Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s56.4

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s56.4

Language
English

v3.c24.s56.4

अ(प)परे तु निर्यूहं कुर्यान्मफस्तरोरयं [भवेत्] ।
तदूर्ध्वं कल्पवृक्षं(क्षः) स्यात्सह(ग) जेन्द्रस्वरैः(परैः) सह ॥ ४० ॥
नारदादि(दीन्) ऋषीन्देवान्देवाङ्गनाभिः सह सेवितान् ।
यक्षविद्याधराद्यैश्च चक्रमन्यत्र भूपतिम्(तीन्) ॥ ४१ ॥
न(ना)गेन्द्रादि(दीन्) च दिक्पालान्यक्षैश्च सहसेवितान् ।
यक्ष्यक्षेधरौ पार्श्वे चामरोद्धतसेवितान् ॥ ४२ ॥
चतुत्रि(त्रे)यान्तरि(री)क्षे तु तस्याधो जिनदेवतान् ।
स्फटिकश्वेतरक्तं च पीतश्यामनिभं तथा ॥ ४३ ॥
सिद्धादिश्च सुगन्धश्च ज(जि)नं चाह(हं) तुपार्श्वकम् ।
एतत्पञ्चपरमेष्ठी(वर्या) पञ्चवेरं यथाक्रमम् ॥ ४४ ॥
उत्तमं(म)दशतालेन देवाङ्गैः सह मानयेत् ।
चतुर्विंशतितीर्थांतां(न्) दशतालेन कारयेत् ॥ ४५ ॥
निराभरणसर्वाङ्गं निर्वस्त्राङ्गं मनोहरम् ।
सम(र्वं)वचःस्थले हेमवर्णं श्रीवत्सलाञ्छनम् ॥ ४६ ॥
द्वारे चण्ड(ण्डे) महाचण्डं कुर्यात्सव्यपसव्यके ।
एवं तु जिनमित्युक्तं शेषमागमतो(त ऽ)क्तवत् ॥ ४७ ॥