Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.38
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34.38
- Language
- English
v3.c24.s34.38
अर्थनाशं अवादीनं भविष्यति न संशयः ।
नागबन्धं तथा वल्ली गवाक्षं कुञ्जराक्षकम् ॥ २६१ ॥
स्वस्तिकं सर्वतोभद्रं नन्द्यावर्ताकृतिस्तथा ।
पुष्पबन्धं सचित्राह्वं रत्नसङ्गैरलङ्कृतम् ॥ २६२ ॥ 584
एषां(वं) वातायनरूपं नागवल्यादि दैवतम् ।
उक्तवद्विस्तृतायामे नन्दनन्दपदं भवेत् ॥ २६३ ॥
भुजङ्गद्वयमेकं स्यादेकादशपदे त्रिधा ।
नाग(चतुर)वेदाष्टभागं वा कुर्याद् वातायनं बुधः ॥ २६४ ॥ 588
सप्तसप्तपदं कृत्वा पत्रवल्यादिमण्डितम् ।
युग्मायुग्मपदैर्वांशा (थ) चान्य[द् ]वातायनेपि च ॥ २६५ ॥
एकद्वित्रिचतुः (तुष्)पञ्चमात्रैरङ्घ्रिरूपट्टिका ।
तद्विस्तारघनं सर्वं कुर्याद् वै शिल्पि (ल्प) वित्तमः ॥ २६६ ॥ 592
गोपुरे कूटकोष्ठादिग्रीवे पादान्तरे तथा ।
घने वाप्यघने वापि यथा वातायनैर्युतम् ॥ २६७ ॥
अन्यैस्तु (न्येषां) वास्तुसर्वेषां यथाचोक्तवदे (द्दे) शके ।
कुर्याद् वातायनं सर्वं श्रीसंपत्प्रदायिकम् ॥ २६८ ॥ 596
प्रथमात्तु सार्धकर (रं) षट्षड् (ण्) मात्रवृद्ध्या ।
तत्पञ्चवाङ्गमवधि त्रिविशालमेके (मिति भवेत्) ॥ २६६ ॥
शोभादिपञ्चदश [च] पञ्चविधप्रमाणम् [स्यात्] ।
द्वारेषु चैव विदितं द्विगुणोदयं स्यात् (कथ्यते) ॥ ३०० ॥ 600