Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s55: शक्तिलक्षणम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s55
- Language
- English
शक्तिलक्षणम्
v3.c24.s55.1
शक्तीनां चित्र(द्द्र)वर्णादिलक्षणं वक्ष्यतेऽधुना ।
सरस्वती च सावित्री लक्ष्मीश्च मही तथा ॥ १ ॥
मनोन्म(न उन्मादि)नी सप्तमातृश्च दुर्गां चैव यथाक्रमम् ।
पूर्वोक्तद्रव्यसर्वेषां(वैश्व) सर्वशक्ति प्रकारयेत् ॥ २ ॥
पद्मापीठोपरि स्वाप्य(पयित्वा) देवीं पद्मासनासनाम् ।
शुद्धस्फटिकसंकाशं मुक्ताभरणभूषणम् ॥ ३ ॥
चतुर्बाहुं द्विनेत्रं(त्रां) च केशबन्धं(न्धां) च मौलिनीम् ।
शुद्धश्वेतानुलोपेतां ग्राहकुण्डलभूषणाम् ॥ ४ ॥
ललाटे भ्रमरकं स्यान्मौक्तिका(क)पट्टमेव वा ।
कर्णपुष्पैश्च मौक्त्येन कर्णदामं(मभि)रलङ्कृतम् ॥ ५ ॥
हारोपग्रीवसंयुक्तं(क्तां) मुक्तात्नावली(लीं) तथा ।
कुचबन्धनसंयुक्ता बाहुमालाविभूषणी ॥ ६ ॥
केयूरकटकैर्युक्तं(क्तां) प्रकोष्ठावलयं(यां) तथा ।
मणिवन्धकटकं(कां) वा मौक्तिका(क) पौर(पूर) मेव च ॥ ७ ॥
मध्याङ्गुलं विना सर्वे मौलिक (मूलतो) रनाङ्गुलीयकैः ।
नीवीं च लम्बने चैव मौक्तिका (क) पट्टयुक्तिका ॥ ८ ॥
पादजालां भुजङ्गानां गुल्फस्योपरि भूषणम् ।
पादनूपुरसंयुक्तं(क्तां) पादरत्नाङ्गुलीयकैः ॥ ६ ॥
मौक्तिकोत्तरीयसंयुक्तां सर्वालङ्कारभूषणा(णी)म् ।
पुरतः सव्य(व्ये) संदर्शं पुस्तकं वामहस्तके ॥ १० ॥
दक्षिणे परहस्ते तु चाक्षमालावधारिणीम् ।
कुण्डिका वामहस्ते (स्ते) च धारयेत्तु सरस्वती ॥ ११ ॥
अथवा द्विभुजं कुर्यात्कुन्तलं मकुटं भवेत् ।
दक्षिणं वरदं हस्तं वामहस्ते च पद्मकम् ॥ १२ ॥
v3.c24.s55.2
करण्डमकुटं वापि हेमवर्णाङ्गशोभितम् ।
पीताम्बरं वस्त्रारत्नं मुक्ताभरणमेव च ॥ १३ ॥
कर्णयोः स्वर्णताटङ्क सूत्रयुक्तं (क्तां) सुमङ्गलाम् ।
द्विनेत्रीं प्रसन्नवदनां सर्वाभरणभूषणीम् ॥ १४ ॥
पितामहस्य पार्श्वे तु स्थानकं चासनं तु वा ।
वामभागे तु सावित्रीं श्वेतरक्त (क्ता) मथापि वा ॥ १५ ॥
श्यामाङ्गवर्णामेवं वा द्विभुजं च द्विनेत्रकम् ।
स्थानकं चासनं वापि करण्डमकुटान्वितम् ॥ १६ ॥
अथवा केशबन्धं वा कर्णे मकरकुण्डलम् ।
दुकूलाम्बरधरं वापि पीताम्बरमथापि वा ॥ १७ ॥
सर्वाभरणसंयुक्तां वरदं वामहस्तके ।
