Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s36: शालाविधानम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s36

Language
English

शालाविधानम्

v3.c24.s36.1

सुराणां भूसुराणां(पतीनां) च वर्णानां वासयोग्यकम्।

v3.c24.s36.2

सर्वासामपि शालानां लक्षणं वक्ष्यतेऽधुना ॥ १ ॥ दण्डकं स्वस्तिकं चैव मौलिकं च चतुर्मुखम् । सर्वतोभद्रकं चैव वर्धमानं च षड्विधम् ॥ २ ॥ त्रिहस्तं तु समारभ्य द्विद्विहस्तविवर्धनात् । त्रयोविंश[न्] करान्तं स्यादेकादशविशालकम् ॥ ३ ॥ युग्महस्तविधानेन चतुर्हस्तं समारभेत् । चतुर्विंश[त्] करान्तं स्याद् द्विद्विहस्तविवर्धनात् ॥ ४ ॥ एवमेकादशं प्रोक्तं चैकशालाविशालता । सप्तहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ॥ ५ ॥ नवपङ्क्तिकरान्तं स्यात्सप्तधा विस्तृतं भवेत् । अष्टहस्तं समारभ्य विंशद्धस्तावसानकम् ॥ ६ ॥ द्विद्विहस्तप्रवृद्धेन कारयेत् शि(च्छि)ल्पिकोत्तमः । विस्तृतं सप्तधा चैव स्वस्तिके मौलके तथा ॥ ७ ॥ विस्तार(रं) द्विद्विहस्तेन वर्धनादु द्विगुणान्तकम् । देवानां च तपस्वी(स्वि)नां शालादीर्घं(दैर्घ्यं) प्रकीर्तितम् ॥ ८ ॥ द्विगुणां वा(णान्ता)यताः शाला भूसुरादिचतुष्टये । शालाविशालवा[मा]रभ्य पादार्धं त्रिपादकम् ॥ ६ ॥ तत्समं वाधिकायामे तस्मात्पादाधिकं तु वा । त्रिपादं वा समाधिक्यं शालायामं प्रकल्पयेत् ॥ १० ॥ तद्विस्तारसमोत्तुङ्गं सपादार्धं तु तुङ्गकम् । त्रिपादाधिकमुत्सेधं विस्तारं(र)द्विगुणोदयम् ॥ ११ ॥

v3.c24.s36.3

प्रथमं शान्तिकोत्सेधं द्वितीयं पौष्टिकोदयम् ।
तृतीयं जयदोत्तुङ्गं चतुर्थं धनदोदयम् ॥ १२ ॥
पञ्चमं चाद्भुतोत्सेधं जन्मादिस्तूपिकान्तकम् ।
अन्यैस्तु सर्वशालानां भित्ति(भक्ति)मानेन विस्तु(चोन्न)तम् ॥ १३ ॥
आदिभूमे(न्या)श्च पादादिषट्सप्ताष्टनवांशकम् ।
दशांशेन विहीनं स्यादूर्ध्वं चोर्ध्वतलोदयम् ॥ १४ ॥
अध्यर्धं प्रस्तरोत्सेधं चार्धेनैवोर्ध्ववेदिका ।
तद्द्वयं ग्रीवतुङ्गं स्याद् ग्रीवतुङ्गद्वयं शिरः ॥ १५ ॥
मस्तकार्धं शिखोत्तुङ्गमृत्सेधमिति कथ्यते ।
देवानां भूसुराणां च भूपानां वैश्यशूद्रयोः ॥ १६ ॥
तपस्विनामा श्रमियां च हस्त्यश्वरथवीथिनाम् ।
बौद्धानां यागहोमादिशिल्पिनां गणिकादि(दी)नाम् ॥ १७ ॥
एकशाला(लं) द्विशाला(लं) च त्रिशालांश्र(लं च) चतुर्मुखम् ।
पूर्वोक्ततत(ति)ज्ञानां च द्विजात्यादिषु योग्यकम् ॥ १८ ॥
एकानेकतलान्तं स्याच्चूलिहर्म्यादिमण्डितम् ।
प्रासादवदलङ्कृत्य देवभूसुरभूपतेः ॥ १६ ॥
चूलिहर्म्यं विना कुर्याद् वैश्यशूद्रादिजन्मनाम् ।
शालायाः परितोऽलिन्द्रं(न्दं) पृष्ठतो भद्रसंयुतम् ॥ २० ॥
पुरतो मण्डपोपेतं सर्वालङ्कारसंयुतम् ।
एवं तु मानुषाणां च तत(ति)ज्ञानां च कारयेत् ॥ २१ ॥
शालामध्ये च देवानां वासं कुर्याद् विचक्षणः ।
शालायाः पार्श्वतो वासं द्विजात्यादिषु सर्वशः ॥ २२ ॥
शालायामे तु वासं च वंशमूले तु योजयेत् ।
गृहिणीनां तु शालायां सभ्यवासं प्रकल्पयेत् ॥ २३ ॥
उक्तानां सर्वजातीनां दण्डकं तु चतुर्दिशि ।
पूर्वे वा दक्षिणे वापि पश्चिमे दण्डकं न्यसेत् ॥ २४ ॥
एवं चामात्ययोग्यं स्यान्महोदग्द्वारं महीभृताम् ।
दक्षिणे पश्चिमे शालायुक्तं स्वस्तिकमेव च ॥ २५ ॥

