Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34: गोपुरविधानम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s34
- Language
- English
गोपुरविधानम्
v3.c24.s34.1
तैव(ति)लानां नृपाणां च गोपुराणां च लक्षणम् ।
मानानां सार(रं) संगृह्य शास्त्रे संक्षेपतः क्रमात् ॥ १ ॥
तैव(ति)लस्योक्तमानं यन्मानुषाणां न कारयेत् ।
नराणां योग्यमानं यत्तैव(ति)लानां तु योग्यकम् ॥ २ ॥
क्षुद्रे [च] क्षुद्रमानो(नमु)क्तं मुख्ये मुख्यं तु मानकम् ।
अज्ञानाद्विपरीतं चेत्स्थाननाशं धनक्षयम् ॥ ३ ॥
तस्मात्तु गोपुरैर्मा(रमा)नं परित्यज्यो(गृह्यो)क्तवत्कुरु ।
आद्यके द्वारशोभं तु द्वारशाला द्वितीयके ॥ ४ ॥
द्वारप्रासाद(दो) मध्ये च द्वारहर्म्यं मयाधिके ।
महामर्यादि(दादि)कुड्ये [च] महागॊपुरमीरितम् ॥ ५ ॥
एवं तु कारयेच्छिल्पी सालानां द्वारके तथा ।
त्रिपञ्चसप्तकरान्तादेकादशकरं तु वा ॥ ६ ॥
एवं तु द्वारशोभस्य विशालं पञ्चधा स्मृतम् ।
पञ्चारत्नि समारभ्य त्रयोदशकरान्तकम् ॥ ७ ॥
द्वारशालाविशालं च पञ्चधा परिकीर्तितम् ।
सप्तहस्तं समारभ्य पञ्चत्रिंशाकरान्तकम् ॥ ८ ॥
द्वारप्रासादविस्तारं पञ्चभेदविदो विदुः ।
नवहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ॥ ९ ॥
सप्ता(प्र)दशकरान्तं स्याद् द्वारहर्म्यविशालता ।
एकादशकरा(रमा)रभ्य नवपङ्किकरान्तकम् ॥ १० ॥
पञ्चधा विपुलं प्रोक्तं महागॊपुरमेव च ।
पादाधिकम(कं) तद्याव(दर्धं च) पादोनं तत्समाधिकम् ॥ ११ ॥
v3.c24.s34.2
विस्तारा[द्दा]यामा ते सर्वे गोपुराणां विशेषतः ।
अथवा द्विडस्तवृद्धि(द्विः) स्याच्चत्वारिंशत्करान्तकम् ॥ १२ ॥
त्रिगुणोपरिहस्तान्तं विंशदायाम(मः) शोभके ।
शालाविशालतामारभ्य द्विद्विहस्तविवर्धनात् ॥ १३ ॥
पञ्चाशत्करसीमान्तं पञ्चविंशतिमायतम् ।
द्वारप्रासादविस्तारात्पूर्ववद्धर्धयेत्क्रमात् ॥ १४ ॥
षष्ट्ठिहस्तावसानं स्यात्त्रिंशदायाम(मः) पूर्ववत् ।
द्विद्विहस्तविवृद्धेन(वर्धनेन) हस्तसप्ततिकान्तकम् ॥ १५ ॥
द्वारहर्म्यविशालोर्ध्वं पञ्चत्रिंशदायतम् ।
महागौपुरविस्तारं द्विद्विहस्तविवर्धनात् ॥ १६ ॥
अशीतिहस्तावसाने [च] चत्वारिंशदायतम् ।
अथवाऽङ्घ्रिमानेन वर्धमानायतं मतम् ॥ १७ ॥
विस्तारद्विगुणान्तं च ए(चै) कभागेनवर्धनात् ।
शोभादिगोपुरान्तस्य वारो भित्ति(भक्ति)वशो(शादु)च्यते ॥ १८ ॥
द्वित्रिवेदशरांशं च षड्भागं शोभविस्तृते(स्तारे) ।
पञ्चषट्सप्तभागं च अ(तु चा)ष्टनन्द(न्दं) विभाजिते ॥ १८ ॥
एवं तु द्वारशाले तु विस्तारे तत्रकल्पयेत् ।
सप्ताष्टनवभागं च षङ्गिरेकादशस्तथा ॥ २० ॥
द्वारप्रासादविस्तारे भागमेवं प्रकल्पयेत् ।
अष्टनन्दां(न्दन)शकांशं तु ए(वै)कादशार्कभागिकम् ॥ २१ ॥
एतेषां द्वारहर्म्ये तु विस्तारो(रं) युक्तितो न्यसेत् ।
नवषङ्गिसभागं तु सैकार्कमनुभागिकम् ॥ २२ ॥
महागौपुरविस्तारे भागमेवं प्रकल्पयेत् ।
तद्विस्तारार्धमुत्सेधं त्रिपादं तत्समं तु वा ॥ २३ ॥
एवं तु द्वारपादोच्चं जन्मपादाग्रसीमकम् ।
तदर्थं द्वारविस्तारं तद्विशालं तथोदय(बाष्टक)म् ॥ २४ ॥
सपादसार्धभागेन द्विगुणानां तु (पादूनं द्विगुणं) मानुषे ।
सर्वेषां द्वारतुङ्गे च विस्तारे च विशेषतः ॥ २५ ॥
v3.c24.s34.3
विस्तारात्पादहीनेन (राधिकेन) विस्ताराधविसानकम् ।
पञ्चषट्सप्तभागे तु द्विगुणं सार्धयुग्मकम् ॥ २६ ॥
द्विं (ह्यं) गार्धार्थं गुणांशं वा द्वारं सर्वोदयं भवेत् ।
सप्तद्भागविशालं स्यात्सप्ततुङ्गावशेन हि ॥ २७ ॥
तदुत्सेधार्थविस्तारं द्वारगोपुर (रं) विन्यसेत् ।
अथवा चोप (ध्ये) पीठं स्यान्मानं त्यक्त्वा तथोच्छ्रयम् ॥ २८ ॥
शान्तिकात् (दि) पञ्चधोतुङ्गं चा (म) धुना वक्ष्यते क्रमात् ।
गोपुरस्य विशालार्थं तत्तत्पादाधिकोदयम् ॥ २९ ॥
तदर्थाधिकमुत्सेधं तत्रिभागाधिकोन्नतम् ।
तत्समं चाधिकोतुङ्गं द्विगुणात्पादाधिकोन्नतम् ॥ ३० ॥
एवं तु पञ्चधा द्वारं (र) तुङ्गं सर्वेषु गोपुरे (रेषु) ।
अथवा हस्तमानेन द्वारमाने प्रवक्ष्यते ॥ ३१ ॥
एकहस्तं समारभ्य षट्षडङ्गुलवर्धनात् ।
द्विहस्तान्तं द्वारविस्तारं द्वारशोभं तु पञ्चधा ॥ ३२ ॥
द्विहस्तादित्रिहस्तान्तं पञ्चधा द्वारविस्तृतम् ।
एवं तु द्वारशाले तु हस्तत्रय (यं) समारभेत् ॥ ३३ ॥
षट्षडङ्गुलवृद्धेन (द्वा च) चतुर्हस्तावसानकम् ।
पञ्चधा द्वारविस्तारं द्वारप्रासादमध्यमे ॥ ३४ ॥
चतुर्हस्तं समारभ्य पञ्चहस्तावसानकम् ।
द्वारहर्म्ये प्रवेशे तु द्वारतारं तु पञ्चधा ॥ ३५ ॥
पञ्चहस्तं समारभ्य हस्तषट्कावसानकम् ।
गोपुरे द्वारविस्तारं पञ्चधा परिकीर्तितम् ॥ ३६ ॥
अथवा द्वारशोभादिगोपुरान्तं यथाक्रमम् ।
एकद्वित्रिचतुष्पञ्चहस्तादौ [अ] रङ्गिवर्धनात् ॥ ३७ ॥
