Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s55.7

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s55.7

Language
English

v3.c24.s55.7

वामे तु शङ्खपत्रं स्याद्दवामे कर(र्णं)कुण्डलम् ।
रुद्राक्षीलक्षणं प्रोक्तं चामुण्डी वामकर्णके ॥ ८३ ॥
शङ्खपत्रं च(वा)वामे तु शङ्खकुण्डलसंयुत(ता)म् ।
अन्यथा(न्यासां) सर्वशक्तीनां ग्राहकुण्डलभूषियी(ष्या)म् ॥ ८४ ॥
हारोपग्रीवसंयुक्तां केयूरकटकन्विताम् ।
मणिबन्धनवलयादिसर्वरत्नाङ्गुलीयकैः ॥ ८५ ॥
बाहुमाल्यादिसंमूष्य(ष्यां) साकं चुलकान्विताम् ।
उक्तानां सर्वशक्तीनां सर्वाभरणभूषितैः(ष्याम्) ॥ ८६ ॥
भद्रपीठोपरि देशे महिष्य(षो) हतः(त)शिरः (रः) ।
तदूर्ध्वं तारकां देवीं स्थानकां ऋजुं भावयेत् ॥ ८७ ॥
चतुर्भुजं(र्जा) त्रिनेत्रं(त्रां) च श्यामवर्णाङ्गशोभिताम् ।
किरीटमकुटोपेतां सर्वाभरणभूषिणीम् ॥ ८८ ॥
पूर्वऽभयं करे सव्ये चक्रं चापरदक्षिणे ।
ऊरुमूलाश्वितं वामवरदं वा करपूर्वकं ॥ ८६ ॥
वामे चान्यकरे शङ्खं पीताम्बरधरं भवेत् ।
एवं कात्यायनी(नी) प्रोक्तं(क्ता) शेषं प्रागुक्तवन्नयेत् ॥ ६० ॥
मूर्ध्नि च मध्ये ललाटमध्ये
नासाग्रमध्ये चन्द्रदेशनाभेः ।
ऊर्ध्वाधो(धः) पादद्वयमध्यगुल्फे
कुर्यात्तु सूत्रं तु सुखासने च ॥ ६१ ॥
तदेव सूत्रं त्वथ कायदेशे
चोरुद्वयोर्मध्यमरु च सूत्रम् ।
जानुद्वयोर्मध्यमपादयोग्स्तम्
मध्ये च सूत्रमृजुस्थानके तत् ॥ ६२ ॥
भङ्गद्वयो मूर्ध्नि ललाटसन्ध्ये
नासापुटे सव्यकुचत्तुर्मध्ये ।
नाभेच सव्ये स्थितपादवामे
सूत्रं हि तिष्ठेत्तु कुरु(र्या)दासने च ॥ ६३ ॥