Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s32: प्राकारविधानम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s32

Language
English

प्राकारविधानम्

v3.c24.s32.1

बन्जा(स्य)र्थं परिवारार्थं शोभार्थं रक्षणार्थकम् ।
पञ्चप्राकारहर्म्याणामधुना वक्ष्यते क्रमात् ॥ १ ॥
जात्यादिभेदहर्म्याणां तन्मानेन तु विन्यसेत् ।
जातिप्राकारसर्वेषां हस्तमानेन योजयेत् ॥ २ ॥
छन्दा(जात्या)दि सर्वेषा(सा)लानां प्रासादांशेन मानयेत् ।
जातीनां जातिसालानां म्यंतरं विभाजितं ॥ ३ ॥
तदूर्ध्वे वेदिकादीनां ग्रीवमूर्ध्नि शिखान्तकम् ।
समकन्धरवृद्धिः स्यात्पञ्चसालावसानकम् ॥ ४ ॥
छन्दादिपञ्चसाला(लां) च छन्दाद्यंशेन मानयेत् ।
जातिप्रासादविस्तारे विन्यसेत्सकलं पदम् ॥ ५ ॥
आदिशालां ततः कुर्यादन्तर्मण्डलगोरितम् ।
द्वितीयमन्तहारा च मध्यहारा तृतीयकम् ॥ ६ ॥
प्राकारं सचतुर्थं च कथितं तन्मयाधि(दि)कम् ।
ततः पञ्चमशा(सा)ला च महामर्याद(दा)मीरितम् ॥ ७ ॥
पञ्चशालामिवि प्रोक्तं तन्त्रविद्भिः पुरातनैः ।
तत्पीठपा(प)दविन्यास(सश)चादिशालविशालके ॥ ८ ॥
तथा द्वितीयशाले तु खण्डितं(ल) पदं विन्यसेत् ।
तत्तत्कुर्यात्तु शालायां तृतीये चोभयचण्डितम् ॥ ६ ॥
सुसंहितपदं मध्ये मर्यादाया विशालकं ।
महामर्यादाविस्तारं पदमीश्वरकान्तकम् ॥ १० ॥
एवं तु जातिशाला(लां) च कुर्याद्धर्म्यवशात्सुधीः ।
वे(पे)चकं मूलहर्म्ये तु छन्दादीनां प्रवक्ष्यते ॥ ११ ॥

