Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s33.8

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s33.8

Language
English

v3.c24.s33.8

यथैवाग्निकोणे तु भृगोः (गायामा) लयमव च ।
याम्ये कात्यायनी प्रोक्तं नैर्ऋत्ये तु विनायकम् ॥ ६८ ॥
पश्चिमे दिग्वनन्तं स्याद्वायौ वासिष्टकालयम् ।
उत्तरे धनदं चैव ई(त्वी)शान्ये भास्करं तथा ॥ ६६ ॥
कात्यायनी (नीं) विना याम्ये कुर्याद्वाय पितामहः(इम्) ।
धनदं च विना सौम्ये शङ्करस्यालयं तु वा ॥ ७० ॥
एवं चाष्टपरीवारं षोडशं परिवारकम् ।
पूर्वोक्तदेवतासङ्गैः किञ्चित्किञ्चिद्विशिष्यते ॥ ७१ ॥
आग्नेये च गणेंशं स्यान्नैर्ऋत्ये तु गुहं क्षिपेत् ।
वायव्ये तु महालक्ष्मीं चैशान्‍ये च सुदर्शनम् ॥ ७२ ॥
सोसई (मे) शानयोर्मध्ये शङ्करालयमेव च ।
वायुसोमोभयोर्मध्ये विष्‍णुदुर्गं तथालयम् ॥ ७३ ॥
प्रत्यङ्नैर्ऋत्ययोर्मध्ये चक्रमूर्तेस्तथालम् ।
याम्ये च बलभद्रं स्यादनन्तं च जयन्तके ॥ ७४ ॥
नैर्ऋत्ये तु बौद्धं स्याज्जयन्ते पौत्रिकालयम् ।
शेषं प्रागुक्तवस्थाप्य षोडशं परिवारकम् ॥ ७५ ॥
द्वात्रिंशत्परिवारस्य लक्षणं वक्ष्यतेऽधुना ।
चतुर्विंशतिमूर्तीनां दिक्पालक (कैः) सहैव च ॥ ७६ ॥
एकानावरशैः व्याप्य चावतारान्दशा[न]पि ।
मत्स्यः (त्स्यं) कूर्म (र्मं) विना कुर्यात्तत्क(दिक्पा) लानां (न्) विना तथा ॥ ७७ ॥
पूर्वोक्तमण्डपानां च (चो) तद्देवान् यथेष्टवत् ।
कुर्याद्दिग्क्षुपरीवारं शेषं प्रागुक्तवन्नयेत् ॥ ७८ ॥
बौद्धं च जिनकं चैव तत्तच्छास्त्रोक्तमार्गवत् ।
तत्तद्वाहनं स्थाप्यं बलिपीठं च पूर्ववत् ॥ ७६ ॥
यक्ष(क्षो) यक्षीश्च(च) तीथ्रानि कुर्यात्तत्परिवारकम् ।
अन्याश्च(न्येषां च) क्षुद्रदेवानां देवीनां परिवारकम् ॥ ८० ॥
तत्तद्वाहनपूर्वां(र्वं) च भूतपैशाचकं तथा ।
गणेशं(शानि) क्षेत्रपालादीन् कुर्यात्तत्परिवारकम् ॥ ८१ ॥