Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s30: द्वादशतलविधानम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s30

Language
English

द्वादशतलविधानम्

v3.c24.s30.1

अन्यभूमिविधानस्य(नं च) लक्षणं वक्ष्यतेऽधुना ।
भूमिलम्बविधाने तु विस्तारात्सेचमुक्तवत् ॥ १ ॥
क्षुद्रल्पमध्यमुख्ये तु यन्मानारम्य(म्यं) मानयेत् ।
विमानस्य विमा(ना)ने तु चोक्तवद्द्वक्तिसंग्रहम् ॥ २ ॥
पाञ्चालं द्राविडं चैव मध्यकान्तं कलिङ्गकम् ।
व(वि)राटं केरलं चैव वंशकं मागधं तथा ॥ ३ ॥
जनकं स्फू(गृ)र्जकं चैव दशकान्तं प्रकीर्तितम् ।
रविभूमिविशाले तु चाष्टविंशांशकं भवेत् ॥ ४ ॥
महाशाला दशांशं स्याच्छेषं पूर्ववदाचरेत् ।
पाञ्चालं द्राविडं चैव रविभूम्यलयहर्म्यके ॥ ५ ॥
मध्यमालयविस्तारे त्रयस्त्रिंशद्विभाजिते ।
त्रिभागं कूटविस्तारं मध्यभद्रे (द्रमे)कमाभिकम् ॥ ६ ॥
महाशाला नवांशं स्याच्छेषं पूर्ववदाचरेत् ।
मध्यकान्तमिति प्रोक्तं तस्य कूट(टे) द्विभागिकम् ॥ ७ ॥
अनुशाला षडंशे(शं) स्यात्तस्यानुं पूर्ववद्भवत् ।
एवं कालिङ्गकान्तं स्यान्नानालङ्कारसंयुतम् ॥ ८ ॥
चतुरा(र)धिकत्रिदशभागं हर्म्यविशालके ।
अष्टांशेन महाशाला पार्श्वे शाला शिवांशकम् ॥ ६ ॥
द्व्यंशानुपञ्जरशाला तदर्धं चान्तरालकम् ।
अनुशाला त्रिभागं स्यादेकांशमन्तरालकम् ॥ १० ॥
द्वि(द्व्यं)शं पञ्जरशाला च पार्श्वे हारं शिवांशकम् ।
कूटानां च द्विभागं स्यात्सर्वं युक्त्या(क्त्या) सभद्रकम् ॥ ११ ॥

v3.c24.s30.2

महाशाला युगांशेन मध्यमन्र(भद्रं) प्रकारयेत् ।
तले तले विमाने तु शालापञ्जरषोडशम् ॥ १२ ॥
क्षुद्रशाला द्विहारा च तन्मध्ये चाष्टकं भवेत् ।
चतुर्दिक्षु महाशाला चतुष्कूट(टं) तले तले ॥ १३ ॥
एवं व(वि)राट्कान्तं स्याच्छेषं भागं तु पूर्ववत् ।
तदेव भूतभागेन क्षुद्रशालाविशालकम् ॥ १४ ॥
हारा च तन्त्रिभागेन युक्त्वा च समलङ्कृतम् ।
शेषं प्रागुक्तवत्कुर्यात्तदेव केरलकान्तकम् ॥ १५ ॥
तदेव हारां तन्मध्ये चैकभागेन सौष्ठिकम् ।
वंश[क]कान्तमिति प्रोक्तं शेषं पूर्ववदाचरेत् ॥ १६ ॥
तदेवानुशालामध्ये भद्रशालैकभागिकम् ।
एवं मागधकान्तं स्यात्कर्णकूट(टं) सभद्रकम् ॥ १७ ॥
तदेव महाशाला तु(या) द्विभागं मध्यभद्रकम् ।
जन[क]कान्तमिति प्रोक्तं श्रेष्ठो रवितलान्वितः(तम्) ॥ १८ ॥
एकादशतलोत्तुङ्गे त्रयोदशांशमा(म)धिकम् ।
तद्भागं युगांशं तु कुट्टिमोदयमीरितम् ॥ १९ ॥
अष्टांशं पादतुङ्गं स्यात्तदर्थं प्रस्तरोदयम् ।
अर्धायंशं तु शिखोपेते शेषांशं प्राग्वदुच्छ्रयम् ॥ २० ॥
एवं द्वादशतलं स्यात्तुङ्गं युक्त्या समाचरेत् ।
एकेन परितोऽलिन्दं तदूर्ध्वोर्ध्वतलानि च ॥ २१ ॥
एकानेकतलान्ते च चादिभूमिवशाद्विदुः ।
अनाहृत्यं(त्यं)शकं कृत्वा तदूर्ध्वोर्ध्वतला(लानि) न्यसेत् ॥ २२ ॥
एकद्वित्रित्रिदण्डं वा मध्यशालाच(लाया) निर्गमम् ।
अर्धमेक(कं) द्विदण्डं वा क्षुद्रशालादिनिर्गमम् ॥ २३ ॥
एकांशाल्य(शमध्य)दण्डं वा सर्वेषां भद्रनिर्गमम् ।
तले तले च पादादि बहुकूटं चालिन्दकम् ॥ २४ ॥

