Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s56.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s56.2

Language
English

v3.c24.s56.2

हर्म्यतारं(र)नवांशेन चैकैकं बेरतुङ्गकम् ।
स्थावरं जङ्गमं चैव कन्यसादि त्रयं त्रयम् ॥ १२ ॥
गर्भगेहसमं श्रेष्ठं नवांशैकांशं कन्यसम् ।
द्वारतुङ्गविशाले तु नवमानं तु पूर्ववत् ॥ १३ ॥
अधिष्ठानसमं श्रेष्ठं कन्यसान्तं नवोदयम् ।
हस्तादि नवहस्तान्तं कन्यसादि त्रयं त्रयम् ॥ १४ ॥
एकताल समाभ्य नवतालावसानकम् ।
कन्यसाद्युत्तमान्तं स्याद्यजमानोदयं परम् ॥ १५ ॥
केशान्तं नासिकाप्रान्तं हन्वन्तं बाहुसीमकम् ।
स्तनान्तं हृदयान्तं च नाभ्यन्तं मेढ्रसीमकम् ॥ १६ ॥
नवधा कन्यसान्तं स्यात्स्थावरं(र)जङ्गमोदयम् ।
मूलबेरवशं मानमुत्सवोदयमीरितम् ॥ १७ ॥
मूलबेरोदयं श्रेष्ठं त्रिपादं मध्यमं भवेत् ।
तुङ्गार्धं कन्यसं प्रोक्तं त्रिविधं चोत्सवोदयम् ॥ १८ ॥
अथवा तेन मानेन षोडशांशं(शे) विभाजिते ।
एकैकांशकं तस्मात्पञ्चविंशांशकान्तकम् ॥ १९ ॥
कन्यसाद्युत्तमान्तं स्यान्नवमानमुत्सवोदयम् ।
अथवा मूलबेरस्य केशान्तं तु भुवान्तकम् ॥ २० ॥
नेत्रान्तं नासिकाप्रान्तं हन्वन्तं बाहुसीमकम् ।
स्तनान्तं हृदयान्तं च नाभ्यन्तं च नवोदयम् ॥ २१ ॥
कन्यसाद्युत्तमान्तं स्यान्नव तदुत्सवोदयम् ।
उत्सवे चा(त्सवस्या)र्धमानेन कौतुकोदयमीरितम् ॥ २२ ॥
तन्मानं चाष्ट(नव)भागैकं नवभागावसानकम् ।
कन्यसाद्युत्तमान्तं स्यान्नवमानं कौतुकोदयम् ॥ २३ ॥
हर्म्यादि चाष्ट(नव)धा मानमायाद्यर्थांशं कारयेत् ।
यथासंग्रहमानैश्च शतभागं(गे) विभाजिते ॥ २४ ॥
एकैकांशाधिकं त्रिंशच्छतभागावसानकम् ।
स्थावरजङ्गमादीनां शुभायादिसंभवम् ॥ २५ ॥