Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s46: सिंहासनलक्षणम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s46
- Language
- English
सिंहासनलक्षणम्
v3.c24.s46.1
देवानां चक्रवर्त्यादिनृपाणा(नामा)सनयोग्यकम् ।
सिंहासनस्य मानं च लक्षणं वक्ष्यतेऽधुना ॥ १ ॥
प्रथमाभिषेकयोग्यं स्यात्प्रथमवासनमेव च ।
मङ्गलाख्याभिषेकस्य मङ्गलासनमीरितम् ॥ २ ॥
वीराख्या[त्व]भिषेकस्य [च] वीरासनमुदीरितम् ।
विजयाख्यस्याभिषेकस्य विजयासनमीरितम् ॥ ३॥
एवं चतुर्विधं प्रोक्तं भूपानामासनं भवेत् ।
नित्यार्चनासनं चैव नित्योत्सवासनमीरितम् ॥ ४ ॥
विशेषाख्यार्चनार्थाय विशेषाख्या(महोत्सवा)र्चनासनम् ।
चतुर्विधात्मनं प्रोक्तं देवानामपि योग्यकम् ॥ ५ ॥
आदौ पद्मासनं प्रोक्तं द्वितीयं पद्मकेसरम् ।
तृतीयं पद्मभद्रं स्याच्छ्रीभद्रं स्याच्चतुर्थकम् ॥ ६ ॥
पञ्चमं श्रीविशालं स्यात्षष्ठं श्रीवद्ध(न्ध)मेव च ।
सप्तमं श्रीमुखं चैव भद्रासनं तु चाष्टकम् ॥ ७ ॥
नवमं पद्मं च भद्रं स्याद् दशमं पादबन्धकम् ।
आसनानि(नां) तु चैतानि(नां) नामानि कथितानि वै ॥ ८ ॥
अत्रोक्तमा(क्तानामा)सनानां च सर्वेषां मानमुच्यते ।
सप्ताङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ ६॥
सप्तविंशाङ्गुलान्तं च विस्तारं नवधा भवेत् ।
परार्धं यज[मा]नार्थं चासनायामं पूर्ववत् ॥ १० ॥
पञ्चादशाङ्गुला(समा)रभ्य द्व्यङ्गुलविवर्धनात् ।
एकत्रिशाङ्गुलान्तं स्यात्कन्यसादि त्रयं त्रयम् ॥ ११ ॥
v3.c24.s46.2
विस्तारं च तथा प्रोक्तं नित्योत्सवस्य चासने ।
व्यायामं पूर्ववत्कुर्याद् द्विगुणान्तं यथाक्रमम् ॥ १२ ॥
नवपङ्क्त्यङ्गुला (लमा) रभ्य द्व्यङ्गुलविवर्धनात् ।
पञ्चत्रिंशाङ्गुलान्तं स्याद्विस्तारं परिकीर्तितम् ॥ १३ ॥
महोत्सवे चासनं ह्येवं कन्यसादि त्रयं त्रयम् ।
विस्तारं (र) द्विगुणायामं पादोनद्विगुणं तु वा ॥ १४ ॥
विस्ताराधायतं वापि पादाभ्यन्तरमानकम् ।
पादबाह्यावसानं स्यात्पादमध्यावसानकम् ॥ १५ ॥
विस्तारे चायते कुर्यान्मानमेवं तु सर्वतः ।
एवं तु देवतानां च महीपानां च वक्ष्यते ॥ १६ ॥
पञ्चा (ञ्च) दशाङ्गुला (लमा) रभ्यं द्व्यङ्गुलविवर्धनात् ।
