Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s33: परिवारविधानम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s33
- Language
- English
परिवारविधानम्
v3.c24.s33.1
सर्वेषामपि देवानां प्राकारान्तं(न्तः) प्रविष्टके।
परितः परिवाराणां लक्षणं वक्ष्यतेऽधुना ॥ १ ॥
इन्द्रादिसा(दी नां)ष्टदिग्देशे सा(चा)न्तर्मण्डलसालके।
परितो भूतबल्यर्थं क्षुद्रपीठं विनिक्षिपेत् ॥ २ ॥
अ(तत्रा)ष्टकं परिवाराणां कृत्वा चान्तरि(नि)हारके।
द्वितीये च तृतीये च षोडशपरिवारकम् ॥ ३ ॥
द्वात्रिंशच्च तृतीये वा कल्पयेत्परिवारकम्।
तृतीयात्पञ्चसा(शा)लान्तं विनियोगाख्यमण्डपम् ॥ ४ ॥
कुर्यात् (क्रियेत) शिल्पिभिः प्राज्ञैः परिवारमिहोच्यते।
इन्द्रे च वृषभं स्थाप्य आ(चा)ग्नेये चार्यकम्(र्कं) तथा ॥ ५ ॥
याम्ये तु सप्तमात्र(तरं) च नैर्ऋत्ये तु गणेश्वरम्।
पश्चिमे सुब्रह्मण्यं च ज्येष्ठादेवीं च वायवे ॥ ६ ॥
सौम्ये तु केशवं स्थाप्य ई(चै)शान्ये भास्करं तथा।
एवञ्चाष्टपरीवारं पूर्वद्वाराख्यं भवेत् ॥ ७ ॥
पश्चिमद्वारहर्म्येषु पश्चिमे तु गुहं क्षिपेत्।
अथवा विनायकं प्रोक्तं नैर्ऋत्यं स्थापयेत्सुधीः ॥ ८ ॥
सोमई(मेशानयोर्मध्ये दिवि(वपु)षञ्च विनिक्षिपेत्।
वह्न्यन्तरुद्वयोर्मध्ये सुब्रह्मण्यालयं भवेत् ॥ ९ ॥
याम्ये कात्यायनी(नीं) वाथ द्वारं(रे) वाथ प्रकल्पयेत्।
याम्ये(म्य)नैर्ऋतयोर्मध्ये वीरभद्रालयं भवेत् ॥ १० ॥
नैर्ऋत्ये तु गजमुखं पश्चिमे तु पितामहम्।
प्रत्यङ्नैर्ऋतयोर्मध्ये चैकपादेश्वरालयम् ॥ ११ ॥
v3.c24.s33.2
पश्चिमोत्तरतः स्थाप्यं चाश्विनीदेववालयम् ।
वायुकोणे प्रदेशे तु सरस्वत्यालयं भवेत् ॥ १२ ॥
वायुचन्द्रद्वयोर्मध्ये भमो(न उ)न्मन्थालयं भवेत् ।
चन्द्रस्थाने धनेशस्य चालयं कल्पयेद्बुधः ॥ १३ ॥
सोमै (मे) शानयोर्मध्ये जनार्दनालयं भवेत् ।
ईशे च क्षेत्रपालं च वटुकं वा प्रतिष्ठापयेत् ॥ १४ ॥
ब्रह्मा-ईशानयोर्मध्ये भास्करस्यालयं भवेत् ।
अथवा वायुकोणे तु षण्मुखालयं भवेत् ॥ १५ ॥
परिवारं षोडशकमेवं प्रोक्तं मुनीश्वरैः ।
द्वात्रिंशत्परिवारस्य लक्षणं वक्ष्यतेऽधुना ॥ १६ ॥
इन्द्रे च वृषभं स्थाप्य सत्यके नन्दिकेश्वरम् ।