पञ्चषट्सप्तहस्तं च सा (चा) ष्टहस्तं नवान्तकम् ।
एतेभ्यो (षां) द्वारसर्वेषां विस्तारद्विगुणोन्नतम् ॥ ३८ ॥
देवानां द्वारमेवोक्तं मानुषाणां विशेषतः ।
द्विगुणाष्टांशहीने वा सप्तांशं चैकहीनकम् ॥ ३९ ॥
v3.c24.s34.4
षडंशांशैकहीनं वा पञ्चांशं चैकहीनकम् ।
चतुर्भागैकहीनं वा द्वारतुङ्गं प्रकल्पयेत् ॥ ४० ॥
उत्तराधो(धः) प्रदेशान्तं जन्मोर्ध्वं द्वारमारभेत् ।
द्वारोत्सेधमिदं कुर्यात्तत्सर्वे तद्द्वारपट्टिका ॥ ४१ ॥
शेषं युक्त्या प्रयुञ्जीयात्(ञ्जीत) द्वारमेवं तु सर्वशः ।
मूलहर्म्यवशाद्वक्ष्ये गोपुराणां च मानकम् ॥ ४२ ॥
मूलप्रासादविस्तारं(रं) समं वा पादमधिकम् ।
अथवात्य(ध्य) र्धविस्तारं पादोनद्विगुणं तु वा ॥ ४३ ॥
द्विगुणं वा प्रकर्तव्यं द्वारशोभादिविस्तारम् ।
प्रत्येकं पञ्चधा मानमायामं पूर्ववद्भवेत् ॥ ४४ ॥
मूलाधिष्ठानपादस्य समाधिष्ठानपादकम् ।
अथवाधिष्ठानपादोच्चं(चं) वेदभूतषडंशकम् ॥ ४५ ॥
सप्तकाष्टांशकं कृत्वा तत्तदेकैकहीनकम् ।
शेषं तद्द्वारशोभादीन्(नां) पादाधिष्ठानतुङ्गकम् ॥ ४६ ॥
उपपीठं विना कुर्याद् द्वारतुङ्गमिति स्मृतम् ।
शोभे(भके) चैकभूमिं(मिः) स्याद् द्वितीये द्वितलं भवेत् ॥ ४७ ॥
द्वारप्रासाददेशे तु त्रितलं चैव कारयेत् ।
हर्म्ये चतुस्तलं कुर्यात्तलं(लं) पञ्चक(कं) गोपुरम् ॥ ४८ ॥
अन्येषां महता(ति) देशे षोडशान्तं तलान्वितम् ।
एकत्रिपञ्चभूमादौ द्विद्विभूमिविवर्धनात् ॥ ४९ ॥
त्रिविधं चैकभूमी च ए(त्वे)कार्कतलसीमकम् ।
द्वित्रिवेदतलादौ च चतुर्दशतलान्तकम् ॥ ५० ॥
द्वितले च त्रिविधं प्रोक्तं द्विद्विभूमिविवर्धनात् ।
त्रितलात् पञ्चत्रयान्तं त्रितलं त्रिविधं प्रोक्तम् ॥ ५१ ॥
चतुःषडष्टभूमादौ षोडशान्तं तलसीमकम् ।
कन्यसं त्रिविधं प्रोक्तं कुर्यादेवं चतुस्तले ॥ ५२ ॥
पञ्चसप्ततलं(लं) नन्दतलादौ द्विद्विवर्धनात् ।
सप्ता(प्त)दशतलान्तं स्यात्त्रिविधं पञ्चभूमिके ॥ ५३ ॥
v3.c24.s34.5
देवानां मूलहर्म्यं स्यादधिकं च (र्त्यस्य हीनाधिक्यं) समोन्नतम् ।
शोभादिगोपुरे सर्वे(र्वेसिन्) चैवमुक्तं पुरातनैः ॥ ५४ ॥
नराणां मूलहर्म्यस्य समं हीनोन्नतं तु वा ।
मूलस्याधिकभूमिं चेद्राजराष्ट्रं विनश्यति ॥ ५५ ॥
एवं तु द्वारशोभे च चोक्तवत्कारयेद्बुधैः ।
अन्यथा द्वारदेशे तु यथाचोक्तमदाचरेत् ॥ ५६ ॥
द्वारपादोदयो(ये) वेदभागं कुर्याद्विचक्षणः ।
एकांशं चोपपीठार्थं तत्समं च मसूरकम् ॥ ५७ ॥
द्विभागं पादतुङ्गं स्यात्कारयेल्लक्षणान्वितम् ।
द्वारपादोदये धातुसङ्घिभागं विभाजिते ॥ ५८ ॥
उपपीठं शरांशं च वेदभागं मसूरकम् ।
अधिष्ठानं(नं) द्विगुणाङ्गिभित्तुङ्गमवे प्रकल्पयेत् ॥ ५९ ॥
द्वारपादोदये नन्दभागं कुर्याद्विचक्षणः(नस्त्रिभागिकम्) ।
उपपीठोदयं चाङ्घ्रिभागमेव(वं) मसूरकम् ॥ ६० ॥
तद्वयं पादतुङ्गे च कुर्यादेकोनविंशतिम् ।
भागं तद्द्वारपादोच्चे सप्तभागोपपीठकम् ॥ ६१ ॥
वेदभङ्ग(भाग)मधिष्ठानमष्टभागाङ्घ्रिभित्तुङ्गकम् ।
द्वारपादोदये चैव पङ्ग्क्तिभागमेवं विभाजिते ॥ ६२ ॥
उपपीठोदयं क्षिप्रं भागमंश(शं) मसूरकम् ।
तस्मान्तु(योस्तु) पादतुङ्गं च द्विभागं(गुणं) चैव कारयेत् ॥ ६३ ॥
द्वारपादोदयं(ये) चैव(क)विंशद् भागं विभाजिते ।
उपपीठोदयं चैव नवभागे प्रकल्पयेत् ॥ ६४ ॥
अधिष्ठानं वेदभागं तु वसुभागा(गम)ङ्घ्रितुङ्ककम् ।
एकादशविभागे तु द्वारपादोदयं भवेत् ॥ ६५ ॥
पञ्चांशं चोपपीठोच्चं द्व्यंशा(शम)धिष्ठान(नं) मानतः ।
पादतुङ्गं चतुर्भागमथवा द्वारपादके ॥ ६६ ॥
तुङ्गे च त्रयोविंशद् भागमेवं विभाजिते [तु] ।
एकादशो(शम्)पपीठं च चतुर्भागं मसूरकम् ॥ ६७॥
v3.c24.s34.6
वसुभागा(गम)ङ्गितुङ्गं स्यात्षड्भागं तु विभाजितं ।
त्रिभागं चोपपीठं तु शिवभाग(गं) मसूरकम् ॥ ६८ ॥
द्विभागं पादतुङ्गं स्यात्तदूर्ध्वं प्रस्तरादिकम् ।
शिखान्तं चोर्ध्वमाने तु वलानामधुनोच्यते ॥ ६९ ॥
अधिष्ठानसमं मञ्च (चं) तत्समं गलतुङ्गकम् ।
गलोश्वद्विगुणं प्रोक्तं शिखरस्योदयं न्यसेत् ॥ ७० ॥
शिखरार्ध्व (रार्धं) शिखोतुङ्गं स्तूपित्रयसमे (ममे) वच ।
एवमेकतलं प्रोक्तं द्वितलादितले (लमे) व च ॥ ७१ ॥
क्षुद्रमध्यं च मुख्यानां गोपुरे तु विशेषतः ।
प्रस्तरादिशिखान्तं स्याद् गण्यमानं प्रवक्ष्यते ॥ ७२ ॥
यस्याधिष्ठानमानं च तस्यमानवशो (शादु) च्यते ।
मसूरोच्चसमं वापि तदष्टांशोनमेव वा ॥ ७३ ॥
पञ्चषट्सप्तहीनं वा प्रस्तरोदयमेव च ।
ऊर्ध्वभूमाङ्घ्रिकोत्तुङ्गमधः पादवशो(शादु)च्यते ॥ ७४ ॥
अष्टसप्तक्रषट्पञ्चभागमेकोनमेव वा ।
तत्तद्भागोनमानं तु ऊ(चो)र्ध्वोर्ध्वचरणोदयम् ॥ ७५ ॥
तले तले प्रस्तराणां तु कारयेदेव मानतः ।
क्षुद्रगोपुरमेवं तु कारयेद् गण्यमानकम् ॥ ७६ ॥
नवमैकादशैकार्कमधिष्ठानोदयं भवेत् ।
