Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s21.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s21.2

Language
English

v3.c24.s21.2

तदेकांशमधिष्ठानं द्विभागं पाददीर्घ(दैर्ध्य)कम् ।
तदर्धं प्रस्तरोत्सेधं त्रिपादं चोर्ध्वपीठकम् ॥ १२ ॥
तत्समो(ममू)र्ध्व त्वधिष्ठानं तद्वयं पाददीर्घ(दैर्ध्य)कम् ।
तदर्धं प्रस्तरं चोर्ध्वं सार्धांशेन मसूरकम् ॥ १३ ॥
एकांशं पाददीर्घ(दैर्घ्यं) स्यादर्थांशं मञ्चतुङ्गकम् ।
तदर्धं वेदिकोत्तुङ्गं तद्वयं ग्रीवतुङ्गकम् ॥ १४ ॥
ग्रीवतुङ्गद्वयं चोर्ध्वं मस्तकमर्धं शिखोदयम् ।
एवं सुखालयं प्रोक्तं शेषं पूर्ववदाचरेत् ॥ १५ ॥
तस्योपपीठदेशेतु चोद्धृता हरितान्वितम् ।
एतत्तु कंसरं प्रोक्तं कमलाङ्गमथोच्यते ॥ १६ ॥
चतुर्विंशांशिकं(क) तुङ्गे श्रीकान्तस्याकृतिस्तथा ।
सर्वाङ्गकं गवाक्षं स्यात्कर्णहर्म्यं विना तथा ॥ १७ ॥
नानावेदिकया युक्तं नानास्तम्भैरलङ्कृतम् ।
चतुर्दिशद्वारं कुर्यात्संकीर्णं द्रव्यसंयुतम् ॥ १८ ॥
आदिभूतं तु कुड्यं(ड्यं) स्यात्तदूर्ध्वत्यङ्घ्रिसंयुतम् ।
सर्वालङ्कारसंयुक्तं कमलाङ्कमुदीरितम् ॥ १९ ॥
तदेव कर्णहर्म्यादियुक्तं वेद्यादिभूषितम् ।
सर्वालङ्कारसंयुक्तं ब्रह्मकान्तमिति स्मृतम् ॥ २० ॥
अथवा तुङ्गमाने तु त्रिंशदंशं विभाजिते ।
अधिष्ठानं द्विभागं स्यात्तद्द्वयं पादतुङ्गकम् ॥ २१ ॥
तदर्धं प्रस्तरोत्तुङ्गं चोर्ध्वमर्धं तु तत्समम् ।
सार्धद्व्यंशकं चोर्ध्वं पादं सार्धांश(शं) मञ्चकम् ॥ २२ ॥
तत्समं चोर्ध्वमञ्चं स्यादूर्ध्वं पादं गुणांशकम् ।
सपादांशं प्रस्तरं स्यात्तत्समं चोर्ध्वमञ्चकम् ॥ २३ ॥
तदर्धं वेदिकोत्तुङ्गं तत्समं कन्धरोदयम् ।
ग्रीवद्वयं शिरो(र उ)त्तुङ्गं शेषं तु स्तुपितुङ्गकम् ॥ २४ ॥
कर्णहर्म्यादिसंयुक्तं मेरुक्रान्तमिति स्मृतम् ।
तदेवैकांशमाधिक्ये मूले व्यंश्रमासनम् ॥ २५ ॥