भृङ्गीशं (ङ्गी शेशं) भुवनेशं च कुर्यादन्तरिक्षके ॥ १७ ॥
आग्नेये च धनस्थानं पूषा(ष)स्थाने तु चेन्दिराम् ।
विदथे(तथे) चैकदन्तं स्यात् सुने (जले) शं स्याद्गृहक्षते ॥ १८ ॥
याम्ये चामुण्डिकां स्थाप्य गन्धर्वे पुष्पमण्डल(प)म् ।
भृङ्गराजपदे चैव नैवेद्यार्पणवेशमकम् ॥ १६ ॥
मृपे(शे) च वंक्षालयं स्यान्नैर्ऋत्ये तु विनायकम् ।
दौवारिकपदे चैव मूर्तिशूलं समर्पयेत् ॥ २० ॥
सुग्रीवे च त्रिमूर्तिं स्वात्स्थापयेदेकहर्म्यके ।
पुष्पदन्तपदे चैव पुष्पवन्धनमण्डपम् ॥ २१ ॥
वरुणस्य पदे स्थाप्य (प्यं) चार्धनारीश्वरालयम् ।
असुरस्यपदे चैव कुर्यात्तु रत्नमण्डपम् ॥ २२ ॥
देवानां भूषणवासं स्थापयेच्छेषभागिके ।
पुस्तकावासनं कुर्याद् रोगस्य च पदे तथा ॥ २३ ॥
षण्मुखस्यालयं कुर्याद्वायुकोणे विचक्षणः ।
नागस्य च पदे चैव कुर्यात्तु रत्नमण्डपम् ॥ २४ ॥
देवानां भूषणवासं स्थाप्यं च मुख्यदेशके ।
अथवा पार्वती स्थाप्या भल्लाटस्यपदेऽपि च ॥ २५ ॥
v3.c24.s33.3
सोमे च विधां संस्थाप्य मनोजस्यालयं तु वा ।
मृगे च स्नापनार्थं च गन्धद्रव्यादिमण्डपम् ॥ २६ ॥
अदिते दक्षिणामूर्तिमुदिते चान्तदानक(व)म् ।
ईशे च स्थापयेदेकं रुद्रमूर्तेस्तवालयम् ॥ २७ ॥
अथवा यज्ञशालां च स्थापयेद् भोगमण्डपम् ।
पर्जन्ये मज्जनाद्यर्थाय जलपूरितमण्डपम् ॥ २८ ॥
अथवा रुद्रदेवस्य यागमण्डपमेव च ।
जयन्ते भास्करं स्थाप्य चेशे पाशुपतं तथा ॥ २६ ॥
अथवा कामकोष्ठे स्यादालयं कल्पयेत्सुधीः ।
द्वात्रिंशन्मूर्तिरेवं स्यात्कुर्यात्तु परिवारकम् ॥ ३० ॥
तृतीये सौम्यभागे तु पानीयस्य जलं क्षिपेत् ।
भृशे वाथ महेन्द्रे वा भक्तरूपं प्रतिष्ठयेत् ॥ ३१ ॥
छत्रं च चामराकारं जयन्तस्य पदे तथा ।
तण्डुलं(ल)मण्डपं याम्ये पावके पचनालयम् ॥ ३२ ॥
गृहक्षते धान्यशाला ई(चे)शे च यागमण्डपम् ।
गन्धर्वे भृङ्गराजे च स्थापकान्वद्या(नामाल)यम् [स्नान्] ॥ ३३ ॥
पूषे च वितथे चैवमालये परिवारकान् ।
सोमे भल्लाट(टे) मुख्ये च कल्पयेत्कोशमण्डपम् ॥ ३४ ॥
पुष्यदन्ते सुकरी च(मृगे चैव) शस्त्रमण्डपसंयुतम् ।
वरुणे वासुरे वापि वस्तुनिश्क्षेपमण्डपम् ॥ ३५ ॥
नागे वापि मृगे वापि देवभूषणमण्डपम् ।