तत्तद्भागार्धभागेन शेषं तत्प्रस्तरोदयम् ॥ ७७ ॥
अध(धः) पादोदयं तत्तद्भागेन चोर्ध्वपादकम् ।
प्रस्तरं (रस्य) चैव माने तु कारयेत्तु तले तले ॥ ७८ ॥
यस्य मानावसा(सा) नान्तं चोत्तरान्तं विधीयते ।
तदूर्ध्वं प्रस्तरं युक्तं तस्यार्ध(र्धा) चोर्ध्ववेदिका ॥ ७९ ॥
तदर्द्धयं गलतुङ्गं स्यात्प्रस्तरोच्चद्वयं शिरः ।
शिखरार्ध शिखोतुङ्गं तेषां गोपुरमेव च ॥ ८० ॥
एवं तु मध्यमाने तु गोपुराणां तु गण्यकम् ।
मुख्यगोपुरगण्यं तु वक्ष्यते विधिनाधुना ॥ ८१ ॥
v3.c24.s34.7
पूर्ववन्मैकसूमो(मसु)क्तं द्वितलादि विशेषतः ।
द्वारपादोदयं चैव द्वारविस्तारमानकम् ॥ ८२ ॥
उपपीठोदयं मानं मसूरकाङ्घ्रितुङ्गत्वकम् ।
शेषं प्रागुक्तवत्कुर्यादूर्ध्वमानं प्रवक्ष्यते ॥ ८३ ॥
अधिष्ठानत्रिपादं [तु] च ऊ(चो)र्ध्वपादं च(दस्य) तुङ्गत्वकम् ।
अथो(धः)पादत्रिपादं [तु] च ऊ(चो)र्ध्वपादोदयं भवेत् ॥ ८४ ॥
अधोमञ्चत्रिपादं [तु] च उ(चो)परि प्रस्तरं भवेत् ।
अथवा भूतषट्सप्तकाष्टनन्ददशांशकम् ॥ ८५ ॥
तत्तदेकैकहीनं वा चोर्ध्वपादाधिकोदयम् ।
तदर्धं वेदिकोत्तुङ्गं तद्द्वयं प्रोक्ततुङ्गत्वकम् ॥ ८६ ॥
ग्रीवतुङ्गत्वद्वयं चैव शिखरस्योदयं भवेत् ।
तदर्धं वष्ठिप्लोत्तुङ्गं द्वितले पञ्चकं शिखम् ॥ ८७ ॥
प्रस्तरं पूर्ववन्मानमादिपादादि पूर्ववत् ।
प्रस्तरोदयमाने यत्तदर्धं वेदिकोदयम् ॥ ८८ ॥
वेदिकाश्चो(चो)र्ध्वकान्तं(न्ता) स्यात्पूर्ववत्परिकल्पयेत् ।
द्वितुङ्गे त्रिद्विनेत्रं वा समनेत्रं समन्वितम् ॥ ८९ ॥
एवं त्रितलमाख्यातं चतुर्भूभ्यादि(दो)होच्यते ।
अर्धाधिष्ठानमानं षट्षड्भागं च विभाजिते ॥ ९० ॥
समं वा पादशरशं वा प्रस्तरोदयमीरितम् ।
भूतषड्विंशकं वापि चोर्ध्वपादोदयं तथा ॥ ९१ ॥
आदिप्रस्तरमानं तु त्रिपादं चोर्ध्वमञ्चकम् ।
वेद(दं) सार्ध(र्धं) शरांशं तु चोर्ध्वपादोदयं भवेत् ॥ ९२ ॥
सत्रिभागं द्विभागं स्याच्चोर्ध्वपादोर्ध्वमञ्चकम् ।
गुणसार्धं चतुर्भागमूर्ध्वपादंमथापि वा ॥ ९३ ॥
सार्धद्विभागं मञ्चं च वेदिकोच्चा(च्चम) र्धभागिकम् ।
तद्द्वयं गलतुलं स्यात् शि(च्छि) र (रा) भागं गलस्(लं) तथा ॥९४॥
शिर(रस्)तुङ्गाधंभागं तु स्तुपितुङ्गं प्रकल्पयेत् ।
नवसंख्या शिखा प्रोक्तं (क्ता) द्वितलं तु च पूर्ववत् ॥ ९५ ॥
v3.c24.s34.8
अथवा चतुरश्रं च स्तूपिरे(मे)कं चतुर्मुखम् ।
एवं चतुःस्थ(स्स्रं)लं प्रोक्तं पञ्चभूम्या (मम)धुनोच्यते ॥ ९६ ॥
पूर्ववद् भागमानेन प्रस्तरं पूर्ववद् भवेत् ।
सार्धभूतांशकं चैवमुपरिष्टा (चा) ङ्घ्रितुङ्गकम् ॥ ६७ ॥
द्वितीयं प्रस्तरोत्तुङ्गं सत्रिभागं द्विभागिकम् ।
ऊर्ध्वपाद(दं) शरांशं तु तृतीयं प्रस्तरोदयम् ॥ ६८ ॥
सार्धद्विभागमानेन ऊ (चो) र्ध्वपाद (दं) युगांशकम् ।
चतुर्थं प्रस्तरोत्सेधं सपादद्व्यंशकं भवेत् ॥ ६६ ॥
तदूर्ध्वाङघ्रियुगांशं तु पञ्चभाग (प्रस्तरं च) द्विभागिकम् ।
वेदिकांशं शिवांशं स्याद् ग्रीवांशं तु द्विभागिकम् ॥ १०० ॥
द्विभागं शिखरतुङ्गं स्यात् शि(च्छि) खराग्रे सच्छिलोदयम् ।
द्विललाटे महानासि चैकादशशिखान्वितम् ॥ १०१ ॥
अन्येषां च तलानां च प्रस्तरादि च पूर्ववत् ।
पादानामपि सर्वेषां प्रस्तराणां तल्ले तले ॥ १०२ ॥
एवं माने प्रकुर्वीत वेदिकादिगळान्वितम् ।
शिखरादि शिखामाने पूर्ववद्युक्तितो न्यसेत् ॥ १०३ ॥
अथवा द्वारशोभादि गोपुराणां विशेषतः ।
विस्ताराद्विगुणोत्सेधं जन्मादिस्तूपिकान्तकम् ॥ १०४ ॥
द्विगुणार्धं च हीनं वा चाधिक्यं च त्रिधोन्नसम् ।
सार्धं तु द्विगुणोत्सेधं पादोनं द्विगुणोन्नतम् ॥ १०५ ॥
क्षुद्रगोपुरमेवं तु मध्यमं तत्रवच्यते ।
क्षुद्रान्तु पादहीनं वा सा (चा) र्धहीनोदयं तु वा ॥ १०६ ॥
एवं तु मध्यमं प्रोक्त मध्यमत्यादहीनकम् ।
विस्तारादर्थमुत्सेधं मुख्यगोपुरमेव च ॥ १०७ ॥
पूर्ववत्प्रस्तराद्यन्तं चोर्ध्वं स्तूपिकान्तकम् ।
गण्यमाने च सर्वेषां भागमाने (न) वशो(शादु) च्यते ॥ १०८ ॥
तच्चतुर्भागिकं कृत्वा ए ( चै) कभागं गलोदयम् ।
शिखरोच्च (चं) द्विभागं कुर्यादेकांशं तच्छिलोदयम् ॥ १०६ ॥
v3.c24.s34.9
एवमेकतले प्रोक्तं द्वितले भागमुच्यते ।
कृत्वा द्विरष्टभागं षड्भूतांशं चोर्ध्वपादकम् ॥ ११० ॥
द्विभागं प्रस्तरोत्तुङ्गमेकांशं वेदितुङ्गकम् ।
कोष्ठकं गलतुङ्गं स्याद्वयंशं मस्तकोदयम् ॥ १११ ॥
तदर्धं स्तूपिकोत्सेधं शेषं तु पूर्ववद् भवेत् ।
तदुद्ध्वे(र्ध्वे) पञ्चविंशांशे कृत्वा च त्रितलं विदुः ॥ ११२ ॥
द्वितीयाङ्घ्र्योच्चं षड्भागं सार्धद्वयांशकं प्रति ।
तदूर्ध्वे सार्धपञ्चांशं पादायामं तृतीयकम् ॥ ११३ ॥
अन्तिमं च द्विभागं स्याद् वेदिकोदयमीरितम् ।
प्रोक्तमुतुङ्कलताभागं शिखरोच्चं युगाधिकम् ॥ ११४ ॥