v3.c24.s36.4

तदेवान्यासु सर्वेषु(र्वासु) दिक्षु शालां विना न्यसेत् ।
पूर्वं वा दक्षिणे वापि पूर्वं वा चोत्तरेऽपिवा ॥ २६ ॥
पश्चिमे चोत्तरे वापि स्वस्तिकं च विनाशकम् ।
पूर्वं च दक्षिणे स्याच्च(चैव) याम्ये प्रत्यक् तथोत्तरे ॥ २७ ॥
शालासंयोगमेवं स्यान्मौलिकं तदुदीरितम् ।
पूर्वैश्च(वै) चोत्तरं प्रत्यगुदक् पूर्वे च दक्षिणे ॥ २८ ॥
अज्ञानेन त्रिशालेषु योगे चेत्सर्वदोषदम् ।
सर्वेषां गणिकादीनां शाला स्वस्तिकमेव च ॥ २६ ॥
अन्यचालां तु सर्वेषां कल्पयेन्मौलिकाख्यकम् ।
सर्वेषा(र्वासा)मपि शालानां दण्डकादित्रयान्तकम् ॥ ३० ॥
शालानां प्रमुखे कुर्याद् द्वारं कुड्यादि चोक्तवत् ।
चतुर्दिक्षु चतुःशाला संयुक्तं तच्चतुर्मुखम् ॥ ३१ ॥
तदेव पुरतो देशे मौल्यन्तरालसंयुतम् ।
तदेव बहुभद्रं स्यात्सर्वतोभद्रमीरितम् ॥ ३२ ॥
दण्डकादि चतुःशाला संयोग्यं वर्धमानकम् ।
दण्डकं च पृथक्शाला चैकशालापर्याय्यकम् ॥ ३३ ॥
लाङ्गलं स्वस्तिकं चैव द्विशाला च(लाया) पर्याय्यकम् ।
मौलिकं दीप(शूर्प)कं चैव त्रिशाला च परिकीर्तिता ॥ ३४ ॥
चतुर्मुखं चतुःशाला चैवमुक्तानि पण्डितैः ।
सप्तशाला विशेषेण सर्वतोभद्रमीरितम् ॥ ३५ ॥
दशशाला च सर्वेषां वर्धमानमुदीरितम् ।
एकशालानसन्धिश्च द्विशाला चैकसन्धिकम्(का) ॥ ३६ ॥
त्रिशाला च द्विसन्धिः स्यात् चतुः(त्रयः)सन्धि चतुर्मुख(तुःशाल)म् ।
षट्सन्धिः सप्तशाला च बहुसन्धिदशशालय(क)म् ॥ ३७ ॥
चतुःशाल(लं) वर्धमानान्तं कुर्यात्तु सर्वभूमिकम् ।
अधिराज नरेन्द्रारणां सर्वतोभद्रकान्तकम् ॥ ३८ ॥
पार्थिवाकादिव्च(दीनां) भूपानां दण्डकादिचतुष्टयम् ।
दण्डकादि त्रिशालाम्तं कुर्यात्पट्टधरे तथा ॥ ३६ ॥

v3.c24.s36.5

मण्डलेशादिभूपानां दण्डकादिस्स्वस्तिकान्तकम् ।
केचिच्चिविधमौलीनां सर्वशाला च योग्यकम्(का) ॥ ४० ॥
दण्डकादिक्रमात् शा(च्छा)लाविन्यासं वक्ष्यतेऽधुना ।
पूर्वे च पश्चिमे शाला प्रत्यक् प्रागाश्रयं तु वा ॥ ४१ ॥
उत्तरे याम्यशालायां सौम्यशाला(म्यालयं) च दक्षिणे ।
अतश्चाथ चतुर्दिक्षु तत्तच्छालां प्रकारयेत् ॥ ४२ ॥
पूर्वशाला च ए(तु चै)कं च तद्द्वारं पश्चिमे भवेत् ।
दण्डकं दक्षिणे शाला तद्द्वारं चोत्तरे(रस्यां) दिशि ॥ ४३ ॥
एकशाला यथाप्रत्यक् तद्द्वारं प्राग्दिशस्(दिशि) तथा ।
उदक् दण्डकशालानां कुर्याद् द्वारं तु दक्षिणे ॥ ४४ ॥
विस्तारमेकभागं वा चेष्टभागा(गमा)यते(तं) तथा ।
यथेष्टदेशे तत्कुर्यात् शा(च्छा)लालिन्द्र(न्द)मुदीरितम् ॥ ४५ ॥
इष्टदीर्घितपादं स्यात्कुड्य(ह्र्द्यं) पादसमन्वितम् ।
पुरतः पादयुक्तं वा पृष्ठे कुड्यं प्रकारयेत् ॥ ४६ ॥
प्राकारान्तर्बहिर्वापि वेदिकाद्यै(द्भि)रलङ्कृतम् ।
एतत्तु दण्डकं प्रोक्तं प्राकारादिवमाय(समायु)तम् ॥ ४७ ॥
विस्तारे चैकभागेन द्विभक्तञ्चायाममीरितम् ।
ललाटे द्वितय(ल)ञ्चोर्ध्वं दण्डखण्डितवद् भवेत् ॥ ४८ ॥
पण्डिशालाख्यकं प्रोक्तमेतत्सर्वजनाह्वकम् ।
तत्पुरं(रोऽ)लिन्द्र(न्द)संयुक्तं भिन्दशाला प्रकीर्तितम्(ता) ॥ ४९ ॥
विस्तारे द्व्यंशकं कृत्वायामे चैवं त्रिभागिकम् ।
मूले शाला विशालं(ला) स्यात्पुरतो वारमंशकम् ॥ ५० ॥
मुखशालावि(द्वि)नेत्रे (त्रा) च वासमेकैकभागिकम् ।
परितो वारमेकांशं द्विललाटं तु पूर्ववत् ॥ ५१ ॥
मध्ये द्वारं तु संयुक्तं मुखे चैकत्तलान्वितम् ।
एवं तु देवतायोग्यं दण्डकान्तमुदीरितम् ॥ ५२ ॥
द्विचतुर्भागविस्तारमा(रा)यामं तत्प्रकल्पयेत् ।
शालाविशालतारोण वत्यूर्वेऽलिन्द्र(न्द)मंशकम् ॥ ५३ ॥

