Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s21: त्रितलविधानम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s21
- Language
- English
त्रितलविधानम्
v3.c24.s21.1
त्रितलस्य विधाने च लक्षणं वक्ष्यतेऽधुना ।
विमानतुङ्गं (ङ्गं) षडंशे तु सार्धांशेन मसूरकम् ॥ १ ॥
तदूर्ध्वं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
मूलपादोदयेऽष्टांशमधिकं (चांशाढोने) चोर्ध्वांङ्घ्रितुङ्गकम् ॥ २ ॥
तदर्धं प्रस्तरोच्चं तु पादमूलद्विगुणाऽधिकम् ।
तदर्धं चोर्ध्वको [प] पादं तस्यार्धं वेदिकोन्नतम् ॥ ३ ॥
तद्द्वयं चोर्ध्वकम्पं स्याद्ग्रीवस्तुङ्गं द्वयांशकम् ।
शेषं चोर्ध्वं शिखोतुङ्गं सर्वालङ्कारसंयुतम् ॥ ४ ॥
प्रच्छादनोपरि स्तम्भं कर्णहर्म्यादिमण्डितम् ।
विस्तारोत्सेधभक्तमेषां यत्तत्प्रागुक्तवन्नयेत् ॥ ५ ॥
श्रीकान्तं हर्म्यकं प्रोक्तं क्षुद्रं त्रितले विदुः ।
अथवा सप्तसप्तांशं विभजेत्त्रितलोदये ॥ ६ ॥
चतुर्भागमधिष्ठानं तद्द्वयं पादतुङ्गकम् ।
अधिष्ठानसमं मञ्चं मञ्चोर्ध्वेऽर्धेन वप्रयुक् ॥ ७ ॥
सत्रिपादषडंशेन चोर्ध्वं पादोदयं भवेत् ।
तदूर्ध्वं प्रस्तरोत्तुङ्गं सत्रिपादं त्रिपादकम् ॥ ८ ॥
तदूर्ध्वऽर्धेन वप्रं स्यात्तदूर्ध्वेऽङ्घ्रि षडंशकम् ।
सार्धद्विभाग (गं) मञ्चं स्यादर्घांशमूर्ध्वपट्टिकम् ॥ ६ ॥
एकांशं वेदिकोतुङ्गं ग्रीवस्तुङ्गं गुणांशकम् ।
तद्द्वयं शिखरतुङ्गं स्याद्गुणांशं तच्छिखोदयम् ॥ १० ॥
शेषं प्रागुक्तवत्कुर्यादासने परिकीर्तितम् ।
अथवा त्रितलोत्तुङ्गं (ङ्गे) द्वादशांशं विभाजिते ॥ ११ ॥
v3.c24.s21.2
तदेकांशमधिष्ठानं द्विभागं पाददीर्घ(दैर्ध्य)कम् ।
तदर्धं प्रस्तरोत्सेधं त्रिपादं चोर्ध्वपीठकम् ॥ १२ ॥
तत्समो(ममू)र्ध्व त्वधिष्ठानं तद्वयं पाददीर्घ(दैर्ध्य)कम् ।
तदर्धं प्रस्तरं चोर्ध्वं सार्धांशेन मसूरकम् ॥ १३ ॥
एकांशं पाददीर्घ(दैर्घ्यं) स्यादर्थांशं मञ्चतुङ्गकम् ।
तदर्धं वेदिकोत्तुङ्गं तद्वयं ग्रीवतुङ्गकम् ॥ १४ ॥
ग्रीवतुङ्गद्वयं चोर्ध्वं मस्तकमर्धं शिखोदयम् ।
एवं सुखालयं प्रोक्तं शेषं पूर्ववदाचरेत् ॥ १५ ॥
तस्योपपीठदेशेतु चोद्धृता हरितान्वितम् ।
एतत्तु कंसरं प्रोक्तं कमलाङ्गमथोच्यते ॥ १६ ॥
चतुर्विंशांशिकं(क) तुङ्गे श्रीकान्तस्याकृतिस्तथा ।
सर्वाङ्गकं गवाक्षं स्यात्कर्णहर्म्यं विना तथा ॥ १७ ॥
नानावेदिकया युक्तं नानास्तम्भैरलङ्कृतम् ।