स्तूपितुङ्ग(ङ्गं) द्वयं प्रोक्तं प्रत्यूर्ध्वादिशिखान्तकम् ।
नवाधिक्यं दशांशं तद्विभजेत्तु चतुस्त(स्त) ले ॥ ११५ ॥
तदंशो सार्धबन्धां(न्ध्यं) शं पादोच्चं सद्दि(वृदि)तीयकम् ।
अर्धाधिकशिवांशान्तं तदूर्ध्वं प्रस्तरमानकम् ॥ ११६ ॥
सार्धत्रिभाग(गं) पादोच्चं सपादांश(शं) कपोतकम् ।
सन्निपादद्वया(यम)ङ्घ्यिञ्च(च) प्रस्तरोच्चं शिवांशकम् ॥ ११७ ॥
वेदिकोच्चं तदर्धं स्याद् ग्रीवोच्चं सार्धभागिकम् ।
तद्द्वयं शिखरोत्तुङ्गं तदर्धं वच्छिखोदयम् ॥ ११८ ॥
प्रस्तरस्योपरिष्टात्तु स्तूपिकान्तोदयं तथा ।
षट्पञ्चभागिकं कृत्वा भूतांशं पादतुङ्गकम् ॥ ११९ ॥
नेत्रांशं प्रस्तरोत्तुङ्गं सार्धवेदा(दम)ङ्घ्रितुङ्गकम् ।
त्रिपादोपेतमेकांशं प्रस्तरोदयमीरितम् ॥ १२० ॥
सपाद्वेदा(दम)ङ्घ्रितुङ्गं स्यात्सार्धभागे(गम्) र्ध्वमञ्चकम् ।
सार्धबन्ध्या(न्ध्य)ङ्घ्रितुङ्गं च (स) पादांशं प्रस्तरोदयम् ॥ १२१ ॥
तदूर्ध्वे वेदि तुङ्गार्थं कन्धरं सार्धभागिकम् ।
तद्द्वयं शिखरतुङ्गं स्यात्पादांशं तच्छिखोदयम् ॥ १२२ ॥
एवं पञ्चतलं प्रोक्तं शेषं प्रागुक्तवद् भवेत् ।
अथवा द्वारशोभादि पादुकान्ते शिखान्तकम् ॥ १२३ ॥
v3.c24.s34.10
भागमानवशाद् गण्यमानं यत्त्रोच्यते बुधैः ।
पूर्वैस्तु तुङ्गमानं तद्दशभागाद्विभाजिते ॥ १२४ ॥
द्विभागं चोपपीठोचं तस्मादेकांश(शं) कुट्टिमम् ।
तद्द्वयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥ १२५ ॥
तत्समं ग्रीवतुङ्गं स्यात्तद्वयं शिखरोदयम् ।
एकांशं तच्छिखोदयं शेषमानं तु पूर्ववत् ॥ १२६ ॥
एवमेकतलं प्रोक्तं द्वितलं (ल) भागमुच्यते ।
जन्मादिपूर्वपर्यन्तं नवपङ्कत्यंशकं भवेत् ॥ १२७ ॥
त्र्यंशं चोपपीठोच्चं कुट्टिमं च द्विभागिकम् ।
पाददीर्घ(दैर्घ्यं) युगांशं स्यात्सत्रिपादांश(शं) मञ्चकम् ॥ १२८ ॥
सत्रिपादद्वयांशं च मूलपादोदयं तथा ।
कपोतप्रतिरेकांशं वेदितुङ्गं तदर्धकम् ॥ १२६ ॥
ग्रीवोञ्चमेकभागं स्याच्छिखरोच्चं कलांशकम् ।
तदर्धं स्तूपिकोत्तुङ्गं शेषं प्रागुक्तवन्नयेत् ॥ १३० ॥
त्रितले पूर्ववत्तुङ्गं त्रिस्(त्रि)सप्तांश(शं) विभाजिते ।
चतुर्भागो(गमु)पपीठोच्चं सार्धांशं मसूरकम् ॥ १३१ ॥
गुह्वांशं पादतुङ्गं स्यात्कपोतं सार्धभागिकम् ।
सार्धद्वयांशं पादोचं प्रस्तरोच्चं शिवांशकम् ॥ १३२ ॥
सपादद्व्यंशका जङ्घा मञ्चायामं त्रिपादकम् ।
तदूर्ध्वेऽर्धांशं वेद्युञ्चं चोर्ध्वग्रीव(वं) शिवांशकम् ॥ १३३ ॥
ग्रीवद्वयसमं मूर्ध्नि ग्रीवतुल्यं शिखोदयम् ।
शेषं प्रागुक्तवद्दिष्टं चतुस्तलमिहोच्यते ॥ १३४ ॥
जन्मादि स्तूपिपर्यन्तं कृत्वैकं (क) त्रिशदंशकम् ।
षड्भागं चोपपीठोच्चं अंशा(शम)धिष्ठानमानकम् ॥ १३५ ॥
तद्द्वयं पाददीर्घ(दैर्घ्यं) तु सत्रिपादांश (शं) मञ्चकम् ।
सपादद्विं(त्र्यं)शकं पादं मञ्चतुङ्गं शिवांशकम् ॥ १३६ ॥
पादायामं गुह्यांशं स्यात्सपादांशं कपोतकम् ।
पादोनत्रिं(त्र्यं)शकं चोर्ध्वे पादायामं प्रकल्पयेत् ॥ १३७ ॥
v3.c24.s34.11
प्रस्तरं चैकभागं स्यात्तदर्थं वेदिकोदयम् ।
तद्द्वयं ग्रीवतुङ्गं स्याद् ग्रीवस्तुङ्गाद्वयं शिरः ॥ १३८ ॥ 276
एकांशं स्तूपिकोत्तुङ्गं शेषं पूर्ववदाचरेत् ।
जन्मादिस्तूपिकान्तं च चत्वारिंशा(शद)ष्टभागिकम् ॥ १३९ ॥
तद्भागोपानमर्धांशं प्रोव(सत्रि)पादाष्टकांशकम् ।
उपपीठमधिष्ठानं तुङ्गं सार्धद्वयांशकम् ॥ १४० ॥ 280
तद्द्वयं पादतुङ्गं स्यात्तदर्थं प्रस्तरोदयम् ।
सार्धवेदा(दम)ङ्घ्रितुङ्गं स्यात्सपादद्वांश(शं) मञ्चकम् ॥ १४१ ॥
पादाधिक्यं चतुर्भागं पाद(दं) मञ्च(ञ्चं) द्विभागिकम् ।
वेदांशं पादतुङ्गं च सत्रिपादांश(शं) मञ्चकम् ॥ १४२ ॥ 284
तदूर्ध्वे चरणोत्तुङ्गं सत्रिपादगुणांशकम् ।
प्रस्तरा(रम)त्य(ध्य)र्घभागं तु वेदिसुङ्गं त्रिपादकम् ॥ १४३ ॥
तद्द्वयं गलतुङ्गं स्याद् गुहांशं शिखरोदयम् ।
सार्धभागं शिखोतुङ्गं(ङ्ग)मेवं पञ्चतलं विदुः ॥ १४४ ॥ 288
शेषं च पूर्ववत्कुर्याद् द्वारशोभादि पञ्चधा ।
घने चाप्यघने चैव विन्यासमध वक्ष्यते ॥ १४५ ॥
विस्तारायाम(मं) शोभादि(दो) पूर्ववद् गोपुरान्तकम् ।
यन्मानं बहिरन्येन चूलिकामात्रसंमि(यु)तम् ॥ १४६ ॥ 292
एकं हस्तं समारभ्य षड्वडङ्गुलवर्धनात् ।
शोभादिगोपुरान्तायनिर्गमं(मः) पञ्चधा भवेत् ॥ १४७ ॥
अथवा भित्तिपादं(दात) स्याद् दण्डमानेन संयुतम् ।
एकदण्डं समारभ्य दशदण्डावसानकम् ॥ १४८ ॥ 296
यथा विमानसंयुक्तं तत्र दोषो न विद्यते ।
अज्ञान(नान्) मानविच्छेदं सर्वदोषकरं भवेत् ॥ १४९ ॥
तस्मात्परिहरेद्विद्वान्माननिर्गममेव च ।
यथातारे तु धातां(त्वां)शं गर्भगेहं गुहाशिकम् ॥ १५० ॥ 300
एकमा(का)वृतभित्ति(त्तिः) स्यादेवमेकतलं भवेत् ।
द्वितले तार(रं) सप्तांशं वेदांशं गर्भगेहकम् ॥ १५१ ॥