v3.c24.s36.6

एकद्वि(अं)शेन वासं स्याद्यथामूलं तु योजयेत् ।
अथवा द्विद्विभागेन वासं तद्वंशमूलकं ॥ ५४ ॥
वंशाग्रे रङ्गसंयुक्तं तत्पुरे(राऽ)लिन्दं भागतः ।
अथवा मध्ये प्रतिष्ठाने ल(लू)क्तवासद्वयं न्यसेत् ॥ ५५ ॥
अन्तर्वासं बहिर्वासं द्वार(रं) मध्यं(ध्ये) तु वामके ।
अथवा चायसार्थेन मध्ये कुड्यं च कल्पयेत् ॥ ५६ ॥
द्वारं तत्कुड्यपार्श्वे तु वासमेतं(कं) द्वयं भवेत् ।
एतत्तु दण्डकं प्रोक्तं शे प्रागुक्तवन्नयेत् ॥ ५७ ॥
सर्वेषा(र्वासा)मपि जातीनां सर्वकामार्थयोग्यकम् ।
द्विचतुर्भागविस्तारमा(रा)यामं [च] तत्प्रकल्पयेत् ॥ ५८ ॥
मुखशाला विशाला च चतुर्भागं तथायतम् ।
पुरतोऽलिन्द्र(न्द)मेकांशं भित्ति कुर्यात्समन्ततः ॥ ५९ ॥
मूलाग्रे द्विद्विभागेन वासरङ्गं च कल्पयेत् ।
अथवा चैकद्विभागेन वास(सं) वंशाग्रमूलयोः ॥ ६० ॥
कुर्यात्तु मध्यमे रङ्गं पृष्ठे पार्श्वे च भित्तिकम् ।
पूर्वे च स्तम्भसंयुक्तं मध्ये स्तम्भान्विवर्जयेत् ॥ ६१ ॥
परितो द्वारमेकांशं दण्डकं परिकीर्तितम् ।
शेषं प्रागुक्तवत्कुर्यात्सर्वजात्यार्हकं भवेत् ॥ ६२ ॥
चतुःपञ्चभागविस्तारं आ(रा)यामं [च] तत्प्रकल्पयेत् ।
मध्ये च द्विचतुर्भागं शाला[या]विस्तारमायतम् ॥ ६३ ॥
एकद्विद्विविभागं वा(द्वि)वासं वा चैकवासयुक् ।
वंशमूलाग्रयोर्वासे वंशमूलैकवासकम् ॥ ६४ ॥
तद्बहिः पुरतोऽलिन्दमेकभागेन कारयेत् ।
तद्वहिः परितः कुड्यं युक्तं वाङ्घ्रियुतं तु वा ॥ ६५ ॥
तद्बहिर्भित्तियुक्तं चेत्परितोऽशेनालिन्दकम् ।
एकद्वि(अं)शेन भद्रं स्यान्निर्गमं विस्तृतं भवेत् ॥ ६६ ॥
चतुर्दिक्(क्षु) भद्रसंयुक्तं द्वितलाटं तु पूर्ववत् ।
द्वितलं कर्णहर्म्यादि प्रासादवदलङ्कृतम् ॥ ६७ ॥

v3.c24.s36.7

अथवा शाल(ला)कूटादीन् विनालिन्देन भूषितम् ।
मध्यसूत्रं तु(तस्य) वामे तु द्वारं कुर्याद्विचक्षणः ॥ ६८ ॥ 136
केचिच्छल्ला वि(द्वि)भागं स्यात्पुरतोऽलिन्दं भागतः ।
यथेष्टदिग्वासयुक्तं शेषं प्रागुक्तवन्नयेत् ॥ ६९ ॥
एतत्तु दण्डकं प्रोक्तं देवभूसुरभूपतेः ।
तदेव परितोऽलिन्दं विना सर्वं जनार्हकम् ॥ ७० ॥ 140
तस्माद् द्वि(द्वयं)शाधिकायामं विस्तारं पूर्ववद् भवेत् ।
वंशमूलाग्रयोर्वासं चतुर्भागेन कारयेत् ॥ ७१ ॥
तद्द्वयोर्मध्यरङ्गं स्याच्चतुर्भागेन योजयेत् ।
पुरतः पृष्ठतोऽलिन्दं सत्तत्रैकद्विभागिकम् ॥ ७२ ॥ 144
शेषं तु पूर्ववत्कुर्याद् दण्डकं सर्वजाति(ती)नाम् ।
पञ्चसप्तांशविस्तारमा(रा)यामं [च] तत्प्रकल्पयेत् ॥ ७३ ॥
मध्ये पञ्चांशकं वापि पार्श्वयोर्द्विद्विभागतः ।
कुर्यान्मण्डपं शेषं च पुरतः पृष्ठ[तोऽ]लिन्दकम् ॥ ७४ ॥ 148
तत्तद्वाह्यावृतांशेन द्वारं भद्रं द्विभागिकम् ।
कूटकोष्ठादिसर्वाङ्गं प्रासादवदलङ्कृतम् ॥ ७५ ॥
एवं तु दण्डकं प्रोक्तं देवानां वासयोग्यकम् ।
षड्भक्तिविस्तृतायाममष्टभागेन योजयेत् ॥ ७६ ॥ 152
त्रिचतुर्द्यंशकं वापि मध्ये रङ्गं प्रकल्पयेत् ।
पृष्ठतोऽलिन्दकं कुर्यादेकद्व्यंशेन मे(चै)व वा ॥ ७७ ॥
पुरतोऽलिन्द्र(न्दं) भागं स्याद्वासयुग्म(ग्मं) युगांशकम् ।
वंशमूलाग्रयोर्वासं मध्ये रङ्गं न्यसेद् बुधः ॥ ७८ ॥ 156
अथवा तच्चतुष्कर्णे वासं तं तं द्विभागतः ।
अथवा द्विललाटे च निवासत्रयमेव च ॥ ७९ ॥
परितो द्वा(वा)रमेकांशं कुर्याद् द्व्यंशेन मे(चै)व च ।
मध्यसूत्रात् तु(तस्य) वामे तु द्वारं कुर्याद् विचक्षणः ॥ ८० ॥ 160
एकानेकतलोपेतं प्रासादवदलङ्कृतम् ।
एतत्तु दण्डकं प्रोक्तं सर्वजात्यर्हकं भवेत् ॥ ८१ ॥