सैकत्रिंशाङ्गुलान्तं स्यात्प्रथमासनमेव च ॥ १७ ॥
विस्तारं नवधा प्रोक्तं कन्यसादि त्रयं त्रयम् ।
तस्मादर्धाधिकं वापि त्रिपादाधिकमेव वा ॥ १८ ॥
तत्समेना (मं वा) धिकं वापि त्रिविधं चायतं तथा ।
सप्तदशाङ्गुला (लमा) दौ स्याद् द्व्यङ्गुलविवर्धनात् ॥ १६ ॥
पञ्चत्रिंशतिमात्रान्तं नवतारं तु पूर्ववत् ।
वीरासनमिति प्रोक्तं दीर्घं (दैर्घ्यं) प्रागुक्तवन्नयेत् ॥ २० ॥
एकविंशाङ्कुलमारभ्य द्व्यङ्गुलविवर्धनात् ।
सप्तत्रिंशाङ्गुलान्तं स्याद्विजयासनं विस्तृतम् ॥ २१ ॥
नवभेदमिति प्रोक्तं दीर्घ (दैर्घ्यं) पूर्ववदाचरेत् ।
विस्तारमायतं प्रोक्तं तत्तत्तुङ्गमथोच्यते ॥ २२ ॥
एकाङ्गुलं समारभ्य चैकाङ्गुलविवर्धनात् ।
नवाङ्गुलान्तमुत्सेधं कन्यसादि त्रयं त्रयम् ॥ २३ ॥
आत्सनञ्चासनोत्तुङ्गं तद्विस्तारवशात्क्रमात् ।
व्यङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ॥ २४ ॥
नन्दपङ्क्त्यङ्गुलान्तं स्यान्नित्यार्चनासनेादयम् ।
एवं नवविधं प्रोक्तं विस्तारस्य वसा (शान्) न्यसेत् ॥ २५ ॥
v3.c24.s46.3
पञ्चाङ्गुलं समारभ्य द्वयङ्गुलविवर्धनात् ।
एकविंशाङ्गुलाम्तं स्यान्नित्योत्सवासनोदयम् ॥ २६ ॥
एवं नवविधं प्रोक्तं कन्यसादीनि पूर्ववत् ।
सप्ताङ्गुलं समारभ्य द्वयङ्गुलविवर्धनात् ॥ २७ ॥
त्रयोविंशाङ्गुलाम्तं स्याद्विशेषार्च्यार्चनोदयम् ।
क्षुद्रादि त्रित्रिमानं स्यात्कुर्यात्तु पूर्ववत् क्रमात् ॥ २८ ॥
नवाङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ।
पञ्चत्रिं(विं)शाङ्गुलाम्तं स्यात्कन्यसादिनवोदयम् ॥ २९ ॥
महोत्सवासनं त्वेवं यथाक्रमेण पूर्ववत् ।
त्रिचतुष्पञ्चषण्मात्रं सप्ताष्टकनवाङ्गुलम् ॥ ३० ॥
दशैकादशमात्रान्तं नवभेदमुदीरितम् ।
कन्यसाद्युत्तममान्तं स्याच्छिखरोदयमेव च ॥ ३१ ॥
नवाङ्गुलं समारभ्य चैकैकाङ्गुलवर्धनात् ।
सप्ताप्तदशाङ्गुलाम्तं स्यात्प्रथममासनतुङ्गकम् ॥ ३२ ॥
एकादशाङ्गुला(लमा)रभ्य नवपङ्क्त्यङ्गुलाम्तकम् ।
मङ्गलासनमु(नो)त्तुङ्गं नवभेदमुदीरितम् ॥ ३३ ॥
त्रयोदशाङ्गुला(लमा)रभ्य चैकविंशाङ्गुलाम्तकम् ।
वीरासनमिति प्रोक्तं नवधा तुङ्गमेव च ॥ ३४ ॥