आ(अ)दितौ चोदितौ वापि शयनार्थं च मण्डपम् ॥ ३६ ॥
आस्थानमण्डपं चैव चतुर्दिक्षु विदिक्षु च ।
स्नापनार्थमण्डपं चापि स्नातनमण्डपमेव च ॥ ३७॥
गृहक्षते यमे वापि वाहनस्थानमण्डपम् ।
मर्यादि(दा)भित्तिकस्यान्तं मण्डपं वा नरालयम् ॥ ३८ ॥
शृङ्गालिङ्गं तथा स्थाप्य यथा दिक्षु विदिक्षु च ।
अनलानिलकोणे वा स्थापत्यालयमेव च ॥ ३९॥
v3.c24.s33.4
सत्यके वा चान्तरिक्षे वाद्यरूरालयं भवेत् ।
पूषे(ष्णि) च वितथे चापि नाट्या(ट्य)कारालयं भवेत् ॥ ४० ॥
गृहक्षते सृप(श)आ(स्या)न्तं गणिकादीनां तथालयम् ।
नैर्ऋ(ऋ)त्यादावरुणान्तं च गणिकालयायं भवेत् ॥ ४१ ॥
वरुणाद्वायुपर्यन्तमारामकारकालयम् ।
वायुकोणादिसोमान्तं नित्यकर्मकरालयम् ॥ ४२ ॥
सोमादीशानपर्यन्तं गान्धर्वालयमेव च ।
ईशादेरिन्द्रपर्यन्तं संडि(संगी)तार्थं च मण्डपम् ॥ ४३ ॥
तद्वाह्ये तत्प्रदेशे वा गोशालां परिकल्पयेत् ।
ईशस्थाने तु कूपं स्यात्तटाकं वा प्रकल्पयेत् ॥ ४४ ॥
चतुष्कोणे तपस्वी(स्वि)नां सत्रावासमठं भवेत् ।
समीपे वीरभद्राणां गृहश्रेणीं च कल्पयेत् ॥ ४५ ॥
महामर्यादि(दा) देशे तु वर्णानां वासयोग्यकम् ।
पश्चिमे विप्रसङ्घ(ङ्घः) स्याद्दक्षिणे क्षत्रियस्य च ॥ ४६ ॥
उत्तरे वैश्यसङ्घः(ङ्घः) स्यात्पूर्वे तु शूद्रसञ्ज्ञकम् ।
तद्वाह्ये सर्वजातीनामालयं कल्पयेत्सुधीः ॥ ४७ ॥
द्वारस्य वामभागे तु गजाश्वादेस्तथालयम् ।
उदिते चेशकोणे तु कल्पयेद्धर्ममण्डपम् ॥ ४८ ॥
वायुकोणे तु बाह्ये वा पुष्पोद्यानं तु कल्पयेत् ।
प्राकारद्वार(रे) सर्वेषां कल्पयेद् वृषमालयम् ॥ ४९ ॥
वृषमस्योपरि भागे तु कल्पयेद् बलिपीठकम् ।
गोपुरस्य बहिर्वापि स्थापयेद् बलिपीठकम् ॥ ५० ॥
प्रासाद(दाद्)दण्डमानेन चैकं वा द्वित्रिदण्डकम् ।
गोपुराद् बलिपीठान्तं सान्तरं मानयेत्सुधीः ॥ ५१ ॥
एकद्वित्रिचतुष्पञ्चहस्तं पीठविशालकम् ।
प्रासादार्थं त्रिभागैकं पञ्चभागत्रिभागिकम् ॥ ५२ ॥
अथवा द्वित्रिभागं स्यात्पीठविस्तारमेव च ।
पीठतारसमोच्चं वा पादाद्यधिकमेव च ॥ ५३ ॥
v3.c24.s33.5
उपानादिपट्टिकान्तं स्यात्पीठतुङ्गमुदीरितम् ।
पीठतुङ्गोदयार्धेन पद्मतुङ्गं प्रकल्पयेत् ॥ ५४ ॥
वप्रे वा पट्टिके वापि विस्तारं (निर्गमं) परिकल्पयेत् ।
