Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s56.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s56.1

Language
English

v3.c24.s56.1

सुगतजैनकादीनां लक्षणं मानपूर्वकम् ।
संक्षिप्य लक्ष्यतेऽधुना मानसारस्य संग्रहम् ॥ १ ॥
मानं चापि प्रमाणं च परिमाणं लम्बमानकम् ।
उन्मानमुपमानं च मानं षधां समीरितम् ॥ २ ॥
पादाङ्गुष्ठिससीमान्तं मानं चापि प्रकथ्यते ।
प्रमाणं विस्तृतं प्रोक्तं परितः परिमाणकम् ॥ ३ ॥
तत्सूत्राल्लम्बमानं स्यान्निम्नमुन्मानमुच्यते ।
अन्तरे ऽ(चो)पमानं स्याद्विम्बोदयादि सर्वशः ॥ ४ ॥
मानमेवं तु षड्भेदं मानेनाङ्गानि मानयेत् ।
आदिमानविधिं(धिः) सम्यग्लक्षणं च इ(यां तु चे)होच्यते ॥ ५ ॥
हर्म्यंतारवशान्मानं गर्भगेहवशोदयम् ।
द्वारमानवशात्तुङ्गमधिष्ठानवशोदयम् ॥ ६ ॥
हस्तमानवशान्मानं तालमानवशोदयम् ।
अङ्गुलेनाभि(न तु) चोत्तुङ्गं यजमानवशोदयम् ॥ ७ ॥
मूलबेरवशान्मानमुत्तमादि त्रयं त्रयम् ।
एवं तु नवदेशे च महामानं तु संग्रहम् ॥ ८ ॥
हर्म्यमानं चतुर्मानं भोगमोक्षार्थकादि(मि)नाम् ।
हस्ततालवशान्मानं भोगमोक्षप्रदायकम् ॥ ६॥
अङ्गुलानां तु यन्मानं कुर्यात्तु मोक्षकादि(मि)नाम् ।
कर्तृबिम्बवशान्मानं सर्वसिद्धो(दो)द्वयं विदुः ॥ १० ॥
कर्तरी(रि) चानुवर्तन्ते(ते) कायत्त्वादिमानकम् ।
तस्मादेवं तु प्रत्येकं नवमानमिहोच्यते ॥ ११ ॥