पञ्चा(चा)दशाङ्गुला(लमा)रभ्य त्रयोविंशाङ्गुलाम्तकम् ।
नवभेदमिति प्रोक्तं विजयासनतुङ्गकम् ॥ ३५ ॥
विस्तारे चतुरङ्गे वा षट्शुभायादि कारयेत् ।
त्रिचतुष्पञ्चषड्गुण्या चाष्टहानिश्च योजयः ॥ ३६ ॥
षट्सप्ताष्टकवृद्धया तु द्वादश[भिः] क्षपयेद् ध्रुवः ।
शेषमायमिति प्रोक्तं सप्ताष्टनववर्धनात् ॥ ३७ ॥
दशभिः क्षपयेच्छ्रेष्ठमेवं व्ययमुदीरितम् ।
अष्टनन्ददशो(श)वृद्ध्या सप्तविंशो(श)क्षयो भवेत् ॥ ३८ ॥
शेषं दिनमिति प्रोक्तं वृद्ध्याष्टनन्दनायिका ।
सप्तके चन्द्रगे(हृतके) शेषं वारमेवमुदीरितम् ॥ ३९ ॥
v3.c24.s46.4
त्रिचतुष्पञ्चरुद्रां। तु क्षपयेत्तु नवांशकम् ।
गजयेानिं विनाकुर्यात्सिंहासनान्(नि) यथाशुभम् ॥ ४० ॥ 80
आयाधिक्यं व्ययहीनं सर्वसंपच्छुभावहम् ।
आयहीनं व्ययाधिक्यं सर्वसम्पद्विनाशनम् ॥ ४१ ॥
धूमयोनिश्च काकाश्च गर्दभान श्वानं वर्जयेत् ।
अन्ययोनिः शुभं(भा) सर्वे(वी) शुभयोनिमिह योजयेत् ॥ ४२ ॥ 84
सर्वषां मानमित्युक्तं गण्यमानमिहोच्यते ।
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥ ४३ ॥
केवलं चोपपीठं वा कुर्यात् सिंहासने बुधः ॥ ४४ ॥
द्व्यंशं जन्म शशिसार्धं पद्म(पाद)कम् 88
कम्पकर्ण शरमर्ध कम्पकम् ।
अंशमब्जं शशि वाजनो(नमु)परि
क्षेपक्षमर्ध रविभागतुङ्गके ॥ ४५ ॥
वेदिभद्र(द्रं) विविधा(ध)रूपोतधृक् 92
वोर्ध्वंयोगभुव(गेलं वि)ना कपोतको ।
देवभूपति यत्नोयंब्रा तथासने
योग्यमेत कृतय(म)स्तु मूलके ॥ ४६ ॥
आसनस्योदयार्धं वा त्रिभागैकोनमेव वा । 96
उपपीठोदयं ह्येव चोक्ततुङ्गेऽधिकं तु वा ॥ ४७ ॥
शेषं मसूरकं वापि समाधिष्ठानतुङ्गकम् ।
उत्सेधरविभागे तु जन्मतुङ्गं शिवांशकम् ॥ ४८ ॥
तदूर्ध्वं चार्धकंपं स्यात्पाद(दं) भागेन योजयेत् । 100
त्रिपादाधिकमंशेन महाद्मं प्रयोजयेत् ॥ ४९ ॥
तदूर्ध्वं सार्धभागेन कर्णवृत्तं च पद्मकम ।
कन्धरं चार्धभागेन तत्समं चोपरिस्त(त)वा ॥ ५० ॥
कम्पवृत्तदलं कुर्यात्तदूर्ध्वेऽर्धेन पद्माकम् । 104
एकांशं कुम्भवृत्तं स्यात्तदूर्ध्वेऽर्धेन पद्मकमू ॥ ५१ ॥
v3.c24.s46.5
तत्समे[न] निम्नवृत्तं च कम्पं कुर्यात्तदूर्ध्वके ।
द्व्यंशेन गलं चोर्ध्वं चांशेन कम्पवृत्तकम् ॥ ५२ ॥
