Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s36.28

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s36.28

Language
English

v3.c24.s36.28

पूर्ववद्वाह्या शाला तदंशाधिकं भद्रकम् ।
नैर्ऋत्ये नवभूमिः स्यादुत्तप्ता चान्यानि योजयेत् ॥ १८० ॥
सर्वालङ्कारसंयुक्तं प्रासादवदलङ्कृतम् ।
मध्यसूत्रात् तु (त्रस्य) वामे तु मध्ये वा द्वारसंयुतम् ॥ १८१ ॥
पूर्वद्वारं यथा वर्धमानं शाला(लां) प्रकल्पयेत् ।
एवं नवतलं वर्धमानं कुर्यात्तु भूपतेः ॥ १८२ ॥
षोडशांशे(शं) विशाले तु विभजेद् द्वंशाधिकायतम् ।
तद्भागेन द्विभागं स्याच्छाला शेषं तु पूर्ववत् ॥ १८३ ॥
नैर्ऋत्ये रुद्रभूमिः स्यात्त्रितलं पैशकोशके ।
पावके वायवे चैव कुर्यात्तु पञ्चभूमिकम् ॥ १८४ ॥
दक्षिणे सप्तभूमिः स्यादुत्तरे पञ्चभूमिकम् ।
पश्चिमे सप्तभूमिः स्यात्पूर्वे च द्वितलं भवेत् ॥ १८५ ॥
एवमेकादशतलं वर्धमानमिति स्मृतम् ।
शेषं तु पूर्वत्कुर्यात्सर्वालङ्कारसंयुतम् ॥ १८६ ॥
तदेव विस्तृतायामे (मं) चैकभागाधिकं तथा ।
पञ्चसप्तांशं विस्तारमा(रा)यामं [च] मध्यमाङ्गयाम् ॥ १८७ ॥
शेषं तु पूर्ववत्कुर्यान्नैर्ऋत्ये रविभूमिकम् ।
ईशे पञ्चतलं कुर्यात्पावके सप्तभूमिकम् ॥ १८८ ॥
वायव्ये चाष्टभूमिः स्यात्सप्तभूमिम्(र्)थापि वा ।
दक्षिणे पश्चिमे मध्ये कुर्यान्नवतलं तथा ॥ १८९ ॥
वर्धमानं तु सर्वेषां प्राक्प्रत्यक्गतायतम् ।
पार्श्वे दण्डकमा(का)कारं [च] कुर्याद् भूमि(मि) तले तले ॥ १९० ॥
आद्यभूमि यथाकारं वास(सं) वासोपरि न्यसेत् ।
द्वार(रं) द्वारोपरि न्यस्तं तस्माद् द्वारं समं तथा ॥ १९१ ॥
द्वारस्योपरि कूड्यं चेत्सर्वसंपद्विनाशनम् ।
स्तम्भकुड्यं च रङ्गं स्यात्स्तम्भयुक्तं चालिन्दकम् ॥ १९२ ॥
वासगर्भं गृहं चैव मध्यस्तम्भान्विवर्जयेत् ।
कुड्यसंयुक्तमेवान्तं मार्गं प्रागुक्तवन्नयेत् ॥ १९३ ॥

Linked texts (1)