Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s26: अष्टतलविधानम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s26

Language
English

अष्टतलविधानम्

v3.c24.s26.1

अष्टतलविमानस्यानं च) लक्षणं वक्ष्यतेऽधुना ।

v3.c24.s26.2

पूर्ववत्तुङ्गमानेन कुड्यमाद्यङ्गं मानयेत् ॥ १ ॥ पूर्ववद्भाक्तिमानेन कूटशालादि मानयेत् । भूकान्तं भूपकान्तं च स्वर्गकान्तं तथैव च ॥ २ ॥ महाकान्तं जनकान्तं च तप(पस्)कान्तं सत्यकान्तकम् । देवकान्तमिति प्रोक्तमष्टधा नाममे(ए)व च ॥ ३ ॥ षोडशांशकमाधिक्यं भागं हर्म्यविशालकम् । एकांशं कर्णकूटं स्याद्धारान्तर(रं) शिंवांशकम् ॥ ४ ॥ वि(द्वि)भागेनानुशाला च तदर्धं चान्तर(लकम् । सप्तांशेन महाशाला हर्म्यमेतत्तु विन्यसेत् ॥ ५ ॥ चतुष्कोणे चतुष्कूटं कोष्ठे हारादिरष्टधा । क्षुद्रशालाष्टधा प्रोक्तं कोष्ठशाला चतुष्टयम् ॥ ६ ॥ मध्यशालात्रिभागेन भद्रशाला च मध्यमे । सप्तपार्श्वद्वयो[रेव] द्विद्विभागार्थ(धं) शालयोत् ॥ ७ ॥ एव(वं) मूलतलाद्यैश्च चोर्ध्वेऽर्ध्व(र्ध)तला(लं) न्यसेत् । अथवाष्टादशांशे तु कूटहारा च पूर्ववत् ॥ ८ ॥ षड्भागेन महाशाला चतुःशाला त्रिभागिकम्(का) । मध्यशालैर(ला)युगांशेन भद्रशाला च मध्यमे ॥ ९ ॥ अनुशाला च मध्ये च ए(स्वे)क्रमागेन भद्रकम् । शेषं पूर्ववत्कुर्याद् भूकान्तमुदीरितम् ॥ १० ॥ एकोनविंशांशेन चाष्टभूमिविशालके । एकैक(के) कूटविस्तारं महाशाला शरांशकम् ॥ ११ ॥

v3.c24.s26.3

अनुशाला त्रिभागा वा भा(हा)रान्तर(रं) द्विभागिकम् ।
महाशाला त्रिभागेन भद्रशालाविशालता ॥ १२ ॥
शेषं प्रागुक्तवत्कुर्याद्देव(देवं) भागाधिकं ततः ।
मध्यशालानरांशेन युक्ता तन्मध्यभद्रकम् ॥ १३ ॥
शेषं तु पूर्ववत्कुर्यादुपकान्तमिति स्मृतम् ।
एवं चाष्टतले क्षुद्रहर्म्यमेवं प्रकल्पयेत् ॥ १४ ॥
एकविंशांशकं चाष्टतलहर्म्ये विशालके ।
मध्ये सप्ताष्ट(मांश)कं चैव महाशाला(लां) प्रकल्पयेत् ॥ १५ ॥
तन्मध्ये भूतभागेन मध्यशाला सभद्रकम्(का) ।
तद्वहिश्च त्रिभागेन भद्रशालाविभूषितम् ॥ १६ ॥
शेषं प्रागुक्तवत्कुर्यात्स्वर्गीकान्तमिति स्मृतम् ।
एवमष्टतलं कुर्यान्मध्यमालयमेव च ॥ १७ ॥
द्वाविंशांशकं तारे च श्रेष्ठमष्टतलं भवेत् ।
तन्मध्ये चाष्टभागेन महाशालाविशालकम् ॥ १८ ॥
तन्मध्ये वेदभागेन कोष्ठशाला सभद्रकम्(का) ।
महाकान्तमिति प्रोक्तं तन्मध्ये च द्विभागवत् ॥ १६ ॥
भद्रशालासमायुक्तं जनकान्तमिति स्मृतम् ।
सच्छात्राया द्विपार्श्वे तु नेत्रशाला सभद्रकम्(का) ॥ २० ॥
एतत्तु तप(पस्)कान्तं स्याच्छेषं प्रागुक्तवन्नयेत् ।
सदैव मध्यशाले तु तत्पार्श्वे च विशेषतः ॥ २१ ॥
एकैकं कूटविस्तारं तत्समं हारसंयुक्तम् ।
एतत्तु सत्यकान्तं स्याच्छेषं पूर्ववदाचरेत् ॥ २२ ॥
तदेवमनुशाला च कुर्यान्मध्य(ध्यं) सभद्रकम् ।
देवकान्तमिति प्रोक्तं चोर्ध्वोध्वंतलं न्यसेत् ॥ २३ ॥
एवं श्रेष्ठं त्वष्टतलं सर्वालङ्कारसंयुतम् ।
जन्मादिस्तूपिपर्यन्तं बाहुल्यमानमिहोच्यते ॥ २४ ॥
सैका ष्टपञ्चाशेंकांशं हर्म्ये तुङ्गं विभाजिते ।
आधारं चाष्टभागेन वेदांशं चरखायु(य)तम् ॥ २५ ॥