विस्तारे पञ्चभागे तु वेदार्धं पद्मविस्तृतम् ॥ ५५ ॥
पद्मावारत्रिभागैकं कर्णिकाविस्तृतं भवेत् ।
विस्तारसममुत्सेधं वृत्तं वा पट्टमेव वा ॥ ५६ ॥
भद्रं वा पद्मसंयुक्तं तुङ्गं प्रागुक्तवन्नयेत् ।
वृत्तं वा चतुरश्रं वा मूलप्रासादवद् भवेत् ॥ ५७ ॥
अधिष्ठानाकारवत्पीठं हर्म्याधिष्ठानवद् भवेत् ।
द्वादशाङ्गुलविस्तारमुत्सेधं क्षुद्रविस्तरम् ॥ ५८ ॥
उपानं करिकर्णोयुक्तं कुर्यात्तत्क्षुद्रपीठकम् ।
वृषभस्यालयं(य)मानं पूर्ववत्परिकल्पयेत् ॥ ५९ ॥
मण्डपाकारवत्कुर्याच्छन्मानोरम्यमानकम् ॥ ६० ॥
v3.c24.s33.6
विष्णुवालयपरिवारम्
v3.c24.s33.7
विष्णुवालयपरिवारलक्षणं वक्ष्यतेऽधुना ।
पञ्चसालमहाद्वारे द्वारदेवान्प्रकल्पयेत् ॥ ६१ ॥
द्वारस्य दक्षिणे स्थाप्य चण्डराक्षसरूपकम् ।
वामे प्रचण्डसंयुक्तं रूपं राक्षसमेव च ॥ ६२ ॥
दक्षिणे चक्रसंयुक्तं वामे तत्पाञ्चजन्यकम् ।
दक्षिणे च गणेशं च वामे कात्यायनीं तथा ॥ ६३ ॥
दक्षिणे भास्करं चैव वामभागे निशापतिम् ।
दक्षिणे च भुजङ्गे च(शं) द्वारवामे दिवः(वस्)पतिम् ॥ ६४ ॥
प्रथमादिपञ्चमान्ते स्यात्स्थापयेद् द्वारपञ्चके ।
एवं तु दशधा देवान्द्वाराणामुदितं (तान्) क्रमात् ॥ ६५ ॥
प्रमुखे वैनतेयः स्यात्सालासालान्तरा भवेत् ।
प्रमुखे चोत्तरे देशे विष्वक्सेनालयं भवेत् ॥ ६६ ॥
अन्तर्मण्डलदेशे तु पूर्ववद् बलिपीठकम् ।
द्वारस्य दक्षिणे पार्श्वे हर्म्यं कुर्याद्दिवस्पतेः ॥ ६७ ॥
v3.c24.s33.8
यथैवाग्निकोणे तु भृगोः (गायामा) लयमव च ।
याम्ये कात्यायनी प्रोक्तं नैर्ऋत्ये तु विनायकम् ॥ ६८ ॥
पश्चिमे दिग्वनन्तं स्याद्वायौ वासिष्टकालयम् ।
उत्तरे धनदं चैव ई(त्वी)शान्ये भास्करं तथा ॥ ६६ ॥
कात्यायनी (नीं) विना याम्ये कुर्याद्वाय पितामहः(इम्) ।
धनदं च विना सौम्ये शङ्करस्यालयं तु वा ॥ ७० ॥
एवं चाष्टपरीवारं षोडशं परिवारकम् ।
पूर्वोक्तदेवतासङ्गैः किञ्चित्किञ्चिद्विशिष्यते ॥ ७१ ॥
आग्नेये च गणेंशं स्यान्नैर्ऋत्ये तु गुहं क्षिपेत् ।
वायव्ये तु महालक्ष्मीं चैशान्ये च सुदर्शनम् ॥ ७२ ॥
सोसई (मे) शानयोर्मध्ये शङ्करालयमेव च ।
वायुसोमोभयोर्मध्ये विष्णुदुर्गं तथालयम् ॥ ७३ ॥