दक्षिणे चोत्पलं कुर्याच्छेषं प्रागुक्तवन्नयेत् ॥ १८ ॥
सरस्वतीं च सावित्रीं दशतालेन कारयेत् ।
रक्ताब्जं पीठतस्योर्ध्वे देवी पद्मासना भवेत् ॥ १९ ॥
चतुर्भुजं त्रिनेत्रं च मकुटं कुन्तलं भवेत् ।
प्रसन्नवदनां देवीं शुद्धकाञ्चनसन्निभाम् ॥ २० ॥
पीताम्बरधरां रक्तां [मं] शुकपेताम् (भरथीम्) ।
विशालाक्षममायतं कुर्यादपाङ्गकोणे सिताननाम् ॥ २१ ॥
दक्षिणे त्वभयं पूर्वं डिण्डिमं वामहस्तके ।
अपरे दक्षिणे पद्मं चाक्षमालामथापि वा ॥ २२ ॥
वामे नीलोत्पलं वापि रक्तपद्मां (द्ममु) धृतं तु वा ।
पीनोन्नतस्तनतटां फाले भ्रमरकान्विताम् ॥ २३ ॥
अथवा रत्नपट्टं स्यात्स्वर्णताटङ्क कर्णयोः ।
मकरं कुण्डलं वापि कर्णयोः स्वर्णदामयुक् ॥ २४ ॥
हारोपग्रीवसंयुक्तां ससुत्रैश्च सुमङ्गलीम् ।
कुचतटैश्च केकै (रखै) श्च हेमपट्टविभूषितीम् ॥ २५ ॥
रत्नानि चन्द्र(छन्न) वीरं स्यात्स्वर्णरत्नोत्तरीययुक् ।
केयूरकटकस्वर्णरत्नपूरिमसंयुत(ता)म् ॥ २६ ॥
v3.c24.s55.3
प्रकोष्ठावलयं रत्नैः कटकं मणिबन्धकैः ।
रत्नेन कटिसूत्रं स्याद्रत्नदामादिभूषितम् ॥ २७ ॥
रत्नहेमं(म्ना) च वस्त्रेण कुर्यान्निव्यं च लम्बयेत् ।
नलकान्तं त्रि(त्रि)लम्बं स्यात्सर्वैरत्नानि(न)शोभिताम् ॥ २८ ॥
भुजङ्गाङ्गवलयं पादौ(दयोश) चोर्ध्वाधो रत्नबन्धनम् ।
पादनूपुरसंयुक्तमङ्गुलीरङ्गुलीयक(का)म् ॥ २९ ॥
बाहुमूलादि संपूज्य सर्वाभरणभूषितम् ।
अथवा द्विभुजं चैव वामहस्ते च सन्धिमत्(डिण्डिमम्) ॥ ३० ॥
दक्षिणे रत्नपद्मं स्याच्छेषं प्रागुक्तवन्नयेत् ।
एवं प्रोक्तं(क्तां) महालक्ष्मीं स्थापयेत्सर्वहर्म्यके ॥ ३१ ॥
सामान्यं(न्यां) लक्ष्मीं कुर्याद् द्विभुजं(जां) च द्विनेत्रके(काम्) ।
रक्तपद्मोद्धृतं(तां) हस्तौ सर्वाभरणभूषितम् ॥ ३२ ॥
शेषं तु पूर्ववत्कुर्याद् देवो(वी)पार्श्वे विशेषतः ।
ऐरावतद्वयोश्(यं) चैव कुर्यादाराद(ध)येत्सुधीः ॥ ३३ ॥
सर्वास(र्वाषा)मालये द्वारे मध्यरङ्गे तु पूजयेत् ।
अथवा विष्णुपार्श्वे तु लक्ष्मीलक्षणमुच्यते ॥ ३४ ॥
द्विभुजां च द्विनेत्रां च करण्डमकुटान्विताम् ।
अथवा केशबन्धं स्याद्वामहस्तोद्धृताब्सकम् ॥ ३५ ॥
दक्षिणं हस्तं वरदं च अ(चा)थवा लम्बने भवेत् ।
स्थानकं चासने वापि स्थापयेद् विष्णुदक्षिणे ॥ ३६ ॥
कुर्यात्तु सर्वलक्ष्मीनां मध्यमं(म)दशतालके ।