v3.c24.s30.3

सर्व्वाङ्गं कर्णहर्म्यादि सान्तरप्रस्तरान्वितम् ।
विनाभद्रं महाशाला चैकशाला समन्वितम् ॥ २५ ॥
एकभद्रोर्ध्वशाला च मध्यकोष्ठसमन्वितम् ।
द्विभद्रं(द्रा) चेन्महाशाला मूर्त्तिशाला (लां) प्रकल्पयेत् ॥ २६ ॥
सभद्र(द्रा च) महाशाला भद्रशाला समन्वितम्(ता) ।
ऊर्ध्वशाला सभद्राख्यं प्रस्ता(स्त)रं समलङ्कृतम् ॥ २७ ॥
निर्गमाङ्गं महाशाला क्षुद्रशाला संवेशनम् ।
यत्तत्प्रासादमध्ये तु महाशाला(लां) प्रकल्पयेत् ॥ २८ ॥
सर्वेषां द्वारमध्ये तु क्षुद्रशाला (लां) प्रकल्पयेत् ।
यथा हर्म्ये [तु] द्विच्वचे (विदिक्षु) च कर्णकूटं विनिक्षिपेत् ॥ २९ ॥
क्षुद्रशालां तु(ल्लायां) द्वारा च वंशगे युक्तितो न्यसेत् ।
नासिकापञ्जरादीनां तोरणार्थं तु पञ्जरम् ॥ ३० ॥
सर्वेषां हर्म्यके हारं चोक्तवत्समलङ्कृतम् ।
एकद्वित्रिद्विभागं वा प्रासादनिर्गमं भवेत् ॥ ३१ ॥
अथवा हस्तमानेन चैकानेकेन वर्धयेत् ।
द्विभूम्यान्ततलान्तं चैकादशकरान्तकम् ॥ ३२ ॥
क्रमात्तु निर्गमं कुर्याद्युत्त्या तत्रैव शिल्पिभिः ।
अनारख्यातानि चाङ्गानि यस्मिन् हर्म्येषु चोक्तवत् ॥ ३३ ॥
तत्तदङ्गानि सर्व्वाणि सर्व्वहर्म्येषु योजयेत् ।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ ३४ ॥
नानापञ्जरादीनां नानावर्गो(शालै)श्च तोरणम् ।
नानानासिकाकूटं नानाद्वारैरलङ्कृतम् ॥ ३५ ॥
नानाप्रस्तरसंयुक्तं नानागलविभूषितम् ।
नानावेदिका कुर्यान्नानालङ्कारभूषितम् ॥ ३६ ॥
नानापालिकादीनां नानाङ्गै(ङ्गेषु) स्तूपिकान्वितम् ।
नानाकारं तु पद्मं स्यान्नामा [च] पालिक्रादिभिः ॥ ३७ ॥

v3.c24.s30.4

कुर्यात्तु सर्वहर्म्याक्षां शिल्पिभिः समलङ्कृतम् ।
तले तले विमानादि(नस्थ) दिक्षु दिक्स्यादिकोष्ठके ॥ ३८ ॥
तत्तद्देवालये देवास्तत्तत्प्रागुक्तवन्नयेत् ।
यक्षविद्याधरादीनां गक्षभूतादिराक्षसान् ॥ ३९ ॥
जन्मादिसप्तमात्रं(मातृश्) च रोहिण्या चापरस्त्रियः ।
विश्वकर्माद्यगस्त्यादिनारद[यः]श्रुतिपाठकान् ॥ ४० ॥
सालोक्यादिपदैः सर्वभक्तांश्च लक्षणोक्तवत् ।
असंख्यातत्रयस्त्रिंशद् ब्रह्मादीनां च सर्वशः ॥ ४१ ॥
हर्म्यमूले तले चोर्ध्वं सर्वत्र परिकल्पयेत् ।
अन्यान्यनुत्तमानानां वार्हं युक्त्वा प्रयोजयेत् ॥ ४२ ॥

v3.c24.s30.5

(सोपानलक्षणम्)