v3.c24.s34.12
परितस्(तः) सार्धभागेन भित्तिविष्कम्भमानकम् ।
तदंशो(दर्धांशं) कूटशाला [दि] मण्डितं भित्तितो न्यसेत् ॥ १५२ ॥
तत्समं चान्तरालं स्यान्मध्यकोष्ठं गुणांशकम् ।
तस्मात्तु कूटयोर्मध्यं चान्तरालं प्रकल्पयेत् ॥ १५३ ॥
अन्तरालं विशेषेण पञ्जरादिविभूषितम् ।
एवं तु द्वितलं प्रोक्तं कारयेद् द्वारशालके ॥ १५४ ॥
त्रितले ताररन्धांशे गर्भगेहं गुणांशकम् ।
आवृत्तभित्तिरेकांशं तत्समांशेनाळिन्दकम् ॥ १५५ ॥
तद्बहिश्श्रावृतांशेन कूटकोष्ठादि पूर्ववत् ।
द्वारप्रासादमेवं तु द्वारहर्म्यो (म्येम) धुनेोच्यते ॥ १५६ ॥
विस्तारे दशभागे तु गर्भगेहं त्रियं(त्रयां) शकम् ।
तद्बाह्ये(ऽऽ)वृतभित्तिश्च सं(स्तु चा) शेनावृतलिन्द्र(वालिन्द) कम् ॥ १५७ ॥
अंशेन कर्णहर्म्यादि परितोऽशेन कूटकम् ।
मुख(ख्य)शालैस्तु(लं तु) भूतांश शेषं [तु] चान्तरालकम् ॥ १५८ ॥
एवं चतुस्तलं प्रोक्तं पञ्चभूमिरिहोच्यते ।
विस्तारे(रमे)कदशांशं तु नाळिगेहं गुणांशकम् ॥ १५९ ॥
तद्बहिर्द्द्यंशमेकेन पृथ्वा(थ्वी) कुड्यविशालकम् ।
तत्तद्बाह्यावृतांशेन कुर्यादालिन्द्र(दलिन्द)कं भवेत् ॥ १६० ॥
एकांशं कूटशालादि कर्णहर्म्यावृतं तथा ।
एकांशं कूटविस्तारं महाशाला त्रयां(पञ्चां) शकम् (का) ॥ १६१ ॥
एकैकं चान्तरालं स्यात्क्षुद्रशालैकभांगिकम् ।
विस्तारद्विगुणाभ्यैव भागमेकेन वर्धनात् ॥ १६२ ॥
यथेष्टा(ष्टमा) यवतारं (रे) सर्वे कूटकोष्ठादि विन्यसेत् ।
पादान्यान भद्रसंयुक्तं देशेषु पद(पादं) विन्यसेत् ॥ १६३ ॥
प्रधाने चोर्ध्वदेशे वा कुर्याद् दोषो न विद्यते ।
एकदण्डं द्विदण्डं वा त्रिदण्डं भद्रनिर्गमम् ॥ १६४ ॥
अन्येषां हर्म्यमानेन युक्त्या तत्रैव योजयेत् ।
एवं तद्धनमानो (नम्) लक्षणं वक्ष्यतेऽधुना ॥ १६५ ॥
v3.c24.s34.13
विस्तारायामभक्ति(क्तिः) स्यादुक्तवद्युक्षितो न्यसेत् ।
द्वित्रिभाग(शं) विशाले(लं) तु आ(या)यतं तत्प्रकल्पयेत् ॥ १६६ ॥
v3.c24.s34.14
भक्तित्रिभागमेकांशं भित्तिविस्तारमेव च ।
शेषं तद्गर्भगेहं तु मध्यभागे तु वेशनम् ॥ १६७ ॥
अथवा चायतं वेदभागं कुर्याद् विचक्षणः ।
हर्म्यार्धं भित्तिविस्तारं शेषं तु गर्भगेहके ॥ १६८ ॥
v3.c24.s34.15
भित्त्यर्थं परितोलिन्द्र(न्दस्य) द्वारदेशे विशालता ।
त्रिभागं भद्रविस्तारं सार्धभागं तु निर्गमम् ॥ १६९ ॥
नवपङ्क्त्यंशकं चापि रुद्रभागांशमेव च ।
एवं तु मध्यकोष्ठं च निर्गमं च द्विभागिकम् ॥ १७० ॥
v3.c24.s34.16
तस्य मध्ये तु भद्रं वा पञ्चषड्भागमेव वा ।
अथवा सप्तभागं तु वसुभागं तथैव च ॥ १७१॥
एकांशं निर्गमं कुर्यात्षट्सप्तांशमथापि वा ।
एवं तु चान्तरालं स्यान्मध्ये मध्यशालयूक् ॥ १७२ ॥
v3.c24.s34.17
द्विभागं वा त्रिभागं वा विस्तारं निर्गमांशकम् ।
तद्द्वयोरन्तरं कुर्याद्युक्त्या तत्रैव भूषितम् ॥ १७३ ॥
एकं वा कर्णकूटं तु तथैवान्तर्विशेषतः ।
भित्तिबाह्याष्टवांशेन कर्णकूटाद्बहिस्तथा ॥ १७४ ॥
v3.c24.s34.18
एवं जलस्थलं प्रोक्तमूर्ध्वाधोभूमि(मिं) विन्यसेत् ।
शेषं तु पूर्ववत्कुर्यादेवं तु त्रितलं मतम् ॥ १७५ ॥
मध्यकोष्ठविशाले तु पूर्ववत्स्वांशमाधिकम् ।
शेषं प्रागुक्तवत्कुर्यात्सर्वं युक्त्या प्रयोजयेत् ॥ १७६ ॥
v3.c24.s34.19
द्वारप्रासादमेवं तु त्रितलेष्वेव कारयेत् ।
गोपुरे तु चतुर्भूभिविन्यासं च मयाधुना ॥ १७७ ॥
विस्तारे रुद्रभागे तु पूर्ववदायतं मतम् ।
अष्टांशाद्येकभागान्तं पञ्चधा विपुलं भवेत् ॥ १७८ ॥
v3.c24.s34.20
तत्तद्वि(वृद्धि)गुखसीमान्तं भाग(पाद)मेकेन वर्धनात् ।
एवं चायमिदं प्रोक्तं भित्तिगेहमिहोच्यते ॥ १७९ ॥
v3.c24.s34.21
त्रिचतुष्पञ्चषड्भागं सप्तांशं कुड्यविस्तारम् ।
शेषं तु नालगेहं तु पञ्चधा परिकीर्तितम् ॥ १८० ॥
भित्तिबाह्यांशकांशेन द्विभागं च तले तले ।
ललाटे भद्रमेकांशं विस्तारं निर्गमार्थकम् ॥ १८१ ॥
अन्तस्त्वलिन्द्र (न्द) कं वापि भित्तिकं वाङ्घ्रिकान्वितम् ।
तद्बहुबालिन्द्र (न्द) कं (के) युक्त्या जालकाना (कम) ङ्घ्रिकान्तरे ॥ १८२ ॥
घनं वाप्यधनं वापि भित्तिं कुर्याद् विचक्षणः ।
आयामे मध्यमे द्वारं भित्तिदेशे द्वयं न्यसेत् ॥ १८३ ॥
गेहं तद्ब्रह्मलाटे च व (तु चो) पपीठाकृतिस्(ति) वलम् ।
अथवा वप्रवद्युक्त्या यथेष्टमुत्सेध (धं) मानयेत् ॥ १८४ ॥
स्तम्भयुग्गोपुरं ज्ञात्वा विस्तारे चोत्तरान्तकम् ।
तन्त्रिभागद्विभागं वा भित्तिरे (मे) केन कारयेत् ॥ १८५ ॥
स्थापयेद् भागमेकं चेत्तत्सूत्राद्वहिराश्रितम् ।
अखो(न्तो) तरायते न्यस्य तिर्यक् तौलि प्रकल्पयेत् ॥ १८६ ॥
पादं वायते तौलि कुर्याद्युक्त्या विचक्षणः ।
तदूर्ध्वे जयन्तिकं कुर्यात्तत्तलच्छादनान्वितम् ॥ १८७ ॥
