Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s58.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s58.2
- Language
- English
v3.c24.s58.2
जानुतुङ्गं गुणांशं स्याज्जानुदीर्घोरुतुङ्गकम् ।
पादं जानुसमोचं स्यात्समलामिति स्मृतम् ॥ १२ ॥
विप्रांशं बाहुदीर्घ स्यात्कूर्परं सार्धमात्रकम् ।
प्रकोष्ठं षोडशांशं स्यात्तलमष्टांशमायतम् ॥ १३ ॥
पादायामं च रुद्रांशं मुखतारं सप्तमात्रकम् ।
श्रोवतारं शरांशं स्यात्तत्समं बाहुमूलके ॥ १४ ॥
कक्षान्तं मनुमात्रं स्याद् वक्षःस्थलविशालकम् ।
हृदयान्तं विशालं च द्वादशाङ्गुलमीरितम् ॥ १५ ॥
मध्योदरं विशालं स्यात्षोडशांशेन कारयेत् ।
कटितारं भास्करांशं स्यादष्टांशं चोरुविस्तृतम् ॥ १६ ॥
जानुतारं शरांशं स्याज्जङ्घातारं युगांशकम् ।
नलकान्तं त्रिमात्रं स्यात्तलतारं युगाङ्गुलम् ॥ १७ ॥
बाहोरग्रविशालं स्याद् युगमात्रं प्रशस्यते ।
प्रकोष्ठतारा(रम)र्धैन्वन्धां(न्बं) मणिवन्धं कलां(गुह्यां)रकम् ॥ १८ ॥
त्र्यर्धांशं तलविस्तारं तलदीर्घं(दैर्ध्यं) युगाङ्गुलम् ।
अङ्गुल्या(लिर)ङ्गुलदीर्घं स्यादगस्त्यं च(स्त्यञ्च) समीरिम(तः) ॥ १६ ॥
षष्ठाणवत्यधिकांशं स्यादेतत्तालोदयं भवेत् ।
षष्यीषं(पात्) तु केशां(शर्मं)शं मूर्ध्निर्तुङ्गं गुणांशकम् ॥ २० ॥
तस्मात्तु सार्धपञ्चत्यंशं हन्वन्तं तन्मुखायतम् ।
तस्मात्कर्ण(ण्ठं) गुणांशं स्यात्तस्मात्तु हृदयान्तकम् ॥ २१ ॥
सार्धदशांशं तस्मात्स(च स)मं नाभिकरान्तकम् ।
मध्योदरं च ए(तु चै) तस्मान्मेढांशं तु तत्समम् ॥ २२ ॥
तस्याधश्चैकविंशान्तमूरुदीर्घं (दैर्घ्यं) गुणांशकम् ।
जानुजङ्घोरुतुल्यं स्यात्पादजानुसमोच्छ्रयम् ॥ २३ ॥
मनुमात्रं पादायामं मुखतारं नवाङ्गुलम् ।
श्रोवतारं षडङ्गुल्यं बाहुपर्यन्तविस्तृतम् ॥ २४ ॥
त्र्यंशं त्र्यर्थमात्रं स्याद् बाहुमूलं रसांशकम् ।
बाहुदीर्घं(दैर्ध्यमे)कविंशांशं कूर्परं सार्धमात्रकम् ॥ २५ ॥