v3.c24.s30.6

देवानां मानुषाणां च हर्म्यादीनां च सर्वशः ।
आरोहावरोहार्थं च सोपानलक्षणं तथा ॥ ४३ ॥
हर्म्यादिमण्डपादीनां प्राकारादि(दो) च गोपुरे ।
तथा पर्वतदेशे तु वापीकूपतटाकके ॥ ४४ ॥
नगरग्रामादिसर्वेषां कल्पयेच्छिल्पि(ल्प)वित्तमः ।
अचलं च चलं चैव द्विधा सोपानमीरितम् ॥ ४५ ॥
शिलाभिश्चेष्टकैर्वापि दारुभिः सचलं मतम् ।
सर्वैश्चैवाचलं प्रोक्तं क्षुद्रसोपानसंयुतम् ॥ ४६ ॥
सर्वेषां मुखभद्राणां पार्श्वे सोपानसंयुतम् ।
पार्श्वयोर्दूरदेशे तु मुखसोपानमेव वा ॥ ४७ ॥
आरोध(हार्यं) सर्वहर्म्ये [तु] दक्षिणद्वारभद्रके ।
तत्पार्श्वे पूर्वदिग्देशे सोपानं कारयेच्छुभम् ॥ ४८ ॥
गुहान्तर्द्वारदेशे तु वामे सोपानसंयुतम् ।
आराध्यदेवदेवस्य प्रदर्शनमगर्हितम् ॥ ४९ ॥
तस्मात्तु मुखभद्रे तु पार्श्वे सोपान(नं) कारयेत् ।
पार्श्वयोः पृष्ठदेशे तु तत्पूर्वं पश्चापार्श्वके ॥ ५० ॥

v3.c24.s30.7

यत्र देशे तु सोपाने तत्र दोषो न विद्यते ।
प्रमुखे मुखसोपानं न कुर्याच्छिल्पि(ल्पि)वित्तमः ॥ ५१ ॥
अपरे पार्श्वयोर्द्वारे भद्रहीनत्रयं तु चेत् ।
तत्पूर्वेके तु सोपानं कुर्यात्सम्पत्प्रदायकम् ॥ ५२ ॥
प्रपाङ्गे प्रमुखे भद्रे सोपाने पूर्वपार्श्वयोः ।
कुर्यात्तु तन्त्रविच्छिल्पी चोक्तमेवं पुरातनैः ॥ ५३ ॥
तैव(ति)लानामिति प्रोक्तं कुर्यात्सोपानमुह्वताम् ।
नराणां सर्वहर्म्येषु वक्ष्ये सोपानलक्षणम् ॥ ५४ ॥
तपस्यादिद्विजातीनां वर्णानां च विशेषतः ।
देवानामुक्तवत्कुर्याद्गेहं सर्वेषु योजयेत् ॥ ५५ ॥
द्विजानां भूपतीनां च सर्वेषां भद्रदेशके ।
पार्श्वे सोपानसंयुक्तं तत्पूर्वे वाथ प्रकल्पयेत् ॥ ५६ ॥
अलिन्दयुक्तं तद्वारे वामे सोपानसंयुतम् ।
विनालिन्दप्रदेशे तु प्रमुखे सोपानमेव च ॥ ५७ ॥
वैश्यानां शुद्रजातीनां सोपानं वक्ष्यतेऽधुना ।
वक्षद्वारानिदिमद्राणां युक्त्या सोपानसंयुतम् ॥ ५८ ॥
गोपुराणां तु तत्पार्श्वे सोपानं लक्षणान्वितम् ।
भद्रदेशे समारोह(ह्यं) यत्र तत्रैव कारयेत् ॥ ५९ ॥
वापीकूपतटाके वा परितः सोपानसंयुतम् ।
चतुर्दिक्षु चतुष्कोणे चान्तरालेऽथवा पुनः ॥ ६० ॥
एवमेवं यथादेशे भद्रसोपानमेव वा ।
तत्रैव श्रेष्ठदिग्देशे कुलद्वारं प्रकल्पयेत् ॥ ६१ ॥
तत्पूर्वे च द्विपार्श्वे [च] कुर्यात्सोपानमुक्तवत् ।
अचलं च इ(त्वे)ति प्रोक्तं चलं स्थाप्यं यथेष्टकम् ॥ ६२ ॥
द्वादशाङ्गुलमारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
सार्धहस्तावसाने स्यान्नवधा विस्तृ(स्तृ)तं भवेत् ॥ ६३ ॥