v3.c24.s32.2

प्रथमं तु महापीठं द्वितीयं चण्डितं पदम् ।
तृतीयं भद्रसंयुक्तं ततः शालावहिस्तथा ॥ १२ ॥
चतुर्थं सुप्रतीकान्तं पञ्चमं चे(च)न्द्रकान्तकम् ।
एतच्छन्दं प्रकर्तव्यं विकल्पं तदिहोच्यते ॥ १३ ॥
छन्दप्राकारविस्तारे सार्धार्धेन कराधिकम् ।
प्रथमात्पञ्चमानं स्यात्सार्धं युग्मकरान्तकम् ॥ १४ ॥
एवं विकल्पमानं स्यात्पञ्चशाला प्रकीर्तिताः ।
तदेव पञ्चशालानां षडङ्गुलविवर्धनात् ॥ १५ ॥
सप्तहस्ता(पादा)वसानं स्यात्प्रथमात्पञ्चमानकम् ।
एवमाभास(सं) कर्तव्यं हर्म्यपादं तु वर्धनात् ॥ १६ ॥
केचिच्छन्दकमाने तु त्रित्रिहस्तविवर्धनात् ।
प्रथमात्पञ्चमानं स्यात्पञ्चा(चा)शत्करान्तकम् ॥ १७ ॥
एतत्क्षुद्रविमाने तु सा(शा)लाच्छन्दविमानकम् ।
केवलहस्तमानेन जातिप्राकार(रं) मानयेत् ॥ १८ ॥
त्रिहस्तेनादिशालादि द्विद्विहस्तविवर्धनात् ।
प्रत्येकं पञ्चशालानां पञ्चपञ्चप्रमाणकम् ॥ १९ ॥
क्षुद्रल्पमध्यमुख्यानां जातिसा(शा)लां प्रकल्पयेत् ।
प्रासादार्धविशालेन मध्यमुख्यांश(स्याल्प)मानके ॥ २० ॥
सा(शा)लानां पञ्चधाद्यन्तं मानयेत्पूर्ववद्भवेत् ।
हर्म्यपादस्य वाह्यात्तु सालं(शाला)कुड्यावसानकम् ॥ २१ ॥
अन्तर्वापि वहिर्वापि कुड्य(ड्य)मध्यावसानकम् ।
उपपीठं चाह्रिर्कं वा[पि] हर्म्यपादं तु(दस्य) निर्गमम् ॥ २२ ॥
तत्कुड्यवेदिकान्तर्वा सालं प्रागुक्तमानकम् ।
हर्म्यसा(स्या)र्घपृथु (घ्रांवृत)मानं यद्वास्त(स्त्वा)य(या)मतत्समम् ॥ २३ ॥
तच्चतुर्भागिकैकेन वर्धयेत्सन्मुखायतम् ।
विस्तारात्पञ्चधायामं पञ्चधा विसृता(विपुला)न्तकम् ॥ २४ ॥
पञ्चसा(शा)लामुखायामं प्रत्येकं पञ्चधा ततः ।
एकैकं विंशदायामं पञ्चविंश(शाला)मुखायतम् ॥ २५ ॥

v3.c24.s32.3

षडङ्गुलं समारभ्य षट्षडङ्गुलवर्धनात् ।
रसहस्तावसानं स्यात्प्रथमात्पञ्चमान्तकम् ॥ २६ ॥
साक्षानां कुड्यविस्तारं प्रत्येकं पञ्चधा मतम् ।
विशालोच्चसमं वापि तच्चतुर्थांशवर्धनात् ॥ २७ ॥
प्रत्येकं पञ्चसा(शा)लानां कुड्यानां पञ्चधोदयम् ।
अथवाधिष्ठानमानेन कुड्यतुङ्गमिवोच्यते ॥ २८ ॥

v3.c24.s32.4

कुट्टिमोर्ध्वं समारभ्य पञ्चविंशोदयान्तकम् ।
अन्तर्मण्डलमारभ्य महामर्यादिकान्तकम् ॥ २६ ॥
पञ्चकुड्यस्य चोत्सेधं प्रत्येकं पञ्चधा भवेत् ।
जन्मादि चोत्तरान्तं वा प्रस्तरान्तं तथोदयम् ॥ ३० ॥

v3.c24.s32.5

कुड्यस्यान्तप्रदेशे तु युक्त्या चावृतमालिकम् ।
वेदिका चो(कया)पपीठं च(ठेन) पादप्रस्तरभूषितम् ॥ ३१ ॥
यथेष्टभागपदेन युग्मायुग्ममथापि च ।
तस्या(कुड्या)न्तः परिवारार्थं भद्रं सोपानसंयुतम् ॥ ३२ ॥

v3.c24.s32.6

मालिकोपरि वप्र(प्रं) स्यादधिष्ठानं समोदयम् ।
अथवा द्विगुणोत्तुङ्गं त्रिगुणं वा यथेष्टकम् ॥ ३३ ॥
वजाकृति(श) च वप्राग्रं छत्रकारमथापि वा ।
उत्तरं वाजने चैव मुष्टिबन्धं त्रिधान्वितम् ॥ ३४ ॥

v3.c24.s32.7

अधिष्ठानादि वर्गाङ्घ्यमथवा रज्जुभित्तिकम् ।
प्रस्तरस्योपरिदेशे कूर्माहर्म्यादिमण्डितम् ॥ ३५ ॥
शैले वा चेष्टके वापि दार्वे(री) वाथ प्रकल्पयेत् ।
शुद्धं संकीर्णं मिश्रं वा यथाशोभं यथाबलम् ॥ ३६ ॥

