Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s56.3
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s56.3
- Language
- English
v3.c24.s56.3
तदूर्ध्वे जाल्यंशं(त्यं)शसंयुक्तं [कुर्याद्वै] विधिवद् बुधः ।
मूलबेराङ्गुलं चैव मानाङ्गुलमेव वा ॥ २६ ॥
मात्राङ्गुलं ततः प्रोक्तमङ्गुलं त्रिविधं भवेत् ।
चतुर्विंशचतुर्भागं मूलबेरोदयं भवेत् ॥ २७ ॥
मूलबेराङ्गुलं(लेन) चैव(च) मानयेदुत्सवोदयम् ।
यवतारामष्टमात्रं स्यान्मानाङ्गुलमिति स्मृतम् ॥ २८ ॥
कर्तुर्देक्षिणहस्तस्य मध्यमाङ्गुलमध्यमे ।
पर्वदीर्घं तत(त्त)न्नाहं मात्राङ्गुलमुदीरितम् ॥ २९ ॥
एवं त्रिविधमुत्कृष्टं मध्यमष्टांशहीनकम् ।
त्रिपादं कन्यसं प्रोक्तं नवभेदाङ्गुलं भवेत् ॥ ३० ॥
स्थावरं जङ्गमं मानं मानाङ्गुलेन मानयेत् ।
मात्राङ्गुलेन चात्मार्थं बेरमानं प्रकल्पयेत् ॥ ३१ ॥
एकादशाङ्गलमारभ्य द्व्यङ्गुलाभवर्धनात् ।
त्रयोविंशाङ्गलवान्तं स्याद् देहलब्धाङ्गुलेन वा ॥ ३२ ॥
नवाङ्गुलं समारभ्य द्व्यङ्गुलाभविवर्धनात् ।
त्रयोविंशाङ्गलवान्तं स्यान्मानाङ्गुलेन मानयेत् ॥ ३३ ॥
सप्ताङ्गुलं समारभ्य द्व्यङ्गुलाभविवर्धनात् ।
त्रयोदशशतान्तं स्यान्माना(त्रा)ङ्गुलेन मानयेत् ॥ ३४ ॥
अङ्गुलानां तु सर्वेषां जात्यंशकं विवर्जयेत् ।
कुर्यादायादिषड्वर्गमुक्तवच्छिल्पिव(ल्पवि)त्तमः ॥ ३५ ॥
स्थावरं जङ्गमं चैव लक्षणं वक्ष्यतेऽधुना ।
द्विभुजं च द्विनेत्रं च मुण्डतारं च शीर्षकम् ॥ ३६ ॥
ऋजुस्थानकसंयुक्तं तथा चासनमेव च ।
समाङ्घ्रि ऋजु(ज्वा)कारं स्याद्व्रम्बहस्तद्वयं तथा ॥ ३७ ॥
आसनं च द्विपादौ च पद्मासनं तु संयुतम् ।
ऋजुकं च ऋजो(जु)भावं योगं तत्परमान्त(त्म)कम् ॥ ३८ ॥
सव्यापसव्यहस्तं च मूलोर्ध्वोर्ध्वमुखं करौ ।
स्थानकं चासनं वापि सिंहासनोपरि न्यसेत् ॥ ३९ ॥