Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.29

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s35.29

Language
English

v3.c24.s35.29

समाश्रं वायतयामं युग्मं वायुग्मभित्तिकम् ।
लुपां वा प्रस्तराङ्गं वा वपु(ल्पा)च्छादनमेव च ॥ २७६ ॥
लुपायुक्तं तु सर्वाङ्गं सभा चेति प्रकीर्तितम्(ता) ।
परितः प्रस्तरं मध्यं चोर्ध्वं कूटं तु मण्डपम् ॥ २८० ॥ 560
प्रस्तराङ्गं तु सर्वाङ्गं मण्डपं चेति कथ्यते ।
मण्डपं वा सभां वापि ग्रामयोग्यं यथादिशि ॥ २८१ ॥
नगरे च यथाकारं द्विगुणाभ्यर्धमायतम् ।
पादूने द्विगुणं वापि द्विगुणं पत्तने न्यसेत् ॥ २८२ ॥ 564
विस्तारद्विगुणायामं शुद्धखर्वटयोग्यकम् ।
अधिष्ठानाद्यलङ्कारं सर्वं प्रागुक्तवन्नयेत् ॥ २८३ ॥
यात्रामार्गेषु सर्वेषां कारयेन्मण्डपं सुधीः ।
प्रपाङ्गं मण्डपं वापि यथायुक्त्या प्रयोजयेत् ॥ २८४ ॥ 568
ब्रह्मक्षत्रियवैश्यशूद्रचतुर्वर्णो यदुक्तं तु तद्
देवानां भवति त्वनन्तरान्तरं शूद्रैर्विशा(शैः) क्षत्रियैः ।
तद्विप्रैर्भवति त्वनन्तरान्तरं क्षत्रैर्विशा(शैः) शूद्रकम्(कैः)
राजानो(नः)भवति त्वनन्तरान्तरं शूद्रैर्विशा(शा) वश्यकैः(क्षत्रियैः) ॥२८५॥ 572
शूद्रैर्युक्तं मण्डपं शूद्रकाणाम्
अन्येषां तज्जातियोग्यं तु कुर्यात् ।
चोक्त(चेत्त)द्विप्रजात्यादि चोक्तम्
कर्ता भर्ता सर्वथा नाशमीयात् ॥ २८६ ॥ 576