v3.c24.s30.8

सार्धद्विहस्तमारभ्य षट्षडङ्गुलवर्धनात् ।
सार्धवेदकरान्तं च फ(ल) लमेकं तदायति (तिः) ॥ ६४ ॥
एकहस्तं समारभ्य षट्षडङ्गुलवर्धनात् ।
तन्त्रिहस्तावसाने स्याच्च(दच)लसोपानविस्तृतम् ॥ ६५ ॥
द्विहस्तं तु समारभ्य चतुर्हस्तावसानकम् ।
त्रिहस्तादिपञ्चहस्तान्तं षट्षडङ्गुलवर्धनात् ॥ ६६ ॥
एतद्वचलसोपानं विस्तारं नवधा भवेत् ।
जन्मादिस्तूपिपर्यन्तं कुर्यात्तुङ्गं हि योजयेत् ॥ ६७ ॥
लुपमाने(नमु)क्तवत्कुर्यात्सोपानायाममुह्यतम् ।
अद्रिसोपानदेशे तु दीर्घं(दैर्घ्यं)मानं यथेष्टकम् ॥ ६८ ॥
विस्तारं पूर्ववत्कुर्यादचलं चोक्तवद्भवेत् ।
परितः सोपानविस्तारं तटाकाद्याकारतन्(र्) तथा ॥ ६६ ॥
परितः सर्वसोपानं कुर्यात्प्रागुक्तवर्जयेत् ।
पट्टिकात्रयमारभ्य वर्धयेद्द्विद्विपट्टिका(काम्) ॥ ७० ॥
त्रयोविंशच्छ्रतान्त(न्तं) स्याद्देवानामिति कथ्यते ।
पट्टमद्रिमार्गपर्यन्तं तिर्यक् चोर्ध्वोर्ध्वं(र्ध्वं) चोक्तवत् ॥ ७१ ॥
मानुषाणां तु सोपानं पट्टिकायुग्मसंयुतम् ।
त्रिचतुष्पञ्चषण्मात्रं चलं सोपानपादके ॥ ७२ ॥
तद्धनं च विशालं तु समं वा पादमाधिकम् ।
अर्धाधिकं तु पादोनद्विगुणस्(यं) त्रिगुणं ततः ॥ ७३ ॥
दण्डद्वयसमायुक्तं चित्र(च्छिद्र)युक्तं (क्ता) तु पट्टिकाः ।
एकद्वित्र्यङ्गुलं वापि पट्टिकाघनमेव च ॥ ७४ ॥
द्वित्रिवेदशराङ्गुल्यं षट्सप्ताङ्गुलमेव वा ।
अष्टनन्ददशाङ्गुल्यं पट्टिकाविस्तृतं भवेत् ॥ ७५ ॥
एवं तु चलसोपानमचलं तत्रवच्यते ।
पञ्चषडङ्गुला(लमा)रभ्य द्व्यङ्गुलविवर्धनात् ॥ ७६ ॥

v3.c24.s30.9

द्वादशीकार्कमात्रातं पट्टिकोत्सेधविस्तृतम् ।
आधिक्याद्बहुलविस्तीर्णं हीनमानोदय भवेत् ॥ ७७ ॥

v3.c24.s30.10

सोपानपार्श्वयोर्देशे हस्तिहस्तविकूषितम् ।
हस्तमूलविशाले तु चोक्ताङ्गुलीन (न्) मानयेत् ॥ ७८ ॥

v3.c24.s30.11

मूलेन(लस्य) तन्त्रिभागैकं हस्ताप्रान्तं चयं क्रमात् ।
हस्तिहस्तवदाकारं द्वारयुक्तं मनोहरम् ॥ ७९ ॥

v3.c24.s30.12

त्रिचतुष्पञ्चवक्त्रं वा मूलेन सिंहाननैर्युतम् ।
अधाधो धारपट्टं स्यात्पट्टिका(कं) चोक्तमानकम् ॥ ८० ॥

v3.c24.s30.13

अधाधारं पालिकाकारं पट्टिका वेदिकाकृतिः ।
सर्वालङ्कारसंयुक्तं सोपानं लक्षयान्वितम् ॥ ८१ ॥

v3.c24.s30.14

अङ्घ्रिसोपानपार्श्वे तु न कुर्यात्पार्श्वयो(ध्र्या)ङ्घ्रिकम् ॥ ८२ ॥

v3.c24.s30.15

अनेकहम्र्यस्य विशालदेशके
सम्भूषयोन्मानं यथा प्रविश्यते ।
कुर्वन्ति दोषं किल भर्तृकर्तृणाम्
उक्ते(क्तं) मानं कुरुते तु सम्पत् ॥ ८३ ॥

Linked texts (9)