अथवा त्रिचतुर्भागं विस्तारायामकं तथा ।
भित्तितारार्धभागं तु शेषं तद्गेहमानकम् ॥ १८८ ॥
तत्समं परितोलिन्द्रं (न्दं) शेषं तत्पूर्ववद्भवेत् ।
अथवा चायतं मानमेकभागाधिकं तथा ॥ १८६ ॥
पूर्ववद् भित्तिविस्तारमेकांशामृतारिन्द्र(न्द)कम् ।
त्रिभाग(गं) मध्यभद्रं च शेषं पूर्ववदाचरेत् ॥ १६० ॥
चतुर्भागविशाले तु पञ्चभागायतं तथा ।
भागार्धं भित्तिविस्तारं शेषं गर्भगेहं भवेत् ॥ १६१ ॥
एकं च परितोद्वारं मध्यभद्रं त्रिभागिकम् ।
निर्गमं चैकभागेन तत्तद्रूभद्रं (द्रं) द्विभागिकम् ॥ १६२ ॥
एकांशं निर्गमोपेतं युक्त्या शेषं तु पूर्ववत् ।
चतुःपञ्चभागविस्तारमायामं प्रविधीयते ॥ १६३ ॥
v3.c24.s34.22
एकभागेन कुड्यं स्यान्मालिगेहं तु शेषकमू ।
एकभागावृतलिन्द्रं (न्दं) मध्यभद्रं युगांशकम् ॥ १९४ ॥
तदर्धं नेत्रभद्रं स्यात्तदर्धं भद्रनिर्गमम् ।
अष्टभागं तदायामं मध्ये भद्रं षडंशकम् ॥ १९५ ॥
शेषं तत्पूर्ववत्प्रोक्तं कुर्यात्तच्छिल्पि(ल्पि)वित्तमः ।
पञ्चषड्भागविस्तारे चायमं तद्विभाजिते ॥ १९६ ॥
नेत्रभद्रं (द्रं) द्विभागं तत् शे(च्छे)षांशं पूर्ववद् भवेत् ।
पञ्चभागविशाले तु सप्तभागं तदायते ॥ १९७ ॥
मध्यभद्रं तु भूतांशे (शं) विस्तारं चैकनिर्गमम् ।
अन्येषां पूर्ववत्कुर्यादधवांशाधिकायतम् ॥ १९८ ॥
षड्भागं भद्रविस्तारमेकभागेन निर्गमम् ।
शेषं पूर्ववदुद्दिष्टं तदर्धोशाधिकायतम् ॥ १९९ ॥
पञ्चांशं भद्रविस्तारं निर्गमं चैकभागिकम् ।
शेषं प्रागुक्तवत्कुर्यात्पङ्गिभागद्वयं (गायतं) तथा ॥ २०० ॥
षड्भागं मध्यभद्रं च अ(तु चा)न्येषां पूर्ववद् भवेत् ।
षडंशं भागमाधिक्यं विस्तारायामकं तथा ॥ २०१ ॥
एकांशं भित्तिविस्तारं परितः शेषं तु गेहकम् ।
एकभागावृतलिन्द्रं(न्दं) पञ्चांशं मध्यभद्रकम् ॥ २०२ ॥
नेत्रभद्रं चतुर्भागमेकांशं भद्रनिर्गमम् ।
एकभागाधिकायामं मध्यभद्रं षडंशकम् ॥ २०३ ॥
तस्मदाधिक्यभागं तु भूतांशं भद्रमीरितम् ।
आयामे दशभागे तु भद्रतारं षडंशकम् ॥ २०४ ॥
आयामे रुद्रभागे तु सप्तांशं भद्रविस्त (स्ता) रम् ।
द्वादशांशं तदायामे मध्यभद्रे गजांशकम् ॥ २०५ ॥
निर्गमं चैकभागं स्याच्छेषं प्रागुक्तवर्ध(न्न)येत् ।
एवं तद्द्वारशोभं स्यादेकभूमिरिति स्मृता ॥ २०६ ॥
विस्तारे पञ्चभागे तु ए(चै)कभागाधिकायतम् ।
त्रिचतुर्भागनालं स्याच्छेषं भित्तिविशालकम् ॥ २०७ ॥
v3.c24.s34.23
तद्बहिः परितोऽशेन कूटकोष्ठविशालकम् ।
एकांशं कर्णकूटं च हारतारं (रमे) कभागिकम् ॥ २०८ ॥
मध्यकोष्ठं त्रिभागं च युक्त्वा तत्रैव योजयेत् ।
एवं ललाटयोश्चैव दीर्घं (दैर्घ्यं) विन्यासमुच्यते ॥ २०९ ॥
कर्णकूटद्वयं चैव तद्भागद्वयमीरितम् ।
अन्तरालद्वयं पञ्च भागं कुर्याद् विचक्षणः ॥ २१० ॥
मध्यकोष्ठं चतुर्भागं निर्गमं च द्विभागिकम् ।
अथवात्य(ध्य) र्धभागं च सपादांशकमेव च ॥ २११ ॥
मध्यकोष्ठमिदं प्रोक्तं नेत्रदीर्घं द्वयं तथा ।
मध्यकोष्ठं चतुर्थं च कर्णकूटे चतुष्टयम् ॥ २१२ ॥
हारान्तराष्ट(ल)देशे तु तोरणायैर्विभूषितम् ।
अभ्रवंशाधिकायामं पूर्ववद् भित्तिविस्तृतम् ॥ २१३ ॥
मध्यभद्रोच्चभद्रं च त्रिभागे विस्तृतं भवेत् ।
निर्गमं चैकभागं स्याल्ललाटांशे तु पूर्ववत् ॥ २१४ ॥
तस्मादधिकांशायामं पूर्ववद् विस्तृतं भवेत् ।
मध्यभद्र(द्रं) युगांशं स्या(द्धा)रान्तर(रं) द्विभागिकम् ॥ २१५ ॥
मध्यकोष्ठं युगांशं स्यात्कुर्याच्छेषं तु पूर्ववत् ।
नवभागं तदायामे मध्यकोष्ठं शरांशकम् ॥ २१६ ॥
अथवा वेदभागं च आ(तु वा) यामे तत्प्रकल्पयेत् ।
मध्यकोष्ठं तु षड्भागं मध्यभद्रं द्विभागिकम् ॥ २१७ ॥
तदर्धं निर्गमे प्रोक्तमन्तरालं द्विभागिकम् ।
शेषं पूर्ववदुद्दिष्टमथवा रसभागिकम् ॥ २१८ ॥
विस्तारे सप्तभागं स्यादायामं च विशेषतः ।
एकांशं तद्वृतं भित्तिवारं शेषं च नालिका ॥ २१९ ॥
तद्वाह्ये परितश्चांशं कर्णकूटादिमानकम् ।
मध्यकोष्ठं द्विभागं स्यात्त्रिभागं चान्तरालकम् ॥ २२० ॥
आयामे मध्यकोष्ठं(भद्रं) च त्र्यंशं द्वारं द्विभागिकम् ।
अष्टांशं च तदायामं मध्यकोष्ठे युगांशकम् ॥ २२१ ॥
v3.c24.s34.24
नवभागं तदायामे कोष्ठायामं शरांशकम् ।
त्रिभागं बाह्यभद्रं स्यान्निर्गमं चैकभागिकम् ॥ २२२ ॥
दशभागं तदायामे पूर्ववत्परिकल्पयेत् ।
एकादशांशकं कुर्यात्पञ्चांशं मध्यकोष्ठकम् ॥ २२३ ॥
द्वादशांशं तदायामे शालायामं षडंशकम् ।
मध्यं द्विभाग(गं) भद्रं स्यान्निर्गमं चैकभागिकम् ॥ २२४ ॥
द्वारस्य मध्यदेशे तु अ(चा)तुश्शाला विशालकम् ।
तत्पार्श्वद्वययो(योर) द्वारं नासिकापञ्जरान्वितम् ॥ २२५ ॥
शेषं तु पूर्ववत्कुर्यात्तद्युक्त्या तत्रैव योजयेत् ।
विस्तारे सप्तभागं तु वसुभागं तदायतम् ॥ २२६ ॥
भित्तिविस्तारमेकांशं परितः शेषा(षम)न्तरालि(ल)कम् ।