v3.c24.s36.8

दण्डकानां च सर्वेषां प्रसुखे मण्डपं न्यसेत् ।
विस्तारं तत्समं वापि द्विगुणं त्रिगुणं तु वा ॥ ८२ ॥

v3.c24.s36.9

यथेष्टांशेन परितो मण्डपं मध्यमाङ्गकम् ।
मुखे वासविशालं स्यात्तत्समं पृष्ठभद्रकम् ॥ ८३ ॥

v3.c24.s36.10

तदर्धं निर्गमं वापि भद्र(द्रं) वासवशान्यसेत् ।
मण्डपस्य वशाद् भद्रं तन्मुखे कर्करीकृतम् ॥ ८४ ॥

v3.c24.s36.11

शालाया दण्डकायामे नवभाग(गे) विभाजिते ।
गृहस्य दक्षिणे पञ्चभागं वामे गुहांशिकम् ॥ ८५ ॥

v3.c24.s36.12

तद्द्वयोर्मध्यदेशे तु द्वारं कुर्याद् विचक्षणः ।
सर्वेषामपि शालाश्च(च) कर्तु(र्तुं) राश्या(शिम)नुवर्ज(र्त)येत् ॥ ८६ ॥

v3.c24.s36.13

प्राश्सं दण्डकाः(का)शाला गृहिणी चा(ण्या)नुकूलकम् ।
मेषस्य मीनकुम्भस्य पूर्वस्स(र्वे च) दक्षिणे शुभम् ॥ ८७ ॥

v3.c24.s36.14

कुलीराच्चमिथुनस्य दक्षिणे पश्चिमालयम् ।
तौलि(तुला)सिंहस्य(योः) कन्यायाः पश्चिमे चोत्तरे शुभम् ॥ ८८ ॥

v3.c24.s36.15

ग्राहवृश्चिकचापस्य प्रागुदग्दिशि श(चा)लयम् ।
न कुर्यादेकशालाञ्च शुभमन्वैः पुरोक्तवत् ॥ ८९ ॥

v3.c24.s36.16

एवं राशिवशाच्छाला दण्डके तदुदीरितम् ।
एकशालाश्चतुर्दिक्षु गृहारम्भमिहोच्यते ॥ ६० ॥

v3.c24.s36.17

कुम्भे च मकरे पूर्वे मेषे च वृषभे यमे ।
सिंहकर्कटके प्रत्यक् वृश्चिके तौलि(तुले) चोत्तरे ॥ ६१ ॥

v3.c24.s36.18

गृहारम्भमिति प्रोक्तं सुमुहूर्ते सुलग्नके ।
अन्यथा सर्वशालाश्च यथामासे समारभेत् ॥ ६२ ॥

v3.c24.s36.19

अन्यान्युक्तचतुर्मासे सर्वहर्म्यांश्च कारयेत् ।
चतुर्दिक्षु वास्तुपुरुषं चतुर्भागेन योजयेत् ॥ ६३ ॥

v3.c24.s36.20

यन्माने सर्वहर्म्यं च कारयेत्तु शुभावहम् ।
विदिक्षु वास्तुपुरुषं चेत्सर्वहर्म्यं न कारयेत् ॥ ६४ ॥

v3.c24.s36.21

वास्तुभूतश्यनाद्धर्म्ये विपरीते विपत्करम् ।
तस्मात्तु वास्तुशयनं ज्ञापयेद् वक्ष्यतेऽधुना ॥ ६५ ॥

