Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s25.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s25.2
- Language
- English
v3.c24.s25.2
तले तले च पादौ च कर्णहर्यादिमण्डितम् ।
पुण्डरीकमिदं प्रोक्तं सर्वालङ्कारसंयुतम् ॥ १२ ॥
मध्ये तु भद्रशालं च श्रीकान्तमिति स्मृतम् ।
ऊर्ध्वशाला च(लया) संयुक्तं श्रीभोगमिति कथ्यते ॥ १३ ॥
शालापार्श्वे तु कूटं स्याद्वारखं तत्प्रकथ्यते ।
गलकूटसमायुक्तं पञ्जराख्यमुदीरितम् ॥ १४ ॥
तले तले भद्रकोष्ठा(ष्ठमा) भ्रमागारं परिकीर्तितम् ।
मध्ययुग्मं तु (ग्मेन) संयुक्तं हर्म्यकान्तमिति स्मृतम् ॥ १५ ॥
ऊर्ध्वकूटसमायुक्तं हिमकान्तमिति स्मृतम् ।
एतदष्टविधं प्रोक्तं सप्तभूमिविधानके ॥ १६ ॥
तले तले तु कोष्ठे स्यात्कर्णकूटाद्यलिन्दकम् ।
क्षुद्रशालादिसर्वेषां वेदिकाभिरलङ्कृतम् ॥ १७ ॥
तोरणैर्नासिकैर्युक्तं क्षुद्रनास्यैश्च भूषितम् ।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ १८ ॥
नानाप्रस्तरसंयुक्तं जालकाभिरलङ्कृतम् ।
एकाङ्गं च त्रयाङ्गं वा पञ्चसप्ताङ्गमेव वा ॥ १६ ॥
एवं सप्ततलं प्रोक्तं शे प्रागुक्तवन्नयेत् ।
देवानां पूर्ववत्कुर्यात्तले तले विमानके ॥ २० ॥