Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s32.10

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s32.10

Language
English

v3.c24.s32.10

देवानां चक्रवर्तिनां मध्ये द्वारं प्रकल्पयेत् ।
महद्द्वारमिति प्रोक्तमुपद्वारं तु चोक्तवत् ॥ ४० ॥
भूसुरादिनराणां च मध्ये द्वारं न योजयेत् ।
मध्यसूत्रंतु(तस्य) वामे तु महाद्वारं प्रकल्पयेत् ॥ ४१ ॥
तद्बहिः परितो देशे(पट्टे) सप्तसा(शा)लां प्रकल्पयेत् ।
नारावासार्थ(र्थं) रथ्या च प्राकारद्वयमण्डितम् ॥ ४२ ॥
तत्तद्विस्तारमानानि दण्डमानेन मानयेत् ।
त्रिचतुर्दण्डमारभ्य द्विद्विदण्डविवर्धनात् ॥ ४३ ॥
नवपङ्क्तिदण्डपर्यन्तं सान्तरादिमहान्तकम् ।
प्रत्येकं तन्त्रिधा मानं सप्तप्राकारमीरितम् ॥ ४४ ॥
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कार संयुतम् ।
चतुर्द्वारसमायुक्तं महागोगुरमायतम् ॥ ४५ ॥
दै(दे)वानां मानुषाणां च गृहप्राकारमीरितम् ।
एकद्वित्रिचतुष्पञ्च सा(शा)लं कुर्यात्सभित्तिकम् ॥ ४६ ॥
संकुलं चेत्तु सा(शा)लानां सान्तरं भित्तिकं न्यसेत् ।
एतानि सालमानानि हीनाधिक्यं न कारयेत् ॥ ४७ ॥
द्वि(द्व्य)ङ्गुलं च समारभ्य चैकाङ्गुलविवर्धनात् ।
षडङ्गुलानसानं स्यात्क्रमात्सर्वै जलस्थलं ॥ ४८ ॥
कंचित्त्वङ्गुलमारभ्य ए(चै)काङ्गुल[वि]वर्धनात् ।
षडङ्गुलावसाने स्याद्गोपुरापानतत्समम् ॥ ४६ ॥
प्रासादादन्यशालान्तं जलस्रावार्थनिर्गमम् ।
कुर्यात्तु भित्तिमूले तु जलद्वारं यथेष्टदिक् ॥ ५० ॥
जातिप्रासादाद्वहिरथ परितः सालमानं कराभ्याम् ।
तस्मिन् विस्तारमानं प्रथम(मं)करयुगादेकमेकेन वृद्ध्या[त्] ॥ ५१ ॥
चत्वारिंशत्करान्तं महतिरि(ती)ति तत्पञ्च पञ्चप्रमाणम् ।
कुर्यात्तत्क्षुद्रं क्रमात्सत्कथितमिति बुधैर्भित्तिरत्न्या(स्यन्ता)वसानम् ॥ ५२ ॥