Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s42.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s42.1
- Language
- English
v3.c24.s42.1
भूपतीनां च सर्वेषां सर्वाङ्गं वक्ष्यतेऽधुना ।
अधीत्याम्नायचतुरं तत्पडङ्गं पदक्रमात् ॥ १ ॥
शस्त्रास्त्रमन्त्रसर्वादीन्सर्वशास्त्राब्धिपारगः ।
षड्दर्शनं समं चैव दीक्षया च प्रवर्त्तकः ॥ २ ॥
धीरोद्धतो धीरललितो धीरोदात्तस्तथैव च ।
रम्या(भ्रष्टा)नुपाल्य(श्चं) राज्यात्(न्यं तु) स्वयं ज्ञात्वा सयन्त्रितः ॥ ३ ॥
शूरः प्राज्ञश्च कोशार्यं (ष्ठ्यो) धर्मज्ञो नीतिपारगः ।
समस्तभूसूतां चैते गुणाः प्रोक्ता विशेषतः ॥ ४ ॥
एतानि गुणरत्नानि राज्ञो यस्य च (ज्ञां सर्वेषां) सन्ति वै ।
शतपञ्चतुरङ्गानि(णि) पञ्चकुञ्जरमेव च ॥ ५ ॥
लक्षार्धतन्त्राधिपतिः शतपञ्चवराङ्गनाः ।
एका स्यात्पट्टमहिषी अ(सोऽ)क्षमाहो(हः) प्रकीर्तिता(तः) ॥ ६ ॥
षट्शतं(त)मरीशकोट्यानि निषद(द्द)न्तावल्लमेव च ।
लक्षतन्त्राधिपतिश्च सप्ता(प्त)शतवराङ्गनाः ॥ ७ ॥
स्यातां महिष्यौ (ष्यो) द्वितीय (द्वे चैव) प्राहारक इति स्मृतम् ।
शवाष्टहयरत्नानि सप्तद्विरदमेव च ॥ ८ ॥
सार्धलक्षतन्त्रं स्यात्त्रि(त्तु) सहस्रं (स्र) वराङ्गनाः ।
महिषीत्रयमेवं च पट्टभाक् इति(चेत्येवं) स्मृतम् ॥ ९॥
सहस्रार्थं दशभु(ग)जं पञ्चाशतसहस्रकम् ।
वराङ्गनाभिरासेन्यो महिष्यश्च चतुष्टयम् ॥ १० ॥
लक्षद्वयं च तन्त्रं स्यान्मण्डलेशस्य भूपतेः ।
पञ्चा(ष्ष)शतसहस्राश्वाः द्वादशं कुञ्जरं तथा ॥ ११ ॥
लक्षद्वयं च तन्त्रं स्याद् द्विसहस्रवराङ्गनाः ।
महिष्यः पञ्च पट्टाभाः पट्टभृक् (ग्) भूपतिर्विदुः ॥ १२ ॥