निम्नं च कम्पमर्धेन चैकांशेन कपोतकम् ।
तदूर्ध्वं चैकभागे तु चतुर्भाग(गं) विभाजिते ॥ ५३ ॥
आलिङ्गान्तरितं चोर्ध्वं प्रतिवाद(ज)नमुच्यते ।
युक्त्या च वृत्तकम्पं स्यात्सर्वालङ्कारसंयुतम् ॥ ५४ ॥
व्यालादिपत्रपुष्पैश्च कर्णांश्र मकरद्वयम् ।
कपोते नासिकोपेतं किन्नरीवक्त्रसंयुतम् ॥ ५५ ॥
चतुष्कर्णे च युक्त्या च कुर्याद् ब(त प)ल्लवपत्रकम् ।
मध्ये तत्पत्रमलङ्कृत्य सर्वालङ्कारसंयुतम् ॥ ५६ ॥
गल्ले च नाटकैर्युक्तं यक्षविद्याधरादिभिः ।
वृत्तकुम्भं च पट्टं वा क(ना)टकादि(दिभि)रलङ्कृतैः(तम्) ॥ ५७ ॥
पद्माकारं तु सर्वेषां केसरादिदलान्वितम् ।
यथेष्टमंशं गलतुङ्गं स्यान्नानापट्टैरलङ्कृतम् ॥ ५८ ॥
एतत्पद्मासनं प्रोक्तं शिवविष्णुवासने भवेत् ।
तदेव सोपपीठं स्यात्पद्मकेसरमीरितम् ॥ ५९ ॥
उपपीठे क्षुद्रकम्पानां वृत्तकम्प्याश्रकम्पयुक् ।
निम्नानि मौक्तिकोपेतं(तानि) सर्वाङ्गं रत्नभूषितम् ॥ ६० ॥
उपपीठगले सर्वे नाटकाभिरलङ्कृतम् ।
कोकिलैः क्षुद्रशालैश्च पञ्जरैस्तोरणान्वितम् ॥ ६१ ॥
नासिकाकुम्भपादैश्च नासिकापञ्जरान्वितम् ।
सर्वालङ्कारसंयुक्तं पद्मचित्रादिशोभितम् ॥ ६२ ॥
देवानां चक्रवर्ती(र्तिनां) सर्वेषामासनान्वितम् ।
एकविंशांशकं(क)तुङ्गे जन्मतुङ्गे(ङ्गेमे)कमाधिकम् ॥ ६३ ॥
पादांशं क्षेपशं चैव सत्रिपादांशमम्बुजम् ।
तदूर्ध्वं चैकभागे तु तत्रिभागं विभाजिते ॥ ६४ ॥
एकांशं निम्नकं प्रोक्तं चै(ह्ये) कांशं वृत्तकम्पकम् ।
तदूर्ध्वं अं(चां)शेन कम्पं स्यात्पञ्चांशं वप्रतुङ्गकम् ॥ ६५ ॥
v3.c24.s46.6
तदूर्ध्वं अं(चां)शं त्रिधा भव्य वृत्तं पद्मं च वृत्तकम् ।
तदूर्ध्वं वृत्तसमं पद्मं पद्मतुल्यं च वृत्ततःम् ॥ ६६ ॥
सच्छ्लेषं तु द्विभागं तु कुमुदं वृत्ताकृतिस्तथा ।
तदूर्ध्वांशं त्रिधा भव्य वृत्त(त्तं) पद्मं च कम्पकम् ॥ ६७ ॥
ऊर्ध्वे कर्ण त्रिभागं स्यात्तदूर्ध्वेऽशं त्रिधा भवेत् ।
कम्पं पद्मं च वृत्तं च द्विभागेन कपोतकम् ॥ ६८ ॥
तदूर्ध्वे चैकभागेन आ(चा) लिङ्गान्तरितं तथा ।
प्रत्यूर्ध्वे वाजनं कम्पं सर्वालङ्कारसंयुतम् ॥ ६६ ॥
एवं तु पद्मभद्रं स्यादधिराजस्य योग्यकम् ।
तुङ्गे द्विरष्टभागं स्याज्जन्ममे (वै) केन कारयेत् ॥ ७० ॥
