तत्पार्श्वं शालयोः पार्श्वे क्षुद्रनास्यैर्विभूषितम् ।
कूटकोष्ठादिसर्वाङ्गं युक्त्वा तु समलङ्कृतम् ॥ ३८ ॥
शेषं तु पूर्ववत्कुर्यात्कर्णहर्म्यादि चोक्तवत् ।
सप्ताष्टक(कं) द्विभूम्यं तु [वि] शेषाणां (षेण) वक्ष्यतेऽधुना ॥ ३६ ॥
विस्तारार्धद्विगुणं वा त्रिगुणं वा तदुच्छ्रयम् ।
तन्मुखे मण्डपाग्रे तु कुर्यादधिकमण्डपम् ॥ ४० ॥
तत्पुरे मध्यमे द्वारं गवाक्षं वाथ कल्पयेत् ।
दक्षिणे मध्यमे द्वारं स्यादग्रे मध्यसण्डपम् ॥ ४१ ॥
चतुर्द्वारसमायुक्तं पूर्वे सोपानसंयुतम् ।
तदूर्ध्वं तलसर्वाङ्गं कूटकोष्ठादिभूषितम् ॥ ४२ ॥
सोपपीठमधिष्ठानं सोपपीठं (ठं) मसूरकम् ।
तदूर्ध्वे पादमञ्चं च संयुक्तं तन्निबर्ह(र्गं)कम् ॥ ४३ ॥
पूर्ववन्मानयुक्त्वा च विमानान्तस्य निर्गमम् ।
कुर्यात्तत्पादतुङ्गेषु षड्भागशिखिहीनकम् ॥ ४४ ॥
प्रस्तरस्योपरि न्यस्य चान्तर्मण्डलकृत्व्य (व्य)कम् ।
कर्णहर्म्यादिसंयुक्तं सर्वालङ्कारसंयुतम् ॥ ४५ ॥
आरोह्यं प्रदक्षिणं सौम्यमेवं प्रकल्पयेत् ।
शेषं तु पूर्ववत्कुर्यात्सर्वदेवांश्च सष्टाके ॥ ४६ ॥
श्रीकरं विजयं सिद्धं पौष्टि [कं] कान्तकं प्रभूतकम् ।
स्वस्तिकं पुष्कलं नाम प्रथमाद्यष्टसप्तके ॥ ४७ ॥
पूर्ववच्चोक्तदेवानां सर्वहर्म्येषु योजयेत् ।
अथवा विष्णुहर्म्ये तु गले पूर्वे जनार्दनम् ॥ ४८ ॥
दक्षिणे दक्षिणामूर्तिं नारसिंहमथापि वा ।
पश्चिमे केशवं प्रोक्तं चोत्तरे श्रीधरं भवेत् ॥ ४६ ॥
अथवा पितामहं स्यान्नागरादौ च हर्म्यके ।
द्वारदेवादि सर्वेषां (र्वांन्) पूर्ववत्कल्पयेत्सुधीः ॥ ५० ॥