सर्वाभरणसंयुक्तां हेमवर्णाङ्गशोभिताम् ॥ ३७ ॥
एतेषाम्(एषाः) इ(चे)न्दिराः प्रोक्ताः(क्तास्तु) महि(ही)शक्तिमि(रि)होच्यते ।
द्विभुजं(जां) च द्विनेत्रं(त्रां) च करण्डमकुटान्वित(वा)म् ॥ ३८ ॥
दुकूलवसनोपेतां मकुटं कुन्तलं तु वा ।
स्थानकं चासने वापि विष्णुमूर्या(त्यैर्)धसव्यके ॥ ३९ ॥
दक्षिणे चोत्पलं धृत्वा वामभाग तु लम्बनम् ।
अथवा वरदं वामे श्यामवर्णाङ्गशोभिताम् ॥ ४० ॥
v3.c24.s55.4
मानयेद् दशतालेन सर्व शेषं तु पूर्ववत् ।
मकरकुण्डलसंयुक्तां सर्वाभरणभूषिताम् ॥ ४१ ॥
भूशक्तिकलक्षं प्रोक्तं गौरीलक्षणमुच्यते ।
द्विभुजं(जां) च द्विनेत्रं (त्रां) च कुर्यादासनं (ने) स्थानकं(के) तु वा ॥ ४२ ॥
करण्डं केशबन्धं वा कुन्तलं मकुटं भवेत् ।
दक्षिणे चोत्पलं वामे वरदं स्थानमेव वा ॥ ४३ ॥
अथवा लम्बहस्तं स्याद् गोवालाकारवद् भवेत् ।
दुकूलवसनोपेतां पीताम्बरधरामेव वा ॥ ४४ ॥
दीर्घबाहुं विशालाक्षीं श्यामवर्णा महोदराम् ।
स्तनतटोत्तुङ्ग (ङ्गा) विस्तीर्णश्रोनि(णि) देशोद्भवा भवेत् ॥ ४५ ॥
कटि चोरु विशालं स्यान्मध्यकञ्चीनलम्बवत् ।
विशालास्य (लमास्यं) सुघोणं तुङ्गतुण्डं स्मिताननम् ॥ ४६ ॥
चन्द्ररेखावतंसं स्याद् भ्रमरावृतमालिकम् ।
अथवा फालपट्टं स्यात्कर्णयोर्ग्राहकुण्डलो ॥ ४७ ॥
कर्णपुष्पैश्च दामं (म) स्याद्धेमसूत्रं सुमङ्गलो ।
हारोपग्रीवसंयुक्तां बाहुमालाविभूषिताम् ॥ ४८ ॥
कटकं कटिसूत्रं स्यात्केयूरपुरिमन्वितम् ।
रक्तांशुकोत्तरीयं स्यान्मौक्तिकोत्तरीयमेव च ॥ ४९ ॥
प्रकोष्ठवलयं चैव वलयैर्मणिवन्धकैः ।
भुजङ्गकटकाङ्गुष्ठौ पादनूपुरसंयुतम् ॥ ५० ॥
सर्वाङ्गुले(ल्य) ग्रवज्ज्ञात्वा कुर्याद्रक्ताङ्गुलीयकैः ।
दक्षिणे कुञ्चितं पादं वामपादं तु लम्बितम् ॥ ५१ ॥
पुष्पं च वरदं स्थाने हस्तं वामेऽथ चासने ।
दक्षिणं स्वस्तिकं पादं वामादन्तकरान्तकम् ॥ ५२ ॥
कुञ्चितं वामपादं स्याद् दक्षिगं कुञ्चितं तु वा ।
पुष्पधृक् लम्बहस्तं स्यात्स्थानकं च त्रिभागिकम् ॥ ५३ ॥
मानयेदङ्गमानं च मध्यमं दशतालके ।
लिङ्गस्य वामपार्श्वं तु विमहार्या तु वामके ॥ ५४ ॥
v3.c24.s55.5
स्थापयेत्स्थावरे गौरीं तथा जङ्गममेव च ।
गौरीं च पार्वतीं चैव मनोमन्थां(न चन्मादिनीं)मद्य वच्यते ॥ ५५ ॥
चतुर्भुजां त्रिनेत्रां च जटामकुतमण्डिताम् ।
समपदस्थानकं (कां) देवीं दशतालेन मानयेत् ॥ ५६ ॥