तत्तद्बाह्यावृतांशेन शेषमूह्यं विचक्षणैः ॥ २२७ ॥
नवभागं तदायामं दशभागमथापिवा ।
एकादशांशकं वापि विन्यसेच्चैव पूर्ववत् ॥ २२८ ॥
त्रयोदशांशमायामे मध्यशाला विशालयुक् ।
त्रिभागं चान्तरालं स्याच्चतुर्दशायतं तथा ॥ २२६ ॥
मध्यकोष्ठं तदष्टांशं शेषं प्रागुक्तवन्नयेत् ।
अथवा चाष्टभागं तु विस्तारं तु नवायतम् ॥ २३० ॥
द्विभागं भित्तिविस्तारं शेषं नाळिगृहं मतम् ।
तद्बाह्ये परितश्चांशं कर्णकूटाद्यमानकम् ॥ २३१ ॥
अथवा दशभागं स्यात्तदेकादशभागिकम् ।
द्वादशांशायतं वाथ त्रयोदशायतं ततः ॥ २३२ ॥
चतुर्दशायतं वापि पञ्चा(ञ्च)दशांशादीर्घकम् ।
मध्यकोष्ठं शरांशं स्यात्तत्समं चान्तरालकम् ॥ २३३ ॥
तस्य मध्ये विशेषेण त्रिभागं चातुशालकम् ।
एकं चाप्यर्धभागं वा मध्यकोष्ठन्तु(स्थ) निर्गमम् ॥ २३४ ॥
द्वादशभागं तदायामे मध्यकोष्ठं रसांशकम् ।
शेषं पूर्ववदुद्दिष्टं नवभागमथापि वा ॥ २३५ ॥
v3.c24.s34.25
विस्तारं चायतं षड्भिागं कुर्याद् विचक्षणः ।
भित्तिसारं कलांशं स्यात्तद्वहिः परितोंऽशकम् ॥ २३६ ॥
v3.c24.s34.26
एवं तु कूटशालाद्यैर्मा (दि मा) नं कुर्याद् विशेषतः ।
अथवांशाधिकायतं द्वादशांशायतं तु वा ॥ २३७ ॥
त्रयोदशांशकं वापि द्विसप्तभागमेव च ।
पञ्चादशांशकं वापि पोडशांशं तदायतम् ॥ २३८ ॥
v3.c24.s34.27
विन्यासं पूर्ववत्कुर्यात्सप्तदशांशमायतम् ।
मध्यकोष्ठं नवांशं स्यात्तन्मध्ये भूतभागिकम् ॥ २३६ ॥
विस्तारे मध्यभद्रं तु निर्गमं चैकभागिकम् ।
अन्तरालं चतुर्भागं तन्मध्ये द्वयं (शं) भद्रकम् ॥ २४० ॥
v3.c24.s34.28
अथवाष्टादशांशं तु आ (चा) यामं तत्प्रकल्पयेत् ।
दशांशं मध्यकोष्ठं च षडंशं मध्यभद्रकम् ॥ २४१ ॥
घनं वाप्यघनं वापि भित्तिं कुर्याद् विचक्षणः ।
ऊर्ध्वभाग (गं) विशेषेण कर्णहर्म्यादिमण्डितम् ॥ २४२ ॥
v3.c24.s34.29
तत्रैवाभ्यन्तरं चाथ भागमेवं (कं) जलस्थलम् ।
तद्द्बाह्ये चोर्ध्वभागं तु भित्तिरेवं तथैव च ॥ २४३ ॥
अथवा दण्डमानेन वेशने निर्गमं तथा ।
एतेषां द्वारशाले तु द्वितलं कारयेद् बुधः ॥ २४४ ॥
v3.c24.s34.30
गोपुरं (रं) त्रितलं (ल) न्यासं सलक्षणं वच्यतेऽधुना ।
सप्तांशं च द्विसप्तांशं भागं चैकैकवर्धनात् ॥ २४५ ॥
एवमायमिदं प्रोक्तं शिल्पिभिः प्रवरैः कृतम् ।
द्विभागं भित्तिविस्तारं परितः शेषं तु गेहकम् ॥ २४६ ॥
v3.c24.s34.31
तस्य बाह्यावृतं ज्ञात्वा भागं कुर्याज्जलास्थलने ।
तद्बहिः परितोऽशेन कर्णहर्म्यादिमण्डितम् ॥ २४७ ॥
तत्तस्मादावृतांशेन आ (चा) दिदेशे जलस्थलम् ।
तत्समं तद्बहिः कुर्यात्कूटशालाद्यमानकम् ॥ २४८ ॥
v3.c24.s34.32
मध्यशालाष्टभक्तिः (क्तिकं) प्रोक्तं कर्णकूटाष्टकं तथा ।
द्वारापोष्ठश संयुक्तं शेषं प्रागुक्तवन्नयेत् ॥ २४६ ॥
v3.c24.s34.33
अष्टभागं तु विस्तारमायामं तेन वर्धनात् ।
षोडशांशं यथा न्याय्यं पूर्ववद्विधिना चरेत् ॥ २५० ॥
नवांशं विस्तृता (तमा) रभ्य वसुपङ्क्त्यवसानकम् ।
आयाममिति हि प्रोक्तं विन्यासं पूर्ववद् भवेत् ॥ २५१ ॥
विशालं दशभागं द्वाविंश [द्] भागाबसानकम् ।
नवपङ्क्त्यंशो(शमे) कविंशांशं दीर्घविन्यासमुच्यते ॥ २५२ ॥
नन्दपङ्क्त्यंश (शं) विभजेच्चतुस्तले तु त्रिवर्गकम् ।
षट्सप्ताष्टभागं वा नवार्धं वार्धरुद्रकम् ॥ २५३ ॥
भानु सैकार्कभागं तु मध्यकोष्ठविशालकम् ।
शेषं चान्तरालं च द्विभागं कर्णकूटकम् ॥ २५४ ॥
मध्यशाला विशेषेण पञ्च षट् सप्तकं भवेत् ।
द्विभागं वा त्रिभागं वा शालामध्ये तु भद्रकम् ॥ २५५ ॥
एकं वा द्विभागं वा त्रिभागं निर्गमं तु वा ।
अथवा द्वारदेशे तु प(चै) कद्वित्रियुगांशकम् ॥ २५६ ॥
मध्यकैत्वनुशालाञ्च निर्गमं चैकभागिकम् ।
शेषं तु चान्तरालानां नासिकापञ्जरान्वितम् ॥ २५७ ॥
अधोभूमिश्चान्तराले कुम्भकुम्भतलान्वितम् ।
भद्रं वापि विभद्रं वा कर्णहर्म्यादिमण्डितम् ॥ २५८ ॥
हारं च कर्णकूटं च उ (चो) त्तराप्तं [च] शिखान्तकम् ।
मध्यकोष्ठस्य शाले तु भद्रशाला विशेषतः ॥ २५६ ॥
पञ्चशालान्वितं वाप्य ऊ (चो) र्ध्वशालान्वितं तुवा ।
नीडाकारयुक्तं वापि चार्थशालान्वितं भवेत् ॥ २६० ॥
उत्तरान्तं कपोतान्तं प्रतिकान्तमथापि वा ।
एवं च मध्यकोष्ठे तु शालानामुन्नतं मतम् ॥ २६१ ॥
शालातटे(ललाटे च) भद्रकोष्ठं वासकोष्ठं वा [पि] कल्पयेत् ।
एवमेतद्दशांशेन [च] शेषं तु युक्तितो न्यसेत् ॥ २६२ ॥
एवं चतुस्स (स्त) ल प्रोक्तं नवांशारम्भं पूर्ववत् ।
तस्मादायते सर्वे (र्वस्मिन्) द्विगुब्वान्तांश (शं) पूर्ववत् ॥ २६३ ॥
v3.c24.s34.34
वेदभूतरसांशेन सप्तभागाष्टभागिकम् ।
एवं तु भित्तिमानं तु शेषं तन्नालिकं भवेत् ॥ २६४ ॥
भित्तिबाह्यं तु वृद्धिः स्यात्परितश्चैकभक्तितः ।