अर्धेन वाजनं चैव पादांशं क्षुद्रवेत्रकम् (वेशनम्) ।
पादाधिकत्रयांशं च तदूर्ध्वे तु महाम्बुजम् ॥ ७१ ॥
तदूर्ध्वे निष्क्रमार्धेन तत्समं पद्ममेव च ।
द्विभागं कुमुदोत्तुङ्गं तदूर्ध्वेऽर्धेन चाम्बुजम् ॥ ७२ ॥
तत्समं चोर्ध्वकम्पं स्यात्रिभागेन गलोदयम् ।
अंशेन कम्पपद्मं स्याद् द्वयंशेन कपोतकम् ॥ ७३ ॥
अंशेन (ना) लिङ्गान्तरितं प्रतिवाजनमुच्यते ।
श्रीभद्रकमिति प्रोक्तं सर्वालङ्कारसंयुतम् ॥ ७४ ॥
अधिराज नरेन्द्रस्य (योः) सर्वासत(ने) योग्यकम् ।
द्वाविंशाशर्कं (क) तुङ्गे च जन्म द्वयंशेन विन्यसेत् ॥ ७५ ॥
तदेव त्रिबृत्त (त्तं) शोभार्थं यथासोपानवत्क्रमम् ।
तदूर्ध्वे पद्मामेकांशं चार्थेनावृतवेत्रक (वेशन) म् ॥ ७६ ॥
अर्धेनाभ्रकम्पं स्यात्तदूर्ध्वेऽर्धेन वृत्तकम् ।
त्रि(त्र) यांशं वप्रदेशे तु नानापुष्पैश्च शोभितम् ॥ ७७ ॥
तदूर्ध्वेऽर्धेन वृत्तं स्यात्तत्समो (ममु) परि पङ्कजम् ।
अर्धेन वृत्तकं चोर्ध्वे तत्समं चोर्ध्वपद्मकम् ॥ ७८ ॥
तदूर्ध्वेऽर्धेन वृत्तं स्यात्तत्तुल्यं तद्दलं भवेत् ।
एकेन मध्यवृत्तं स्यात्कुमुदाकारं तु निर्गमम् ॥ ७६ ॥
v3.c24.s46.7
तदूर्ध्वेऽर्धेन पद्मं स्यादर्धेनावृतवेत्रकम् ।
तदूर्ध्वे चाम्र(ध्रं) पट्टं स्यात्तत्रिं(द्यं)शेन गलोदयम् ॥ ८० ॥
नानापादादिसिंहादिपत्रवल्लै(ल्लिभि)र्विभूषितम् ।
तदूर्ध्वे चाम्रपट्टं स्यात्तदूर्ध्वे वृत्तवेत्रकम् ॥ ८१ ॥
तत्समं चोध्वंपद्मं स्याद्वाजनं चैकभागिकम् ।
आधिक्यंशं कपोत स्यात्तदूर्ध्वेऽशेन वाजनम् ॥ ८२ ॥
तदूर्ध्वे चांशं वृत्तं स्यान्मध्ये व्यालादिभूषितम् ।
सर्वालङ्कारसंयुक्तं शेषं युक्त्या प्रयोजयेत् ॥ ८३ ॥
श्रीविशालमिति प्रोक्तं पार्श्विकं [स्य] नरेन्दयोः (योश्च) ।
कारयेद्विजयान्तं स्यात्प्रथमाष्टतुरासने ॥ ८४ ॥
तदेव वप्रमध्ये तु द्वयंशेन वृत्तनिर्गमम् ।
शेषं तु पूर्ववच्चित्रं श्रीवन्धमिति हि स्मृतम् ॥ ८५ ॥
पार्श्विकः(क)पट्टधरोत्सेधं (योग्यं) पूर्वोक्तानां च योग्यकम् ।
तदेव मध्यकुम्भे तु चैकांशेनाभ्र(प्र)पट्टिका ॥ ८६ ॥
एवं तु श्रीमुखं प्रोक्तं मण्डलेशस्य योग्यकम् ।
