Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s36.6
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s36.6
- Language
- English
v3.c24.s36.6
एकद्वि(अं)शेन वासं स्याद्यथामूलं तु योजयेत् ।
अथवा द्विद्विभागेन वासं तद्वंशमूलकं ॥ ५४ ॥
वंशाग्रे रङ्गसंयुक्तं तत्पुरे(राऽ)लिन्दं भागतः ।
अथवा मध्ये प्रतिष्ठाने ल(लू)क्तवासद्वयं न्यसेत् ॥ ५५ ॥
अन्तर्वासं बहिर्वासं द्वार(रं) मध्यं(ध्ये) तु वामके ।
अथवा चायसार्थेन मध्ये कुड्यं च कल्पयेत् ॥ ५६ ॥
द्वारं तत्कुड्यपार्श्वे तु वासमेतं(कं) द्वयं भवेत् ।
एतत्तु दण्डकं प्रोक्तं शे प्रागुक्तवन्नयेत् ॥ ५७ ॥
सर्वेषा(र्वासा)मपि जातीनां सर्वकामार्थयोग्यकम् ।
द्विचतुर्भागविस्तारमा(रा)यामं [च] तत्प्रकल्पयेत् ॥ ५८ ॥
मुखशाला विशाला च चतुर्भागं तथायतम् ।
पुरतोऽलिन्द्र(न्द)मेकांशं भित्ति कुर्यात्समन्ततः ॥ ५९ ॥
मूलाग्रे द्विद्विभागेन वासरङ्गं च कल्पयेत् ।
अथवा चैकद्विभागेन वास(सं) वंशाग्रमूलयोः ॥ ६० ॥
कुर्यात्तु मध्यमे रङ्गं पृष्ठे पार्श्वे च भित्तिकम् ।
पूर्वे च स्तम्भसंयुक्तं मध्ये स्तम्भान्विवर्जयेत् ॥ ६१ ॥
परितो द्वारमेकांशं दण्डकं परिकीर्तितम् ।
शेषं प्रागुक्तवत्कुर्यात्सर्वजात्यार्हकं भवेत् ॥ ६२ ॥
चतुःपञ्चभागविस्तारं आ(रा)यामं [च] तत्प्रकल्पयेत् ।
मध्ये च द्विचतुर्भागं शाला[या]विस्तारमायतम् ॥ ६३ ॥
एकद्विद्विविभागं वा(द्वि)वासं वा चैकवासयुक् ।
वंशमूलाग्रयोर्वासे वंशमूलैकवासकम् ॥ ६४ ॥
तद्बहिः पुरतोऽलिन्दमेकभागेन कारयेत् ।
तद्वहिः परितः कुड्यं युक्तं वाङ्घ्रियुतं तु वा ॥ ६५ ॥
तद्बहिर्भित्तियुक्तं चेत्परितोऽशेनालिन्दकम् ।
एकद्वि(अं)शेन भद्रं स्यान्निर्गमं विस्तृतं भवेत् ॥ ६६ ॥
चतुर्दिक्(क्षु) भद्रसंयुक्तं द्वितलाटं तु पूर्ववत् ।
द्वितलं कर्णहर्म्यादि प्रासादवदलङ्कृतम् ॥ ६७ ॥