Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s30.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s30.2

Language
English

v3.c24.s30.2

महाशाला युगांशेन मध्यमन्र(भद्रं) प्रकारयेत् ।
तले तले विमाने तु शालापञ्जरषोडशम् ॥ १२ ॥
क्षुद्रशाला द्विहारा च तन्मध्ये चाष्टकं भवेत् ।
चतुर्दिक्षु महाशाला चतुष्कूट(टं) तले तले ॥ १३ ॥
एवं व(वि)राट्कान्तं स्याच्छेषं भागं तु पूर्ववत् ।
तदेव भूतभागेन क्षुद्रशालाविशालकम् ॥ १४ ॥
हारा च तन्त्रिभागेन युक्त्वा च समलङ्कृतम् ।
शेषं प्रागुक्तवत्कुर्यात्तदेव केरलकान्तकम् ॥ १५ ॥
तदेव हारां तन्मध्ये चैकभागेन सौष्ठिकम् ।
वंश[क]कान्तमिति प्रोक्तं शेषं पूर्ववदाचरेत् ॥ १६ ॥
तदेवानुशालामध्ये भद्रशालैकभागिकम् ।
एवं मागधकान्तं स्यात्कर्णकूट(टं) सभद्रकम् ॥ १७ ॥
तदेव महाशाला तु(या) द्विभागं मध्यभद्रकम् ।
जन[क]कान्तमिति प्रोक्तं श्रेष्ठो रवितलान्वितः(तम्) ॥ १८ ॥
एकादशतलोत्तुङ्गे त्रयोदशांशमा(म)धिकम् ।
तद्भागं युगांशं तु कुट्टिमोदयमीरितम् ॥ १९ ॥
अष्टांशं पादतुङ्गं स्यात्तदर्थं प्रस्तरोदयम् ।
अर्धायंशं तु शिखोपेते शेषांशं प्राग्वदुच्छ्रयम् ॥ २० ॥
एवं द्वादशतलं स्यात्तुङ्गं युक्त्या समाचरेत् ।
एकेन परितोऽलिन्दं तदूर्ध्वोर्ध्वतलानि च ॥ २१ ॥
एकानेकतलान्ते च चादिभूमिवशाद्विदुः ।
अनाहृत्यं(त्यं)शकं कृत्वा तदूर्ध्वोर्ध्वतला(लानि) न्यसेत् ॥ २२ ॥
एकद्वित्रित्रिदण्डं वा मध्यशालाच(लाया) निर्गमम् ।
अर्धमेक(कं) द्विदण्डं वा क्षुद्रशालादिनिर्गमम् ॥ २३ ॥
एकांशाल्य(शमध्य)दण्डं वा सर्वेषां भद्रनिर्गमम् ।
तले तले च पादादि बहुकूटं चालिन्दकम् ॥ २४ ॥