Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s36.26

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s36.26

Language
English

v3.c24.s36.26

सनन्दविशत्र्यंशं च हस्तान्तं रुद्रसंख्यया ।
एतत्तु विस्तृतं प्रोक्तं द्विगुणान्तं पूर्ववदिति ॥ १५२ ॥
व्यायाममिति तत्प्रोक्तमुत्सेधं पूर्ववद् भवेत् ।
विस्तारे दशभागे (गं) तु द्वादशांशं तथायतम् ॥ १५३ ॥
द्विचतुर्भागविस्तारमा(रा)यामं [च] मध्यमाङ्गनम् ।
तद्वाह्ये परितोऽलिन्दं द्व्यंशंशेन मे(वै)व वा ॥ १५४ ॥
तद्वाह्ये परितः शालाविस्तारं तद्वि (द्वि) भागिकम् ।
तत्समेनावृतालन्दं तद्वहिः परिकल्पयेत् ॥ १५५ ॥
ईशे चैकतलं कुर्यादाग्नेये द्वितलं भवेत् ।
वायव्ये त्रितलं कुर्यान्नैर्ऋत्ये पञ्चभूमिकम् ॥ १५६ ॥
याम्ये च पश्चिमे चैव दण्डकं च चतुःस्म (स्त) भम् ।
पूर्वे च चोत्तरे मध्ये दण्डकं चैकभूमिकम् ॥ १५७ ॥
चतुष्कोणे द्विभागेन गृहविस्तारदीर्घ (दर्घ्यं) कम् ।
पूर्वे च द्विद्विभागेन सुखमण्डपमीरितम् ॥ १५८ ॥
पश्चिमे तत्समं कुर्यान्मण्डपं तत्प्रकल्पयेत् ।
दक्षिणे चोत्तरे मध्ये द्विचतुर्भागेन मण्डपम् ॥ १५९ ॥
शेषं तु चावृतालिन्दं कुर्यात्तत्पञ्जरान्वितम् ।
द्विचतुर्भागविस्तारं पार्श्वयोर्भद्रसंयुतम् ॥ १६० ॥
पृष्ठे च द्वै(द्वयं) कभागेन भद्रं कुर्याद् विचक्षणः ।
पूर्वे च द्विचतुर्भागं सुखद्वारं तु सेयुतम् ॥ १६१ ॥
सर्वेषां भद्रपार्श्वे तु पूर्वे चैकेनालिन्दकम् ।
सोपपीठमधिष्ठानं पादादीन(दि) प्रस्तरrawान्वितम् ॥ १६२ ॥
कर्णहर्म्यादिवर्गाढ्यं चान्तरं प्रस्तरrawान्वितम् ।
कूटकोष्ठादिसर्वाङ्गं नासिकापञ्जरान्वितम् ॥ १६३ ॥
कुम्भकुम्भवतौ(लते)युक्तं तोरणादिविभूषितम् ।
सर्वेषां मकराज्ञाना(ननैः) सर्वालङ्कारसंयुतम् ॥ १६४ ॥
शिरोभवशिखायुक्तं नासिकावेदिकान्वितम् ।
एवं तु वर्धमाने स्यात् क्षत्रियाणां तु योग्यकम् ॥ १६५ ॥