तदेव मूलभागेन चाम्रवृत्तं विनाम्बुजम् ॥ ८७ ॥
भद्रासनमिति प्रोक्तं पट्टभागासनं भवेत् ।
तदेव ज(तज्ज)न्मन उपरिवेशे द्वयंशकेनाम्बुजं भवेत् ॥ ८८ ॥
शेषं प्रागुक्तवत्कुर्यात्पद्मबन्धमिति स्मृतम् ।
प्राहारकस्य योग्यं स्यात्सर्वेषामासनान्वितम् ॥ ८९ ॥
तुङ्गे त्रिंशतिभागेन जन्म द्वयंशेन योजयेत् ।
पद्मत्तुङ्गं गुणांशं स्यात्कम्पमंशेन योजयेत् ॥ ९० ॥
षडंशं वप्रतुङ्गं स्यात्तदूर्ध्वे सप्तांशकं घटम् ।
पद्मांशेन वन्धां (न्ध्यं) शं कर्णं कम्पं शिंवांशकम् ॥ ९१ ॥
कपोतोर्ध्वं त्रिभागं स्यादालिङ्गादि द्वयांशकम् ।
व्यालसिंहादिपुष्पैश्च कर्णं प्राहादिभूषितम् ॥ ९२ ॥
सर्वालङ्कृतवेत्रं स्यान्नवरत्नैर लङ्कृतम् ।
एवं तु पादबन्धं स्यात्क्षमपालस्य योग्यकम् ॥ ९३ ॥
v3.c24.s46.8
अस्त्रग्राहस्य नृपतेः सिंहपादं न कारयेत् ।
क्षुद्रभूपविशां शूद्रैःऽ(द्राणाम्) पपीठादि योजयेत् ॥ ६४ ॥
चतुरश्र (प्र) समायुक्तं सर्वेषां सर्वमासनम् ।
देवानां मौलिनामुक्तं युक्तं सर्वेषु योग्यकम् ॥ ६५ ॥
प्रथमासनादि सर्वेषां भूपानां तान्युदीरितम् ।
षट्पादेन समायुक्तं सिंहरूपं प्रकल्पयेत् ॥ ६६ ॥
तत्सर्वं प्राङ्मुखं कुर्याद्विपरीतं चेद्विनाशनम् ।
देवानामासनानां तु चतुर्दिक्षु निरीक्षणम् ॥ ६७ ॥
त्रिय(त्र्या)ङ्गुलं समारभ्य द्व्यङ्गुलविवर्धनात् ।
नवपङ्क्त्यङ्गुलान्तं स्यात्सर्वेषां पादतुङ्गकम् ॥ ६८ ॥
एवं च विविधं प्रोक्तं यन्मानोरभ्यं मानयेत् ।
पादोत्सेधं नवांशं स्यात्सिंहतुङ्गं युगांशकम् ॥ ६९ ॥
शेषं तु पूर्ववत्कुर्याद्युक्त्या तत्रैव योजयेत् ॥ १०० ॥
आदितो(त ऽ)त्तमुपचक्रवर्त्तये
सिंहमुद्रितमनोहरासनम् ।
भ्रष्टभूमिपतिभिश्च केसरी
लाञ्छितं त्वथ मनोहरासनम् ॥ १०१ ॥
प्रथमासनं मङ्गलासनम्
अथ वीरविजयाख्यासनम् ।
नवभूपतिविशेषतस्त्वम्
अथ सामान्यमुदीरितं बुधैः ॥ १०२ ॥
विष्णुश्च जिनकेन्द्र (बौद्ध) मुख्यकैः (कानां) सर्वदेवगणचक्रवर्तिने ।
शासनानि कथितानि तानि वै चोत्सवाश्च(वानि) कथितानि सु (सू) रिभिः ॥ १०३ ॥
v3.c24.s46.9
इति मानमारे वास्तुशास्त्रे सिंहासनलक्षणविधानं नाम पञ्चचत्वारिंशोऽध्यायः ॥
Linked texts (1)
- Mānasāra — Sanskrit