v3.c24.s36.22

यथादिक्षु स्थितादित्यो(त्यस्) तद्दिक्षु चरणायतम् ।
तत्पृष्ठवीशिरः क्षिप्यं बाधो वामकं तथा ॥ ९६ ॥
तद्दक्षिणभुजं चोर्ध्वं पुरुषं शयनं स्मृतम् ।
गृहायामे तथारामे (च विस्तारे) गृहवाराह (तारं वि) शालकम् ॥ ९७ ॥
गृहायामेषु भागे तु पादाद् वेदांश(शं) चोर्ध्वके [च] ।
एकांशं कुचिदेशं स्याद् वेदान्तं मध्यदेशके ॥ ९८ ॥
मेढ्रादि तलसीमान्तं वेदांशं पाददीर्घ(दैर्घ्य)कम् ।
मेढ्रादूर्ध्वं च वेदान्तमेकांशं तत् शि(च्छि)रायतम् ॥ ९९ ॥
मूर्ध्राद(ध्रौऽ)धः (धश्च) शिवांशे तु हृदयस्थानमीरितम् ।
हृदयात्कुक्षियो(क्ष्यो)र्मध्यं [च] मध्यकायं प्रकथ्यते ॥ १०० ॥
विस्तारमध्यसूत्रं तु मुखद्वारवशाद् विदुः ।
ज्ञापयेद् वास्तुपुरुषं विन्यसेत् सर्वहर्म्यके ॥ १०१ ॥
एतत्तु दण्डकं प्रोक्तं स्वस्तिकं वक्ष्यतेऽधुना ।
विस्तारे वसुभागे तु दशभागायतं भवेत् ॥ १०२ ॥
पूर्वोक्ताल्लङ्कृतं ज्ञात्वा भागमानेन विन्यसेत् ।
पञ्चसप्तांश(शं) विस्तारमा (या) यामं [च] पुरतोऽङ्गणम् ॥ १०३ ॥
तत्पार्श्वेऽलिन्द्र (न्द) मंंशेन स्वस्तिकाकारसंयुक्तम् ।
तद्द्विपार्श्वे दिशालाश्च द्विभागेन विशालता ॥ १०४ ॥
तद्द्वयोर्मध्यके वासं द्विद्विभागेन नैर्ऋते ।
वंशानां चामयोर्देशे द्विद्विभागेन कोष्ठकम् ॥ १०५ ॥
तद्बहिश्छावृतांशेन कुर्याद् भूवृतालिन्दकम् ।
एकद्वि(द्वयं)शेन भद्रं स्यात्कोणेषु कर्करीकृतम् ॥ १०६ ॥
द्विशालामे तु वप्रं स्यादेकद्वि(द्वयं)शेन निर्गमम् ।
अङ्गणो प्रतिपार्श्वे तु कुड्यद्वारं तु संयुतम् ॥ १०७ ॥
शालायामे विशाले वा द्वारं कुर्यात्पु(ष पू)र्ववत् ।
एकानेकतलोपेतं नैर्ऋत्ये तु विचक्षणः ॥ १०८॥
एवं तु स्वस्तिकं प्रोक्तं पूर्वोक्तानां तु योग्यकम् ।
दशभागं विशाले तु चायामे द्वादशांशकम् ॥ १०९ ॥

v3.c24.s36.23

द्विशालाविस्तृतं चैव त्रिभागेनैव कारयेत् ।
पूर्ववत्पुरतोऽलिन्दं त्रिभागेनैव विशालता ॥ ११० ॥ 220
वासनात्(सं च) त्रित्रिभागं स्यात् शे(च्छे)षं प्रागुक्तवन्नयेत् ।
एवं तु स्वस्तिकं प्रोक्तं मौलिकं वक्ष्यतेऽधुना ॥ १११ ॥
दशभागविशाले तु द्विभागायाममधिकम् ।
त्रिशालामध्यदेशे तु वेदांशं विस्तृताङ्गणम् ॥ ११२ ॥ 224
आयामं चाष्टभागं स्याद्देशोनाष्टतालिन्दकम् ।
तत्पृष्ठपार्श्वयोश्चैव द्वि(ह्यं)शं शालाविशालकम् ॥ ११३ ॥
द्विद्विभागेन वासं स्यात्कर्णयोश्च द्वयं त्रिकम् ।
तद्वहिः परितोऽलिन्दमेकद्वि(ह्यं)शेन मे(चै)व वा ॥ ११४ ॥ 228
पट्टवक्त्रं च समं तारं चैकद्व्यंशेन निर्गमम् ।
एकानेक तलोपेतमङ्गणे नैरृत्यवायवे ॥ ११५ ॥
एवं तु मौलिकं कुर्यात्पूर्वोक्तानां तु योग्यकम् ।
द्वादशांशा(शं) विशाले तु तस्माद् द्व्यंशाधिकायतम् ॥ ११६ ॥ 232
पुरतः पृष्ठभागे तु कुर्याद्देशेनालिन्दकम् ।
शालाकारं त्रिभागं वा पुरतो द्वारदण्डकम् ॥ ११७ ॥
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ।
सैकार्कभागविस्तारमभ्यर्धा(धिकां)शेनायतं तथा ॥ ११८ ॥ 236
पञ्चभागदशांशेन विस्तारायामतोऽङ्गणम् ।
तद्वहिः परितोऽशेन वारं शालाद्वयांशकम् ॥ ११९ ॥
तत्पृष्ठपार्श्वयोरलिन्दं चैकभागेन कारयेत् ।
शालाकारं त्रिभागं वा त्रित्रिभागेन मण्डपम् ॥ १२० ॥ 240
शालानां मध्यमे वासं तत्रिभागेन कारयेत् ।
सन्ध्ययो(न्यो)श्चाश्रयोश्चैव [तु] मण्डपं स्याच्चतुर्विधम् ॥ १२१ ॥
वासं च(सस्य) त्रयसंयुक्तं बहिर्द्वार(रा)वृतांशकम् ।
मध्ये द्वारं प्रकर्तव्यं पञ्चद्वि(ह्यं)शेन भद्रकम् ॥ १२२ ॥ 244
पृष्ठे च पार्श्वयोर्मध्ये युक्त्वा भद्रं तु योजयेत् ।
कर्णैकभद्रं स्यात् शा(च्छा)लाग्रे नेत्रभद्रकम् ॥ १२३ ॥

