Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s33.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s33.1
- Language
- English
v3.c24.s33.1
सर्वेषामपि देवानां प्राकारान्तं(न्तः) प्रविष्टके।
परितः परिवाराणां लक्षणं वक्ष्यतेऽधुना ॥ १ ॥
इन्द्रादिसा(दी नां)ष्टदिग्देशे सा(चा)न्तर्मण्डलसालके।
परितो भूतबल्यर्थं क्षुद्रपीठं विनिक्षिपेत् ॥ २ ॥
अ(तत्रा)ष्टकं परिवाराणां कृत्वा चान्तरि(नि)हारके।
द्वितीये च तृतीये च षोडशपरिवारकम् ॥ ३ ॥
द्वात्रिंशच्च तृतीये वा कल्पयेत्परिवारकम्।
तृतीयात्पञ्चसा(शा)लान्तं विनियोगाख्यमण्डपम् ॥ ४ ॥
कुर्यात् (क्रियेत) शिल्पिभिः प्राज्ञैः परिवारमिहोच्यते।
इन्द्रे च वृषभं स्थाप्य आ(चा)ग्नेये चार्यकम्(र्कं) तथा ॥ ५ ॥
याम्ये तु सप्तमात्र(तरं) च नैर्ऋत्ये तु गणेश्वरम्।
पश्चिमे सुब्रह्मण्यं च ज्येष्ठादेवीं च वायवे ॥ ६ ॥
सौम्ये तु केशवं स्थाप्य ई(चै)शान्ये भास्करं तथा।
एवञ्चाष्टपरीवारं पूर्वद्वाराख्यं भवेत् ॥ ७ ॥
पश्चिमद्वारहर्म्येषु पश्चिमे तु गुहं क्षिपेत्।
अथवा विनायकं प्रोक्तं नैर्ऋत्यं स्थापयेत्सुधीः ॥ ८ ॥
सोमई(मेशानयोर्मध्ये दिवि(वपु)षञ्च विनिक्षिपेत्।
वह्न्यन्तरुद्वयोर्मध्ये सुब्रह्मण्यालयं भवेत् ॥ ९ ॥
याम्ये कात्यायनी(नीं) वाथ द्वारं(रे) वाथ प्रकल्पयेत्।
याम्ये(म्य)नैर्ऋतयोर्मध्ये वीरभद्रालयं भवेत् ॥ १० ॥
नैर्ऋत्ये तु गजमुखं पश्चिमे तु पितामहम्।
प्रत्यङ्नैर्ऋतयोर्मध्ये चैकपादेश्वरालयम् ॥ ११ ॥