अष्टभागावसाने स्याद् बाह्यमानं तु पूर्ववत् ॥ २६५ ॥
कर्णेर्हर्म्यादिविन्यासं तच्चतुर्वर्गकान्तकम् ।
मध्यकोष्ठविशालं तु पूर्ववत्परिकल्पयेत् ॥ २६६ ॥
शेषं तु चान्तरालं स्यात्कूटानां विन्यसेद् बुधः ।
अन्यान्यनुक्तमानानां चतुर्भूम्युक्तवत्कुरु ॥ २६७ ॥
निर्गमं च प्रवेशं चाप्यङ्कद्वारं वक्ष्यतेऽधुना ।
विस्तारे वसुभागं स्याद् विभजेत् प्रद्यु(प्रति)रेव च ॥ २६८ ॥
तदर्धांशावृतं बाह्ये साळं शेषं विदक्षि(च वेदि)कम् ।
वेदितारं चतुर्भागं त्र्यंशं तद्ग्रीवविस्तरम् ॥ २६९ ॥
वेदितुल्यं शिरो(रस्)तारं शेषं प्रासादवद् भवेत् ।
द्वितळजाटे महानासि व[ङ्क]द्वयोर्मध्यनासिकम् ॥ २७० ॥
तच्छालानार्सिकं वापि कर्तव्याकृतिनासिका ।
अन्यान्तरप्रदेशे तु क्षुद्रनासीं(सि) प्रमूर्ध्वते ॥ २७१ ॥
नेत्रनासीविशाले तु रसतारसमं भवेत् ।
त्रिकभाग(गं) द्विभागं वा पञ्चभागं त्रिभागिकम् ॥ २७२ ॥
चतुर्भागं त्रिभागं वा मध्यनासीविशालकम्(ता) ।
तन्त्रिभागैकभागं तु पञ्चभागद्विभागिकम् ॥ २७३ ॥
चतुर्भागद्विभागं वा क्षुद्रनासीविशालकम् ।
पादाधिक(कं) समं वापि पादहीनं तथोच्छ्रयम् ॥ २७४ ॥
महानासिमौलितुङ्गं स्तूपिकाग्रावसानकम् ।
मध्यनासि तदष्टांङ्घ्रि चाग्रं तत् प(फ)लि(ल)कान्तकम् ॥ २७५ ॥
युत्तया वत्तत्क्षुद्रनासीनां कारयेच्छिलिप(ल्प)वित्तमः ।
शालाकारं शिलाकारं स्थू(स्तू)पिकानावृतं तथा (नां सुवृत्तकम्) ॥ २७६ ॥
गलकूटोपसंयुक्तं क्षुद्रनासिचतुष्टयम् ।
श्रीभोगाख्यमिदं प्रोक्तमष्टनासी जयन्त(ख्य)कम् ॥ २७७ ॥
v3.c24.s34.35
क्षुद्रनास्यर्कसंयुक्तं श्रीविशालं तथैव च ।
षोडशक्षुद्रनास्यङ्गं विष्णुक्रान्तमिहोच्यते ॥ २७८ ॥ 556
क्षुद्रनासा तथा विंशत् इ(दि)न्द्रकान्तं प्रकथ्यते ।
क्षुद्रनासी (सीं) विना कुर्याद् ब्रह्माकान्तमिति स्मृतम् ॥ २७६ ॥
गलकूटं विनाकुर्यात् स्कन्दकान्तं विशिष्यते ।
मध्यनास्युक्तं तत्र नासिका पञ्जरान्वितम् ॥ २८० ॥ 560
एवं तु शिखरं (श्रीकरं) प्रोक्तं कर्करीनासिकावृतम् ।
शालाकोष्ठ (ष्ठं) विशेषेण स्तूपिकान्तं प्रकल्पयेत् ॥ २८१ ॥
भद्रशालां तु तत्कुर्यात्सौम्यकान्तमुदीरितम् ।
एतानि दश(नव)भेदैः स्याच्छिरो(रः) सर्वेषु योजयेत् ॥ २८२ ॥ 564
गोपुराघनसर्वेषु यल्लक्ष्मादीर्विशेषतः ।
सर्वावि(र्वस्ये)न्द्रस्य चाशे तत्पादं त्यक्त्वा प्रकल्पयेत् ॥ २८३ ॥
अनुक्तमन्यतो ग्राह्यमग्राह्यमवसीदति ।
v3.c24.s34.36
(वातायनलक्षणम्)
v3.c24.s34.37
वक्ष्ये वातायनानां च लक्षणं विधिनाधुना ॥ २८४ ॥ 568
सर्वेषामपि हर्म्याणां मण्डपादीनि वस्तु(वास्तू)नि ।
तथा वातायनस्थानं तथा वै चोक्तवर्ण्य (न्न) येत् ॥ २८५ ॥
तैत(वि)ज्ञानां तु तं तं तु नराणां हे(हो)च्यते बुधैः ।
नराणां जालकं सर्वं देवानामपि योग्यकम् ॥ २८६ ॥ 572
तद्विस्तारोदयं सर्वं प्राचीनोक्तं विचारयेत् (स्त्वदाचरेत्) ।
पादपाक्तिकया युक्तं पत्रपुष्पैरङ्कृतम् ॥ २८७ ॥
देवानां जालकानां च मध्यरन्ध्रसमन्वितम् ।
द्विजानां भूपतीनां च मध्यस्तम्भं विसर्जयेत् ॥ २८८ ॥ 576
मध्यमं पट्टिकायुक्तं कुर्याच्छिल्यविचक्षणः ।
वैश्यानां शूद्रजातीनां मध्ये स्तम्भं प्रयोजयेत् ॥ २८६ ॥
न कुर्यात् पट्टिकमध्ये चैकं मध्यं शुभावहम् ।
उक्तलक्षणहीनं तु नहि कुर्याद्यथेच्छया ॥ २६० ॥ 580
v3.c24.s34.38
अर्थनाशं अवादीनं भविष्यति न संशयः ।
नागबन्धं तथा वल्ली गवाक्षं कुञ्जराक्षकम् ॥ २६१ ॥
स्वस्तिकं सर्वतोभद्रं नन्द्यावर्ताकृतिस्तथा ।
पुष्पबन्धं सचित्राह्वं रत्नसङ्गैरलङ्कृतम् ॥ २६२ ॥ 584
एषां(वं) वातायनरूपं नागवल्यादि दैवतम् ।
उक्तवद्विस्तृतायामे नन्दनन्दपदं भवेत् ॥ २६३ ॥
भुजङ्गद्वयमेकं स्यादेकादशपदे त्रिधा ।
नाग(चतुर)वेदाष्टभागं वा कुर्याद् वातायनं बुधः ॥ २६४ ॥ 588
सप्तसप्तपदं कृत्वा पत्रवल्यादिमण्डितम् ।
युग्मायुग्मपदैर्वांशा (थ) चान्य[द् ]वातायनेपि च ॥ २६५ ॥
एकद्वित्रिचतुः (तुष्)पञ्चमात्रैरङ्घ्रिरूपट्टिका ।
तद्विस्तारघनं सर्वं कुर्याद् वै शिल्पि (ल्प) वित्तमः ॥ २६६ ॥ 592
गोपुरे कूटकोष्ठादिग्रीवे पादान्तरे तथा ।
घने वाप्यघने वापि यथा वातायनैर्युतम् ॥ २६७ ॥
अन्यैस्तु (न्येषां) वास्तुसर्वेषां यथाचोक्तवदे (द्दे) शके ।
कुर्याद् वातायनं सर्वं श्रीसंपत्प्रदायिकम् ॥ २६८ ॥ 596
प्रथमात्तु सार्धकर (रं) षट्षड् (ण्) मात्रवृद्ध्या ।
तत्पञ्चवाङ्गमवधि त्रिविशालमेके (मिति भवेत्) ॥ २६६ ॥
शोभादिपञ्चदश [च] पञ्चविधप्रमाणम् [स्यात्] ।
द्वारेषु चैव विदितं द्विगुणोदयं स्यात् (कथ्यते) ॥ ३०० ॥ 600
v3.c24.s34.39
इति मानमारे वास्तुशास्त्रे गोपुरविधानं नाम त्रयस्त्रिंशोऽध्यायः ॥
Linked texts (1)
- Mānasāra — Sanskrit