v3.c24.s36.24

कर्णहर्म्यादिसंयुक्तं प्रासादवदलङ्कृतम् ।
एकानेकतलोपेतं वासं वासोपरि न्यसेत् ॥ १२४ ॥
एतत्तु मौलिकं प्रोक्तं देवतानां च योग्यकम् ।
तदेव कोशे चाग्रे तु वासमध्ये तु मण्डपम् ॥ १२५ ॥
एवं तु चक्रवर्त्ती(र्ति)नां कुर्यादालयं विदुः ।
एवं तु मौलिकं प्रोक्तं वक्ष्यते चतुरालयम् ॥ १२६ ॥
विस्तारे दशभागे(गे) तु चायामे द्वादशांशकम् ।
द्विचतुर्भाग(गं) तन्मध्ये विस्तारायामतोऽङ्गनम् ॥ १२७ ॥
तद्बहिश्चावृतांशेन नन्द्यावर्त्तं चालिन्दकम् ।
तद्बहिश्च चतुःशाला तत्पूर्वादिक्रमान्न्यसेत् ॥ १२८ ॥
प्रागुदक्दक्षिणायामं दक्षिणे च ललाटकम् ।
याम्ये प्राक्प्रत्यगायामं पश्चिमे तु ललाटकम् ॥ १२६ ॥
पश्चिमे याम्यु(म्यो)दग्दीर्घं तद्वक्त्रं च तथोत्तरे ।
उदक् प्राक् पश्चिमे दीर्घं तस्य नेत्रं तु पूर्वके ॥ १३० ॥
तत्तच्छालाविशाले तु तदंशेन गुणांशकम् ।
पूर्वे च पश्चिमे शाला तत्तद्दीर्घ(दैर्घ्यं) षडंशकम् ॥ १३१ ॥
दक्षिणे चोत्तरे शाला चाष्टांशं च तथा(स्या)यतम् ।
एवमेतच्चतुःशाला दण्डकाकृतिसंयुतम् ॥ १३२ ॥
तद्बहिः परितो द्वारं चैकांशेन मे(चै)व च ।
एकद्वित्रिद्वियोगं वा नेत्रविस्तारनिर्गमम् ॥ १३३ ॥
तत्तच्छाला द्विनेत्रं(त्रा) स्याद्विद्विनेत्रैकनिर्गमम् ।
चतुर्नेत्रं बहिः पश्येत्तस्मादेवं चतुर्मुखम् ॥ १३४ ॥
अधिष्ठानादिवर्गाढ्यं प्रासादवदलङ्कृतम् ।
एकानेकतलोपेतं सर्वालङ्कारसंयुतम् ॥ १३५ ॥
एवं चतुर्मुखं प्रोक्तं नन्द्यावर्ताकृतिर्भवेत् ।
द्वादशांश(शे) विशाले तु मनुभागं तथायतम् ॥ १३६ ॥
चतुःपञ्चभागविस्तारमा(रा)यामं [च] मध्यमाङ्गणम् ।
तद्वहिश्चावृतांशेन पूर्ववत्तदलिन्दकम् ॥ १३७ ॥

v3.c24.s36.25

दीर्घशाला दशांशं(शा) स्याद्ध्रस्वशाला यमांशकम्(का) ।
विस्तारं पूर्ववत्कुर्यादथवा त्र्यंशाळिन्दकम् ॥ १३८ ॥
शेषं प्रागुक्तवत्कुर्याद् देवानां तु चतुर्मुखम् ।
तद्विस्तारायते भागं तस्माद् द्वंशाधिकं बुधः ॥ १३९ ॥
द्वंशेनालिन्दविस्तारं सर्वं कुर्यात्पूर्ववत् ।
यथेष्टावास(सं) संकल्य चेष्टदिक् चान्तराळके ॥ १४० ॥
अन्तःशाला यथाद्वारं दण्डकस्योक्तवत्कुरु ।
एतच्चतुर्मुखं प्रोक्तं पूर्वोक्तानां तु संमतम् ॥ १४१ ॥
सर्वतोभद्रविन्यासं (स) लक्षणं वक्ष्यतेऽधुना ।
समाश्रं सर्वतोभद्रं चाष्टभागं विभाजिते ॥ १४२ ॥
मध्याङ्गणं चतुर्भागं चंशेनावृतलिन्दकम् ।
परितो द्वंशेन शाला च चतुर्वाससमन्वितम् ॥ १४३ ॥
द्विचतुर्भागविस्तारमा(रा)यामं [च] वा समीरिमत् ।
चतुष्कोणे चतुर्भक्ति मण्डपं तु चतुष्टयम् ॥ १४४ ॥
तसबाह्यावृतांशेन कुर्याद् भ्रमालिन्दकम् ।
चतुर्दिक्षु चतुर्द्वारं युक्तं भद्रं चतुष्टयम् ॥ १४५ ॥
वेदद्व्यंशेन विस्तारं निर्गमं चापि भद्रकम् ।
ऊर्ध्वभूमिं समारुह्य कर्णे सोपानमंशके(कम्) ॥ १४६ ॥
प्रच्छादनाङ्गनं कुर्यान्न [तु] प्रच्छादनमेव वा ।
एकानेकवलोपेतं पूर्ववत्समलङ्कृतम् ॥ १४७ ॥
कर्णहर्म्यादिसंयुक्तं प्रासादवदलङ्कृतम् ।
एतत्तु सर्वतोभद्रं पूर्वोक्तानां तु संमतम् ॥ १४८ ॥
पूर्ववद्विस्तृतायामे दशभाग(गं) विभाजिते ।
वेदवेदांशकं मध्यं विवृतं संवृता(तम)ङ्गथम् ॥ १४९ ॥
तद्बहिश्श्रावृतांशेन कर्करीसमलङ्कृतम् ।
शेषं तु पूर्ववत्कुर्यात्सर्वतोभद्रमीरितम् ॥ १५० ॥
शाला च वर्धमानं च लक्षणं वक्ष्यतेऽधुना ।
नवपङ्क्तिकरा(रमा)रभ्य द्विद्विहस्तविवर्धनात् ॥ १५१ ॥

