Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s26.4
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s26.4
- Language
- English
v3.c24.s26.4
तदर्धं वलभ्युत्सेधं सार्धवह्यंशमण्डिकम्।
सत्रिपादांशकं मञ्चमूर्ध्वं पादं गुणांशकम् ॥ २६ ॥
तदर्धं चोर्ध्वमञ्चं स्यात्त्रिपादाङ्घ्रिमितुङ्गकम्।
सपादांशं प्रस्तरोत्तुङ्गं द्वयर्थाशं चरवायु(य)तम् ॥ २७ ॥
तदर्धं प्रस्तरोत्सेधं जङ्घायामं च सार्धकम्।
प्रस्तरं चैकभागेन व्यंशपादाधिकमण्डिकम् ॥ २८ ॥
ऊर्ध्वमञ्च(ञ्चं) त्रिपादं स्यात्सभातं पादतुङ्गकम्।
एकांशं प्रस्तरोत्सेधं तदूर्ध्वं च त्रिभागिकम् ॥ २९ ॥
तत्रिभागैकवेदि स्याद्द्विभागं गळतुङ्गकम्।
सपादं चांशकं चोर्ध्वं शिरःशेषं शिखोदयम् ॥ ३० ॥
केचिच्चदेव तुङ्गे तु सप्तभागाधिकं तथा।
ऊर्ध्वोर्ध्वपादमूले तु युक्त्यांशेन मसूरकम् ॥ ३१ ॥
तलानां चैकभागेन कर्णहर्म्यां(र्येमा)वृता(तं) न्यसेत्।
अन्तर(रं) प्रस्तरोपेतं सर्वालङ्कारसंयुक्तम् ॥ ३२ ॥
तस्यान्त्यस्यैकभागेन कुर्यादावृतालिन्दकम्।
मूले भागं पदांशेन चोर्ध्वोर्ध्वतलांशकम् ॥ ३३ ॥
नेत्रशालाधंशाला च भद्रशालादिनभूषितम्।
तोरणैस्तल(नोड)शालादिनासिकाभिरलङ्कृतम् ॥ ३४ ॥
कोष्ठे(ष्ठ)शाला च मध्ये च चोर्ध्वशाला च मण्डितम्।
नासिकापञ्जराढ्यं च भद्रनास्यैरलङ्कृतम् ॥ ३५ ॥
क्षुद्रशालाप्रदेशे तु सर्वालङ्कारसंयुतम्।
कर्णकूटाङ्गमध्ये तु नासिकापञ्जरान्वितम् ॥ ३६ ॥
सर्वाङ्गं क्षुद्रनास्याङ्गं प्रस्तरालङ्कृतिक्रिया।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ ३७ ॥
नागरद्राविडादीनां बेसरादीन(नां) शिखान्वितम्।
सर्वालङ्कारसंयुक्तं पूर्ववत्परिकल्पयेत् ॥ ३८ ॥