Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s46.5
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s46.5
- Language
- English
v3.c24.s46.5
तत्समे[न] निम्नवृत्तं च कम्पं कुर्यात्तदूर्ध्वके ।
द्व्यंशेन गलं चोर्ध्वं चांशेन कम्पवृत्तकम् ॥ ५२ ॥
निम्नं च कम्पमर्धेन चैकांशेन कपोतकम् ।
तदूर्ध्वं चैकभागे तु चतुर्भाग(गं) विभाजिते ॥ ५३ ॥
आलिङ्गान्तरितं चोर्ध्वं प्रतिवाद(ज)नमुच्यते ।
युक्त्या च वृत्तकम्पं स्यात्सर्वालङ्कारसंयुतम् ॥ ५४ ॥
व्यालादिपत्रपुष्पैश्च कर्णांश्र मकरद्वयम् ।
कपोते नासिकोपेतं किन्नरीवक्त्रसंयुतम् ॥ ५५ ॥
चतुष्कर्णे च युक्त्या च कुर्याद् ब(त प)ल्लवपत्रकम् ।
मध्ये तत्पत्रमलङ्कृत्य सर्वालङ्कारसंयुतम् ॥ ५६ ॥
गल्ले च नाटकैर्युक्तं यक्षविद्याधरादिभिः ।
वृत्तकुम्भं च पट्टं वा क(ना)टकादि(दिभि)रलङ्कृतैः(तम्) ॥ ५७ ॥
पद्माकारं तु सर्वेषां केसरादिदलान्वितम् ।
यथेष्टमंशं गलतुङ्गं स्यान्नानापट्टैरलङ्कृतम् ॥ ५८ ॥
एतत्पद्मासनं प्रोक्तं शिवविष्णुवासने भवेत् ।
तदेव सोपपीठं स्यात्पद्मकेसरमीरितम् ॥ ५९ ॥
उपपीठे क्षुद्रकम्पानां वृत्तकम्प्याश्रकम्पयुक् ।
निम्नानि मौक्तिकोपेतं(तानि) सर्वाङ्गं रत्नभूषितम् ॥ ६० ॥
उपपीठगले सर्वे नाटकाभिरलङ्कृतम् ।
कोकिलैः क्षुद्रशालैश्च पञ्जरैस्तोरणान्वितम् ॥ ६१ ॥
नासिकाकुम्भपादैश्च नासिकापञ्जरान्वितम् ।
सर्वालङ्कारसंयुक्तं पद्मचित्रादिशोभितम् ॥ ६२ ॥
देवानां चक्रवर्ती(र्तिनां) सर्वेषामासनान्वितम् ।
एकविंशांशकं(क)तुङ्गे जन्मतुङ्गे(ङ्गेमे)कमाधिकम् ॥ ६३ ॥
पादांशं क्षेपशं चैव सत्रिपादांशमम्बुजम् ।
तदूर्ध्वं चैकभागे तु तत्रिभागं विभाजिते ॥ ६४ ॥
एकांशं निम्नकं प्रोक्तं चै(ह्ये) कांशं वृत्तकम्पकम् ।
तदूर्ध्वं अं(चां)शेन कम्पं स्यात्पञ्चांशं वप्रतुङ्गकम् ॥ ६५ ॥
Linked texts (1)
- Mānasāra — Sanskrit