दक्षिणे चाभयं पूर्वे वरदं वामहस्तके ।
अपरे दक्षिणे चाब्जं वामहस्ते तु चोत्पलम् ॥ ५७ ॥
श्वेतरक्तं च वर्णं वा श्यामवर्णाङ्गशोभित(तां)म् ।
कंचित्तु कुन्तलनिभं तुङ्गं मकुटं कुन्तलं तु वा ॥ ५८ ॥
वामे बालशशिं (शिनं) कुर्यादवामे तुरगा (गम) न्वितम् ।
दुकूलवसनोपेतं (तां) सर्वाभरणभूषित(तां) म् ॥ ५६ ॥
तदेव वृषमाश्रित्य पृष्ठे देवी त्रिभागिकम् ।
दक्षिणं स्वस्तिकं पादं वामपादं च कुञ्चितम् ॥ ६० ॥
पुरतो वामहस्ताग्रं (ग्रे) शिरस्यो (स ङ) परि विन्यसेत् ।
शेषं तु पूर्वं [वद्] देवीं च चोत्पलं वासनाभयम् ॥ ६१ ॥
तदेव परहस्तौ च वामे रक्ताब्जधारिणीम् ।
दक्षिणे चाक्षमाला(लां) च कुर्यात्प्रोक्तं पुरातनैः ॥ ६२ ॥
एवं मनो(न ङ)न्मनीं शक्त्या (क्तिं) स्थापयेच्छिवहर्म्यके ।
वाराही चैव कौमारी चामुण्डी भैरवी तथा ॥ ६३ ॥
माहेन्द्री वैष्णवी चैव ब्रह्माणी सप्तमातरः ।
एतेषां (तासां) सर्वशक्तीनां नवतालेन कारयेत् ॥ ६४ ॥
भद्रपीठोपरि स्थाप्यमा (प्या चा) सने सप्तमातरः ।
शयने दक्षिणे पादान् वामपादान्प्रलम्बयेत् ॥ ६५ ॥
चतुर्भुजं (जां) त्रिनेत्रैश्च सर्वाभरणभूषितीम् ।
चामुण्डी चैव रुद्राणी तानि (सा च) शक्तिः त्रि (त्रि) लोचनी ॥ ६६ ॥
ब्रह्माणी चैव रुद्राणी जटामकुटमण्डिती (ते) ।
वाराही पोत्रवक्त्री स्यात् किरीटमकुटान्वित (ता) म् ॥ ६७ ॥
कौमारी करण्डमौळी च किरीटी (टिनी) वैष्णवी तथा (च) ।
चामुण्डी ज्याल (जटा) मौळी च भैरवी पिंगरालका [म्] ॥ ६८ ॥
v3.c24.s55.6
शूलं मरु[द्]गगं चैव पूर्वं चापरदक्षिणे ।
कपालं पूर्वहस्ते च पाशं चापरहस्तकै(के) ॥ ६६ ॥
एवं तु वान(णा)मुद्द्दृत्य चामुण्डी भैरवी व(चो)भौ(भे) ।
चामुण्डी श्यामवर्णाभा भैरवी रक्तवर्णिनी ॥ ७० ॥
केचित्तु भैरवी पूर्वे वरदाभयहस्तकै ।
शूलं डमरुकं चैव सव्यवामकेऽपरे [तु] ॥ ७१ ॥
रक्ताम्बरप(ध)रा पार्श्वे कुचाभौ रक्तकञ्चुलौ ।
चामुण्डी च शिरोमाला सर्वाभरणभूषिती ॥ ७२ ॥
कृष्णाम्बरधरी(रा) कृष्णलम्बकुचांसभैरवी ।
वैष्णवी चैव वाराही श्यामवर्णा विशोभिनी ॥ ७३ ॥
चक्रं च दक्षिणे हस्ते शङ्खं वामकरेऽपरे ।
पूर्वे च वरदं वामे दक्षिणे त्वभयमुभौ ॥ ७४ ॥
पीताम्बरं च संरक्तां सर्वाभरणभूषिताम् ।
एवं तु वैष्णवी प्रोक्ता वाराही दक्षिणे हलम् ॥ ७५ ॥