प्रत्यङ्नैर्ऋत्ययोर्मध्ये चक्रमूर्तेस्तथालम् ।
याम्ये च बलभद्रं स्यादनन्तं च जयन्तके ॥ ७४ ॥
नैर्ऋत्ये तु बौद्धं स्याज्जयन्ते पौत्रिकालयम् ।
शेषं प्रागुक्तवस्थाप्य षोडशं परिवारकम् ॥ ७५ ॥
द्वात्रिंशत्परिवारस्य लक्षणं वक्ष्यतेऽधुना ।
चतुर्विंशतिमूर्तीनां दिक्पालक (कैः) सहैव च ॥ ७६ ॥
एकानावरशैः व्याप्य चावतारान्दशा[न]पि ।
मत्स्यः (त्स्यं) कूर्म (र्मं) विना कुर्यात्तत्क(दिक्पा) लानां (न्) विना तथा ॥ ७७ ॥
पूर्वोक्तमण्डपानां च (चो) तद्देवान् यथेष्टवत् ।
कुर्याद्दिग्क्षुपरीवारं शेषं प्रागुक्तवन्नयेत् ॥ ७८ ॥
बौद्धं च जिनकं चैव तत्तच्छास्त्रोक्तमार्गवत् ।
तत्तद्वाहनं स्थाप्यं बलिपीठं च पूर्ववत् ॥ ७६ ॥
यक्ष(क्षो) यक्षीश्च(च) तीथ्रानि कुर्यात्तत्परिवारकम् ।
अन्याश्च(न्येषां च) क्षुद्रदेवानां देवीनां परिवारकम् ॥ ८० ॥
तत्तद्वाहनपूर्वां(र्वं) च भूतपैशाचकं तथा ।
गणेशं(शानि) क्षेत्रपालादीन् कुर्यात्तत्परिवारकम् ॥ ८१ ॥
v3.c24.s33.9
अन्तर्बहिश्च बल्यर्थं कुर्यात्पीठं तु पूर्ववत् ।
चामुण्डालय(ये) शङ्करालय(ये) महाविष्णोस्तथालये ॥ ८२ ॥
बौद्धस्यालये वजिनालयम(येऽ)पि क्षुद्रालये सर्वशः ।
शास्तृस्यालयतोरणे कथितं तत्परिवारकं कुर्वीत ॥ ८३ ॥
असमन्तु ते क(के)पि विना कृत्वा तु संपद् भवेत् ॥ ८४ ॥
यन्मूलहर्म्ये वृषभादि विघ्णेश(घ्नेशा)दि
मण्डपादि गरुडादि [च] गोपुरादीन् ।
तन्मूलहर्म्यपरितः स्थित(तान्) प(दृ)श्यते प्र(चा)स्मिन्
कुर्यात्तु सर्वपरिवारमिदं प्रशस्तम् ॥ ८५ ॥
v3.c24.s33.10
इति मानमारे वास्तुशास्त्रे परिवारविधानं नाम द्वात्रिंशोऽध्यायः ॥
Linked texts (10)
- Jātaka — Pāli
- Kauṭilīya Arthaśāstra — Kauṭilya, Sanskrit
- Aṣṭādhyāyī — Pāṇini, Sanskrit
- Mānava Dharmaśāstra — Manu & Bhṛgu, Sanskrit
- Mahābhārata — Vyāsa, Sanskrit
- Ṛgvedasaṃhitā — Sanskrit
- Śatapathabrāhmaṇa — Yājñavalkya & Śāṇḍilya (Vedic teacher), Sanskrit
- Paharpur Charter of the Time of Budhagupta — Sanskrit
- Corpus Inscriptionum Indicarum
- Nasik cave inscription (No. 16, N. 5) (ed. Hultzsch 1906) — Prakrit