Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s58: मुनिलक्षणम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s58
- Language
- English
मुनिलक्षणम्
v3.c24.s58.1
ऋषीणां लक्षणं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना ।
अगस्त्यः काश्यपश्चैव भृगुर्वा(वं)सिष्ठो भार्गवः ॥ १ ॥
विश्वामित्रस्तथा भारद्वाजः सप्तर्षयः क्रमात् ।
अगस्त्यं सप्ततालेन मानयेत्स्वङ्गमानकम् ॥ २ ॥
काश्यपं चाष्टतालेन मानयेदपि च भृगुम् ।
अन्याश्च ऋषिसर्वेषां(र्वा) नवतालेन कारयेत् ॥ ३ ॥
श्यामवर्णमगस्त्यं च काश्यपं पीतवर्णकम् ।
भृगुं [च] कृष्णवर्णं स्या(कुर्या)द् वसिष्ठं रक्तवर्णकम् ॥ ४ ॥
भार्गवं पिङ्गलाभं स्याद् विश्वामित्रं च रक्तकम् ।
भरद्वाजं च हारिद्रं वर्णमेवं क्रमाद् विदुः ॥ ५ ॥
द्विभुजं च द्विनेत्रं च जटाजूटेन मण्डितम् ।
पीताम्बरधरं चैव सर्वेषामपि मुनीनाम् ॥ ६ ॥
कुब्जाकारं बृहत्कुक्षि कपायं पूर्यशोभितम् ।
अगस्त्यं चमि(चैवे)ति प्रोक्तमन्यं चमि(चैवे)ति पौरुषम् ॥ ७ ॥
सर्वेषामपि मुनीनां यज्ञसूत्रोत्तरीयकैः ।
दण्डं च सव्यहस्तेन वामहस्तेन पुस्तकम् ॥ ८ ॥
अथवा यष्टिं विना सव्ये हस्तौ सदृश(शौ) मुनीनाम् ।
अथवाराध्यवत्कुर्यादासनानान्तु(नं स्थान)कं तु वा ॥ ६ ॥
वेदांशिक्यं(त्यं)शकं(के) तुङ्गे मूर्ध्निgreyतुङ्गं गुह्यांशकम् ।
दशांशं वक्त्रतुङ्गं स्याद् गुह्यांशं श्रोवतुङ्गकम् ॥ १० ॥
दशांशं हृदयान्तं स्यान्नाभ्यन्तं च दशाङ्गुलम् ।
भूतांशं मेढ्रसीमान्तं पीठांशं शुर(श्रोणि)गायतम् ॥ ११ ॥
v3.c24.s58.2
जानुतुङ्गं गुणांशं स्याज्जानुदीर्घोरुतुङ्गकम् ।
पादं जानुसमोचं स्यात्समलामिति स्मृतम् ॥ १२ ॥
विप्रांशं बाहुदीर्घ स्यात्कूर्परं सार्धमात्रकम् ।
प्रकोष्ठं षोडशांशं स्यात्तलमष्टांशमायतम् ॥ १३ ॥
पादायामं च रुद्रांशं मुखतारं सप्तमात्रकम् ।
श्रोवतारं शरांशं स्यात्तत्समं बाहुमूलके ॥ १४ ॥
कक्षान्तं मनुमात्रं स्याद् वक्षःस्थलविशालकम् ।
हृदयान्तं विशालं च द्वादशाङ्गुलमीरितम् ॥ १५ ॥
मध्योदरं विशालं स्यात्षोडशांशेन कारयेत् ।
कटितारं भास्करांशं स्यादष्टांशं चोरुविस्तृतम् ॥ १६ ॥
जानुतारं शरांशं स्याज्जङ्घातारं युगांशकम् ।
नलकान्तं त्रिमात्रं स्यात्तलतारं युगाङ्गुलम् ॥ १७ ॥
बाहोरग्रविशालं स्याद् युगमात्रं प्रशस्यते ।
प्रकोष्ठतारा(रम)र्धैन्वन्धां(न्बं) मणिवन्धं कलां(गुह्यां)रकम् ॥ १८ ॥
त्र्यर्धांशं तलविस्तारं तलदीर्घं(दैर्ध्यं) युगाङ्गुलम् ।
अङ्गुल्या(लिर)ङ्गुलदीर्घं स्यादगस्त्यं च(स्त्यञ्च) समीरिम(तः) ॥ १६ ॥
षष्ठाणवत्यधिकांशं स्यादेतत्तालोदयं भवेत् ।
षष्यीषं(पात्) तु केशां(शर्मं)शं मूर्ध्निर्तुङ्गं गुणांशकम् ॥ २० ॥
तस्मात्तु सार्धपञ्चत्यंशं हन्वन्तं तन्मुखायतम् ।
तस्मात्कर्ण(ण्ठं) गुणांशं स्यात्तस्मात्तु हृदयान्तकम् ॥ २१ ॥
सार्धदशांशं तस्मात्स(च स)मं नाभिकरान्तकम् ।
मध्योदरं च ए(तु चै) तस्मान्मेढांशं तु तत्समम् ॥ २२ ॥
तस्याधश्चैकविंशान्तमूरुदीर्घं (दैर्घ्यं) गुणांशकम् ।
जानुजङ्घोरुतुल्यं स्यात्पादजानुसमोच्छ्रयम् ॥ २३ ॥
मनुमात्रं पादायामं मुखतारं नवाङ्गुलम् ।
श्रोवतारं षडङ्गुल्यं बाहुपर्यन्तविस्तृतम् ॥ २४ ॥
त्र्यंशं त्र्यर्थमात्रं स्याद् बाहुमूलं रसांशकम् ।
बाहुदीर्घं(दैर्ध्यमे)कविंशांशं कूर्परं सार्धमात्रकम् ॥ २५ ॥
v3.c24.s58.3
प्रकोष्ठाद्यर्धवक्त्रं स्याद् वक्रायामसमं तलम् ।
अष्टतालमितिप्रोक्तं शेषं प्रागुक्तवन्नयेत् ॥ २६ ॥
नवतालोदयेत्वष्टभागाधिक्यं शतांशकम् ।
शिरस्तुङ्गं गलं जानु पादतुङ्गं गुणांशकम् ॥ २७ ॥
मुखं वक्षश्च कुक्षिश्च कटिदीर्घं (दैर्घ्यं) द्वादशांशकम् ।
ऊरुजङ्घायतं बाहुदीर्घ (दैर्घ्यं) षट्चतुरंशकम् ॥ २८ ॥
प्रकोष्टमष्टदशांशं स्यात्तत्सान्मन्ध्याङ्गुलान्तकम् ।
मुखायामसमं कुर्याद्बहुष्ठं पार्ष्णीकान्तकम् ॥ २९ ॥
पञ्चा (च्चा) दशाङ्गुलं पाददीर्घं (दैर्घ्यं) प्रागुक्तवन्नयेत् ।
मुनीनां लक्षणं प्रोक्तं शेषं युक्त्या प्रयोजयेत् ॥ ३० ॥
v3.c24.s58.4
इति मानमारे वास्तुशास्त्रे मुनिलक्षणविधानं नाम सप्तपञ्चाशदध्यायः ॥
Linked texts (1)
- Mānasāra — Sanskrit