Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s42.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s42.2
- Language
- English
v3.c24.s42.2
द्विशताश्व(सहस्र)हयाः प्रोक्ताः पञ्चा(श्व)दशगजास्तथा ।
चातु(चतु)र्लक्षं च तन्त्रं स्यात्त्रिसहस्रवराङ्गनाः ॥ १३ ॥
षण्महिष्यस्तथा प्रोक्ताः पार्थिवाख्यस्य भूपतेः ।
पार्थिवः स्यात्पट्टधरो मण्डलेशश्च पट्टभाक् ॥ १४ ॥
एभ्यो(षाम्) नवद्वि(द्वी)पादाब्ज(प्रास्) तत्तत्तन्त्राधिपास्तथा ।
अयुताद्विषट्नश्चाशत(सहस्र)कुञ्जरमेव च ॥ १५ ॥
तन्त्रं च शतलक्षं स्यान्महिष्यश्च दशास्त(त)था ।
लक्षार्धं वा(व)रवनिता चै(औ)षमुक्तं नरेन्द्रके ॥ १६ ॥
नरेन्द्रे च द्विपादाब्ज(द्वीपादाप्ता)श्चैककोटितुरङ्गवान् ।
अयुतं द्विरदं प्रोक्तं दशकोटिश्च(च) तन्त्रकम् ॥ १७ ॥
दशलक्षं मरण्यं(ण्याश्) च महिष्य(प्या)श्च सहस्रकम् ।
अधिराजस्यनृपतेश्चोक्ततन्त्रं पुरातनैः(न्त्राधिपास्तथा) ॥ १८ ॥
अधः(धो) वा पट्टमहिषे(प्याम्) चेन्द्रस्य सदृशः प्रभुः ।
समभूमिपपालेभ्यो नमस्कृत्य पदाम्बुजम् ॥ १९ ॥
दन्तावलतुरङ्गाश्च तन्द्रा(न्त्रा)दि च वराङ्गनाः ।
अर्बुदं न्यर्बुदं चैव महार्राङ्गं(ङ्गं) च पद्मकम् ॥ २० ॥
गणिकान्तं परार्धास्थ्यं च सर्वे तन्त्राः(न्त्राधिपा) प्रकीर्तिताः ।
सप्तद्वि(प्राष्ठि)मेखलाभूमि(मेश) चैकच्छत्रेण पालकम् ॥ २१ ॥
तस्मात्तु सार्वभूमाय(भौमाय) चक्रवर्तिरि(र्ती)ति स्मृतम् ॥ २२ ॥
आम्नायांश्चतुरोऽधीत्य विधिवत्तद्ददर्शनानां समम्
स(सा)मशास्त्रादिसर्वशास्त्रकुशलः स्थिरो धर्मवान् ।
धीरोदात्तगुणो महावितरणैश्चार्थधनाढ्यः प्रभुः
नीतिज्ञो अनरक्तको जनपदान्धार्थानुपाञ्यार्थवान् ॥ २३ ॥
सर्वज्ञो नर(द्विज)पालको शक्र(गुरु)पदाम्भोजद्विरेफः सुरैः(सुखी)
शान्तो कीर्तिपरायणश्च रसिको गन्धर्वशास्त्राधिपः ।
एते सर्वगुणाः समस्तनृपतेः साम्यादि चोक्तं बुधैः
एषां चोक्तगुणानि(णाः) नृपतेः सत्तूद्रभूभृताम् ॥ २४ ॥