v3.c24.s26.4

तदर्धं वलभ्युत्सेधं सार्धवह्यंशमण्डिकम्।
सत्रिपादांशकं मञ्चमूर्ध्वं पादं गुणांशकम् ॥ २६ ॥
तदर्धं चोर्ध्वमञ्चं स्यात्त्रिपादाङ्घ्रिमितुङ्गकम्।
सपादांशं प्रस्तरोत्तुङ्गं द्वयर्थाशं चरवायु(य)तम् ॥ २७ ॥
तदर्धं प्रस्तरोत्सेधं जङ्घायामं च सार्धकम्।
प्रस्तरं चैकभागेन व्यंशपादाधिकमण्डिकम् ॥ २८ ॥
ऊर्ध्वमञ्च(ञ्चं) त्रिपादं स्यात्सभातं पादतुङ्गकम्।
एकांशं प्रस्तरोत्सेधं तदूर्ध्वं च त्रिभागिकम् ॥ २९ ॥
तत्रिभागैकवेदि स्याद्द्विभागं गळतुङ्गकम्।
सपादं चांशकं चोर्ध्वं शिरःशेषं शिखोदयम् ॥ ३० ॥
केचिच्चदेव तुङ्गे तु सप्तभागाधिकं तथा।
ऊर्ध्वोर्ध्वपादमूले तु युक्त्यांशेन मसूरकम् ॥ ३१ ॥
तलानां चैकभागेन कर्णहर्म्यां(र्येमा)वृता(तं) न्यसेत्।
अन्तर(रं) प्रस्तरोपेतं सर्वालङ्कारसंयुक्तम् ॥ ३२ ॥
तस्यान्त्यस्यैकभागेन कुर्यादावृतालिन्दकम्।
मूले भागं पदांशेन चोर्ध्वोर्ध्वतलांशकम् ॥ ३३ ॥
नेत्रशालाधंशाला च भद्रशालादिनभूषितम्।
तोरणैस्तल(नोड)शालादिनासिकाभिरलङ्कृतम् ॥ ३४ ॥
कोष्ठे(ष्ठ)शाला च मध्ये च चोर्ध्वशाला च मण्डितम्।
नासिकापञ्जराढ्यं च भद्रनास्यैरलङ्कृतम् ॥ ३५ ॥
क्षुद्रशालाप्रदेशे तु सर्वालङ्कारसंयुतम्।
कर्णकूटाङ्गमध्ये तु नासिकापञ्जरान्वितम् ॥ ३६ ॥
सर्वाङ्गं क्षुद्रनास्याङ्गं प्रस्तरालङ्कृतिक्रिया।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ ३७ ॥
नागरद्राविडादीनां बेसरादीन(नां) शिखान्वितम्।
सर्वालङ्कारसंयुक्तं पूर्ववत्परिकल्पयेत् ॥ ३८ ॥

v3.c24.s26.5

इति मानमारे वास्तुशास्त्रे अष्टतलविधानं नाम षड्विंशोऽध्यायः ॥

Linked texts (1)