चतुर्दिशद्वारं कुर्यात्संकीर्णं द्रव्यसंयुतम् ॥ १८ ॥
आदिभूतं तु कुड्यं(ड्यं) स्यात्तदूर्ध्वत्यङ्घ्रिसंयुतम् ।
सर्वालङ्कारसंयुक्तं कमलाङ्कमुदीरितम् ॥ १९ ॥
तदेव कर्णहर्म्यादियुक्तं वेद्यादिभूषितम् ।
सर्वालङ्कारसंयुक्तं ब्रह्मकान्तमिति स्मृतम् ॥ २० ॥
अथवा तुङ्गमाने तु त्रिंशदंशं विभाजिते ।
अधिष्ठानं द्विभागं स्यात्तद्द्वयं पादतुङ्गकम् ॥ २१ ॥
तदर्धं प्रस्तरोत्तुङ्गं चोर्ध्वमर्धं तु तत्समम् ।
सार्धद्व्यंशकं चोर्ध्वं पादं सार्धांश(शं) मञ्चकम् ॥ २२ ॥
तत्समं चोर्ध्वमञ्चं स्यादूर्ध्वं पादं गुणांशकम् ।
सपादांशं प्रस्तरं स्यात्तत्समं चोर्ध्वमञ्चकम् ॥ २३ ॥
तदर्धं वेदिकोत्तुङ्गं तत्समं कन्धरोदयम् ।
ग्रीवद्वयं शिरो(र उ)त्तुङ्गं शेषं तु स्तुपितुङ्गकम् ॥ २४ ॥
कर्णहर्म्यादिसंयुक्तं मेरुक्रान्तमिति स्मृतम् ।
तदेवैकांशमाधिक्ये मूले व्यंश्रमासनम् ॥ २५ ॥
v3.c24.s21.3
तद्द्वयं पाददीर्घ (दैर्घ्यं) स्यात्तदर्धं प्रस्तरोदयम् ।
ऊर्ध्वाङ्गं पूर्ववत्कुर्यादेतत्कैलासमीरितम् ॥ २६ ॥
आरुह्य प्रदक्षिणां कुर्याद्धर्म्यमेवं तु पूर्ववत् ।
एतदष्टविधं प्रोक्तं त्रितले चोत्तमं मतम् ॥ २७ ॥
विशाले तु यथाभागं कूटानां चैकभागिकम् ।
मध्ये द्वित्रिचतुर्भागं शालाकोष्ठं प्रकल्पयेत् ॥ २८ ॥
एकद्वित्र्यंशकेनैव हारां सपंजरान्वित(ता)म् ।
परितश्चैकभागेन कूटशालादिभूषितम् ॥ २९ ॥
तस्यान्तावृतांशेन चोर्ध्वदेशे जलस्थलम् ।
एकं वा द्वित्रिदण्डेन भद्रनिर्गममीरितम् ॥ ३० ॥
हारा च तन्त्रिभागैकं मध्यशालाविभूषितम् ।
अष्टकूटसमायुक्तं कोष्ठकं चाष्टसंयुतम् ॥ ३१ ॥
षोडशाहार(शहारा) संयुक्तं सर्वालङ्कारसंयुतम् ।
नानाधिष्ठानसंयुक्तं नानापादैरलंङ्कृतम् ॥ ३२ ॥
नानातोरणैर्नीडैर्नानावेद्यै(दिभि)रलङ्कृतम् ।
त्रितले कूटकोष्ठादि हारादीन् गलदेशके ॥ ३३ ॥
मूलपादप्रदेशे तु कुर्यात्तु सर्वदेवताः ।
देवादीनां पुराणांश्च देवतानां च विग्रहम् ॥ ३४ ॥
युक्त्या सर्वप्रयत्नेन विन्यसेल्लक्षणोक्तवत् ।
ग्रीवादिसचिवा(शिखा)न्तञ्च पूर्वोक्तानां च संमतम् ॥ ३५ ॥
प्रोक्तमस्तक शिखाप्रदेशके
नागरादिसमलङ्कृतोक्तवत् ।
देवता दिशि चाष्टतो न्यसेद्
विष्णु(ष्णो)रीश्वरजिनादि(वे)रालये ॥ ३६ ॥
v3.c24.s21.4
इति मानमारे वास्तुशास्त्रे त्रितलविधानं नाम एकोविंशोऽध्यायः ॥
Linked texts (1)
- Mānasāra — Sanskrit