Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s25.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s25.1

Language
English

v3.c24.s25.1

सप्तभूमिविधानस्य(नं च) लक्षणं वक्ष्यतेऽधुना ।
विस्तारोत्सेधमानं(भागं) च पूर्ववत्परिकल्पयेत् ॥ १ ॥
जन्मादिस्तूपिपर्यन्तं समानानि विभाजिते ।
भागोनषट्षडंशं स्याद्वि(दृढं) शाविष्ठानोच्चयम् ॥ २ ॥
तदूर्ध्वं पादतुङ्गं स्यात्प्रस्तरोच्चं कलांशकम् ।
तदूर्ध्वे [ऽङ्घ्रि] सार्धमन्ध्यां(न्ध्यं) शं तदर्थं प्रस्तरोदयम् ॥ ३ ॥
गुह्यांशं पादतुङ्गं स्यात्सार्धभागोर्ध्वमञ्चकम् ।
सार्धयुग्मांशपादोष्णं(र्वं) सपादांशं प्रस्तरोदयम् ॥ ४ ॥
वेदिकांचा(चम) र्धभागं स्यात्सपादार्थं गलोदयम् ।
चरणोर्ध्वं त्रिभागं स्यान्मञ्चोर्ध्वमस्रवरांशकम् ॥ ५ ॥
पादोनद्वि(द्व्यं) शपादोच्चं शिवांशं प्रस्तरोदयम् ।
अत्य(ध्य) र्धं पादतुङ्गं स्यान्मञ्चोर्ध्वं तु तदर्थकम् ॥ ६ ॥
वेदिकांचा(चम) र्धभागं स्यात्सपादार्थं गलोदयम् ।
तदूर्ध्वं शिर(रस्) तुङ्गं स्याच्छ्रेष्ठं तु तच्छिखोदयम् ॥ ७ ॥
पूर्ववद्भक्तिमानेन विस्तारे (रं) तत्प्रकल्पयेत् ।
क्षुद्रे च मध्य (ध्ये) मुख्यं च कूटशालादिभागता ॥ ८ ॥
एकं वाथ द्विभागं [वा] कर्णकूटविशालकम् ।
षट्सप्ताष्टनवांशं वा शालायामं तु मध्यमे ॥ ९ ॥
शालाकूटद्वयोर्मध्ये शेषांशं चान्तरालकम् ।
तन्मध्ये द्वित्रिभागैकं क्षुद्रशालाविशालता ॥ १० ॥
तत्तत्पार्श्वद्वयोर्हारि शेषभागं विधीयते ।
तदूर्ध्वं चैकभागेन कुर्यादावृत्तलिन्बकम् ॥ ११ ॥