v3.c24.s32.8

युक्त्या च प्रच्छादनं कुर्यात्सुधेष्टकादिगुलोत्कैः ।
परिवारं(र)विमानानां मानं तद्वक्ष्यतेऽधुना ॥ ३७ ॥
मूलहर्म्ये(र्म्य) समं वापि त्रिपादं वार्धमेव वा ।
एकभूमि द्विभूमि(मि) वा मूलहर्म्याकृति(त्) तु वा ॥ ३८ ॥

v3.c24.s32.9

मूलस्थलसमं वापि तत्रिंशोन्नतमेव वा ।
चतुर्दिक्षु चतुर्द्वारैमुपद्वारैर्भद्वारा (रम) न्तरात्मकै ॥ ३६ ॥

v3.c24.s32.10

देवानां चक्रवर्तिनां मध्ये द्वारं प्रकल्पयेत् ।
महद्द्वारमिति प्रोक्तमुपद्वारं तु चोक्तवत् ॥ ४० ॥
भूसुरादिनराणां च मध्ये द्वारं न योजयेत् ।
मध्यसूत्रंतु(तस्य) वामे तु महाद्वारं प्रकल्पयेत् ॥ ४१ ॥
तद्बहिः परितो देशे(पट्टे) सप्तसा(शा)लां प्रकल्पयेत् ।
नारावासार्थ(र्थं) रथ्या च प्राकारद्वयमण्डितम् ॥ ४२ ॥
तत्तद्विस्तारमानानि दण्डमानेन मानयेत् ।
त्रिचतुर्दण्डमारभ्य द्विद्विदण्डविवर्धनात् ॥ ४३ ॥
नवपङ्क्तिदण्डपर्यन्तं सान्तरादिमहान्तकम् ।
प्रत्येकं तन्त्रिधा मानं सप्तप्राकारमीरितम् ॥ ४४ ॥
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कार संयुतम् ।
चतुर्द्वारसमायुक्तं महागोगुरमायतम् ॥ ४५ ॥
दै(दे)वानां मानुषाणां च गृहप्राकारमीरितम् ।
एकद्वित्रिचतुष्पञ्च सा(शा)लं कुर्यात्सभित्तिकम् ॥ ४६ ॥
संकुलं चेत्तु सा(शा)लानां सान्तरं भित्तिकं न्यसेत् ।
एतानि सालमानानि हीनाधिक्यं न कारयेत् ॥ ४७ ॥
द्वि(द्व्य)ङ्गुलं च समारभ्य चैकाङ्गुलविवर्धनात् ।
षडङ्गुलानसानं स्यात्क्रमात्सर्वै जलस्थलं ॥ ४८ ॥
कंचित्त्वङ्गुलमारभ्य ए(चै)काङ्गुल[वि]वर्धनात् ।
षडङ्गुलावसाने स्याद्गोपुरापानतत्समम् ॥ ४६ ॥
प्रासादादन्यशालान्तं जलस्रावार्थनिर्गमम् ।
कुर्यात्तु भित्तिमूले तु जलद्वारं यथेष्टदिक् ॥ ५० ॥
जातिप्रासादाद्वहिरथ परितः सालमानं कराभ्याम् ।
तस्मिन् विस्तारमानं प्रथम(मं)करयुगादेकमेकेन वृद्ध्या[त्] ॥ ५१ ॥
चत्वारिंशत्करान्तं महतिरि(ती)ति तत्पञ्च पञ्चप्रमाणम् ।
कुर्यात्तत्क्षुद्रं क्रमात्सत्कथितमिति बुधैर्भित्तिरत्न्या(स्यन्ता)वसानम् ॥ ५२ ॥

v3.c24.s32.11

इति मानमारे वास्तुशास्त्रे प्राकारविधानं नाम एकत्रिशोऽध्यायः ॥