Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s21.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s21.1

Language
English

v3.c24.s21.1

त्रितलस्य विधाने च लक्षणं वक्ष्यतेऽधुना ।
विमानतुङ्गं (ङ्गं) षडंशे तु सार्धांशेन मसूरकम् ॥ १ ॥
तदूर्ध्वं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
मूलपादोदयेऽष्टांशमधिकं (चांशाढोने) चोर्ध्वांङ्घ्रितुङ्गकम् ॥ २ ॥
तदर्धं प्रस्तरोच्चं तु पादमूलद्विगुणाऽधिकम् ।
तदर्धं चोर्ध्वको [प] पादं तस्यार्धं वेदिकोन्नतम् ॥ ३ ॥
तद्द्वयं चोर्ध्वकम्पं स्याद्ग्रीवस्तुङ्गं द्वयांशकम् ।
शेषं चोर्ध्वं शिखोतुङ्गं सर्वालङ्कारसंयुतम् ॥ ४ ॥
प्रच्छादनोपरि स्तम्भं कर्णहर्म्यादिमण्डितम् ।
विस्तारोत्सेधभक्तमेषां यत्तत्प्रागुक्तवन्नयेत् ॥ ५ ॥
श्रीकान्तं हर्म्यकं प्रोक्तं क्षुद्रं त्रितले विदुः ।
अथवा सप्तसप्तांशं विभजेत्त्रितलोदये ॥ ६ ॥
चतुर्भागमधिष्ठानं तद्द्वयं पादतुङ्गकम् ।
अधिष्ठानसमं मञ्चं मञ्चोर्ध्वेऽर्धेन वप्रयुक् ॥ ७ ॥
सत्रिपादषडंशेन चोर्ध्वं पादोदयं भवेत् ।
तदूर्ध्वं प्रस्तरोत्तुङ्गं सत्रिपादं त्रिपादकम् ॥ ८ ॥
तदूर्ध्वऽर्धेन वप्रं स्यात्तदूर्ध्वेऽङ्घ्रि षडंशकम् ।
सार्धद्विभाग (गं) मञ्चं स्यादर्घांशमूर्ध्वपट्टिकम् ॥ ६ ॥
एकांशं वेदिकोतुङ्गं ग्रीवस्तुङ्गं गुणांशकम् ।
तद्द्वयं शिखरतुङ्गं स्याद्गुणांशं तच्छिखोदयम् ॥ १० ॥
शेषं प्रागुक्तवत्कुर्यादासने परिकीर्तितम् ।
अथवा त्रितलोत्तुङ्गं (ङ्गे) द्वादशांशं विभाजिते ॥ ११ ॥