v3.c24.s36.26

सनन्दविशत्र्यंशं च हस्तान्तं रुद्रसंख्यया ।
एतत्तु विस्तृतं प्रोक्तं द्विगुणान्तं पूर्ववदिति ॥ १५२ ॥
व्यायाममिति तत्प्रोक्तमुत्सेधं पूर्ववद् भवेत् ।
विस्तारे दशभागे (गं) तु द्वादशांशं तथायतम् ॥ १५३ ॥
द्विचतुर्भागविस्तारमा(रा)यामं [च] मध्यमाङ्गनम् ।
तद्वाह्ये परितोऽलिन्दं द्व्यंशंशेन मे(वै)व वा ॥ १५४ ॥
तद्वाह्ये परितः शालाविस्तारं तद्वि (द्वि) भागिकम् ।
तत्समेनावृतालन्दं तद्वहिः परिकल्पयेत् ॥ १५५ ॥
ईशे चैकतलं कुर्यादाग्नेये द्वितलं भवेत् ।
वायव्ये त्रितलं कुर्यान्नैर्ऋत्ये पञ्चभूमिकम् ॥ १५६ ॥
याम्ये च पश्चिमे चैव दण्डकं च चतुःस्म (स्त) भम् ।
पूर्वे च चोत्तरे मध्ये दण्डकं चैकभूमिकम् ॥ १५७ ॥
चतुष्कोणे द्विभागेन गृहविस्तारदीर्घ (दर्घ्यं) कम् ।
पूर्वे च द्विद्विभागेन सुखमण्डपमीरितम् ॥ १५८ ॥
पश्चिमे तत्समं कुर्यान्मण्डपं तत्प्रकल्पयेत् ।
दक्षिणे चोत्तरे मध्ये द्विचतुर्भागेन मण्डपम् ॥ १५९ ॥
शेषं तु चावृतालिन्दं कुर्यात्तत्पञ्जरान्वितम् ।
द्विचतुर्भागविस्तारं पार्श्वयोर्भद्रसंयुतम् ॥ १६० ॥
पृष्ठे च द्वै(द्वयं) कभागेन भद्रं कुर्याद् विचक्षणः ।
पूर्वे च द्विचतुर्भागं सुखद्वारं तु सेयुतम् ॥ १६१ ॥
सर्वेषां भद्रपार्श्वे तु पूर्वे चैकेनालिन्दकम् ।
सोपपीठमधिष्ठानं पादादीन(दि) प्रस्तरrawान्वितम् ॥ १६२ ॥
कर्णहर्म्यादिवर्गाढ्यं चान्तरं प्रस्तरrawान्वितम् ।
कूटकोष्ठादिसर्वाङ्गं नासिकापञ्जरान्वितम् ॥ १६३ ॥
कुम्भकुम्भवतौ(लते)युक्तं तोरणादिविभूषितम् ।
सर्वेषां मकराज्ञाना(ननैः) सर्वालङ्कारसंयुतम् ॥ १६४ ॥
शिरोभवशिखायुक्तं नासिकावेदिकान्वितम् ।
एवं तु वर्धमाने स्यात् क्षत्रियाणां तु योग्यकम् ॥ १६५ ॥

v3.c24.s36.27

विशाले द्वादशांशं स्यात्तस्माद् द्वांशधिकायतम् ।
चतुःषड्भाग(गं) विस्तारमा(रा)यामं [च] दक्षिणोत्तरे ॥ १६६ ॥
एकशालाकृतिं कुर्यात्पञ्चभूमिं त्रिभूमिकम् ।
अनलानिलकोणे तु कुर्यात्तत्तु त्रिभूमिकम् ॥ १६७ ॥
पश्चिमे द्विचतुर्भागंशालापञ्चतलान्वितम् ।
पूर्वे च द्विचतुर्भागं मण्डपं चैकभूमिकम् ॥ १६८ ॥
ईशाने चैकभूमि(मिः) स्यात्प्रासादवदलङ्कृतम् ।
नैर्ऋत्ये सप्तभूमि(मिः) स्यात्कूटकोष्ठादि पूर्ववत् ॥ १६६ ॥
तन्मध्ये भद्रसंयुक्तं भागैकायामनिर्गमम् ।
एकेन कर्णकूटं स्याच्चतुष्कोणे तु मण्डितम् ॥ १७० ॥
कूटे च भद्रयोर्मध्ये द्वारांशं मध्यमेन तु ।
अधिष्ठानादिवर्गार्थ्यं कर्णहर्म्यादिमण्डितम् ॥ १७१ ॥
प्रासादवदलङ्कृत्य शेषं प्रागुक्तवन्नयेत् ।
एकशाला द्विपार्श्वे च भद्रंर्शीर्वेदभागिकम् ॥ १७२ ॥
पृष्ठे च द्विचतुर्भागं भद्रं कुर्याद्विचक्षणाः ।
अथवा चाष्टभागेन भद्रं युक्त्या प्रयोजयेत् ॥ १७३ ॥
षड्भागंश्रामेवं वा शालाकारं तु पृष्ठतः ।
चतुःषड्भागविस्तारमा(रा)यामं [च] मुखवा(डा)रयम् ॥ १७४ ॥
पुरतः पार्श्वयोश्चैव चैकभागेनालिन्दकम् ।
द्विचतुर्भाग(गं) तन्मध्ये मण्डपाकार(रं) कल्पयेत् ॥ १७५ ॥
मुखे सोपानसंयुक्तं सर्वालङ्कारसंयुतम् ।
युक्त्या भद्रं तु सर्वाङ्गं चोर्ध्वं चोर्ध्वतलान्वितम् ॥ १७६ ॥
पादोर्ध्वं पादसंयुक्तं भित्त्यूर्ध्वं भित्तिसंयुतम् ।
पादोर्ध्वं भित्तियुक्तं चेत्सर्वदोषं समुद्भवत् ॥ १७७ ॥
कूट्यस्योपरि पादैश्च कृत्वा सर्वं शुभावहम् ।
सर्वावयवसंयुक्तं सर्वालङ्कारसंयुतम् ॥ १७८ ॥
एवं सप्ततलं वर्धमानं शेषं तु पूर्ववत् ।
विस्तारे मनुभागे(गे) तु षोडशांशं तदायतम् ॥ १७६ ॥