वामहस्तोपरि(स्ते परे) पाशं दक्षिणेत्वभ' करे ।
वरदं वामहस्ते तु सर्वाभरणभूषिताम् ॥ ७६ ॥
पीताम्बरधरं(रा) चैव कौमारी रक्तवर्णिनी ।
वरदं चाभयं पूर्वे वामे तु द्वारहस्तकै ॥ ७७ ॥
दक्षिणे च [कपालं] स्यात् श(च्छ)क्तिं च वामहस्तकै ।
श्यामवर्णीम्बरं(रा) चैव सर्वाभरणभूषिताम् ॥ ७८ ॥
कौमारीलक्षणं प्रोक्तं ब्रह्माणी च चतुर्मुखी ।
वरदाभयहस्ती च कुण्डिकासाक्षमालाधृक् ॥ ७६ ॥
वामेत्ववामपूर्वे तु चा[क्षमाला] यथाक्रमम् ।
शुद्धवस्त्रा(रक्ता)म्बरयुक्तां सर्वाभरणभूषिताम् ॥ ८० ॥
एवमुक्तं(क्ता) तथा ब्राह्मी रुद्राणी श्वेतवर्णिनी ।
वरदामयहस्तो च पूर्वे च वामदक्षिणे ॥ ८१ ॥
वामे च हरिखं सव्ये परुशं परहस्तके ।
चर्माम्बरधरायुक्ता सर्वाभरणभूषिता ॥ ८२ ॥
v3.c24.s55.7
वामे तु शङ्खपत्रं स्याद्दवामे कर(र्णं)कुण्डलम् ।
रुद्राक्षीलक्षणं प्रोक्तं चामुण्डी वामकर्णके ॥ ८३ ॥
शङ्खपत्रं च(वा)वामे तु शङ्खकुण्डलसंयुत(ता)म् ।
अन्यथा(न्यासां) सर्वशक्तीनां ग्राहकुण्डलभूषियी(ष्या)म् ॥ ८४ ॥
हारोपग्रीवसंयुक्तां केयूरकटकन्विताम् ।
मणिबन्धनवलयादिसर्वरत्नाङ्गुलीयकैः ॥ ८५ ॥
बाहुमाल्यादिसंमूष्य(ष्यां) साकं चुलकान्विताम् ।
उक्तानां सर्वशक्तीनां सर्वाभरणभूषितैः(ष्याम्) ॥ ८६ ॥
भद्रपीठोपरि देशे महिष्य(षो) हतः(त)शिरः (रः) ।
तदूर्ध्वं तारकां देवीं स्थानकां ऋजुं भावयेत् ॥ ८७ ॥
चतुर्भुजं(र्जा) त्रिनेत्रं(त्रां) च श्यामवर्णाङ्गशोभिताम् ।
किरीटमकुटोपेतां सर्वाभरणभूषिणीम् ॥ ८८ ॥
पूर्वऽभयं करे सव्ये चक्रं चापरदक्षिणे ।
ऊरुमूलाश्वितं वामवरदं वा करपूर्वकं ॥ ८६ ॥
वामे चान्यकरे शङ्खं पीताम्बरधरं भवेत् ।
एवं कात्यायनी(नी) प्रोक्तं(क्ता) शेषं प्रागुक्तवन्नयेत् ॥ ६० ॥
मूर्ध्नि च मध्ये ललाटमध्ये
नासाग्रमध्ये चन्द्रदेशनाभेः ।
ऊर्ध्वाधो(धः) पादद्वयमध्यगुल्फे
कुर्यात्तु सूत्रं तु सुखासने च ॥ ६१ ॥
तदेव सूत्रं त्वथ कायदेशे
चोरुद्वयोर्मध्यमरु च सूत्रम् ।
जानुद्वयोर्मध्यमपादयोग्स्तम्
मध्ये च सूत्रमृजुस्थानके तत् ॥ ६२ ॥
भङ्गद्वयो मूर्ध्नि ललाटसन्ध्ये
नासापुटे सव्यकुचत्तुर्मध्ये ।
नाभेच सव्ये स्थितपादवामे
सूत्रं हि तिष्ठेत्तु कुरु(र्या)दासने च ॥ ६३ ॥
v3.c24.s55.8
इति मानमारे वास्तुशास्त्रे शक्तिलक्षणविधानं नाम चतुष्पञ्चाशदध्यायः ॥