v3.c24.s36.28

पूर्ववद्वाह्या शाला तदंशाधिकं भद्रकम् ।
नैर्ऋत्ये नवभूमिः स्यादुत्तप्ता चान्यानि योजयेत् ॥ १८० ॥
सर्वालङ्कारसंयुक्तं प्रासादवदलङ्कृतम् ।
मध्यसूत्रात् तु (त्रस्य) वामे तु मध्ये वा द्वारसंयुतम् ॥ १८१ ॥
पूर्वद्वारं यथा वर्धमानं शाला(लां) प्रकल्पयेत् ।
एवं नवतलं वर्धमानं कुर्यात्तु भूपतेः ॥ १८२ ॥
षोडशांशे(शं) विशाले तु विभजेद् द्वंशाधिकायतम् ।
तद्भागेन द्विभागं स्याच्छाला शेषं तु पूर्ववत् ॥ १८३ ॥
नैर्ऋत्ये रुद्रभूमिः स्यात्त्रितलं पैशकोशके ।
पावके वायवे चैव कुर्यात्तु पञ्चभूमिकम् ॥ १८४ ॥
दक्षिणे सप्तभूमिः स्यादुत्तरे पञ्चभूमिकम् ।
पश्चिमे सप्तभूमिः स्यात्पूर्वे च द्वितलं भवेत् ॥ १८५ ॥
एवमेकादशतलं वर्धमानमिति स्मृतम् ।
शेषं तु पूर्वत्कुर्यात्सर्वालङ्कारसंयुतम् ॥ १८६ ॥
तदेव विस्तृतायामे (मं) चैकभागाधिकं तथा ।
पञ्चसप्तांशं विस्तारमा(रा)यामं [च] मध्यमाङ्गयाम् ॥ १८७ ॥
शेषं तु पूर्ववत्कुर्यान्नैर्ऋत्ये रविभूमिकम् ।
ईशे पञ्चतलं कुर्यात्पावके सप्तभूमिकम् ॥ १८८ ॥
वायव्ये चाष्टभूमिः स्यात्सप्तभूमिम्(र्)थापि वा ।
दक्षिणे पश्चिमे मध्ये कुर्यान्नवतलं तथा ॥ १८९ ॥
वर्धमानं तु सर्वेषां प्राक्प्रत्यक्गतायतम् ।
पार्श्वे दण्डकमा(का)कारं [च] कुर्याद् भूमि(मि) तले तले ॥ १९० ॥
आद्यभूमि यथाकारं वास(सं) वासोपरि न्यसेत् ।
द्वार(रं) द्वारोपरि न्यस्तं तस्माद् द्वारं समं तथा ॥ १९१ ॥
द्वारस्योपरि कूड्यं चेत्सर्वसंपद्विनाशनम् ।
स्तम्भकुड्यं च रङ्गं स्यात्स्तम्भयुक्तं चालिन्दकम् ॥ १९२ ॥
वासगर्भं गृहं चैव मध्यस्तम्भान्विवर्जयेत् ।
कुड्यसंयुक्तमेवान्तं मार्गं प्रागुक्तवन्नयेत् ॥ १९३ ॥

v3.c24.s36.29

तले तले च वासं चेत्प्रस्तरस्योपरि न्यसेत् ।
गृह(कूट)कोष्ठादिमानानां ज(त)त्स्यान्निन्दमानकम् ॥ १६४ ॥
महाद्वारे (रे) महाभद्रं मण्डपाकृति (तिं) विन्यसेत् ।
कुर्यात्तदुक्तवद्युक्त्या चोपहारं तु योजयेत् ॥ १६५ ॥
त्रिविधं च यथेष्टदिग्देशे चेष्टदिग्गतभित्तिकम् ।
तले तले तु सोपानमारूढा (रोह्या) र्थं प्रयोजयेत् ॥ १६६ ॥
अन्यान्यनुक्तं (क्तानि) सर्वेषां शास्त्रयुक्त्या समाचरेत् ।
एवं रवितलं वर्धमानमुक्तं पुरातनैः ॥ १६७ ॥
एवं प्रोक्तं तु शालानामायादि र्व(व)क्ष्यतेऽधुना ।
दीर्घे(दैर्घ्य) चायं व्ययं ऋक्षं योनिः स्यात्सु विशालके ॥ १६८ ॥
परिणाह(हे) तिथिवारं गृहशेषं तु पूर्ववत् ।
कुर्याद्धर्म्यविधानोक्तं चयषट्काङ्ग(ङ्गं) सर्वशः ॥ १६९ ॥
सर्वे (र्वा) शाला नासिकातोरणाद्यैः
पत्रैश्चित्रैः किंन्नरीवक्त्रयुक्तम् ।
कुर्यान्नानालङ्कृतं नैकभूमौ
श्रीसौभाग्यारोग्यभोग्यप्रदायि ॥ २०० ॥

v3.c24.s36.30

इति मानमारे वास्तुशास्त्रे शालाविधाने नाम पञ्चत्रिंशोऽध्यायः ॥

Linked texts (1)