Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s58.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s58.1
- Language
- English
v3.c24.s58.1
ऋषीणां लक्षणं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना ।
अगस्त्यः काश्यपश्चैव भृगुर्वा(वं)सिष्ठो भार्गवः ॥ १ ॥
विश्वामित्रस्तथा भारद्वाजः सप्तर्षयः क्रमात् ।
अगस्त्यं सप्ततालेन मानयेत्स्वङ्गमानकम् ॥ २ ॥
काश्यपं चाष्टतालेन मानयेदपि च भृगुम् ।
अन्याश्च ऋषिसर्वेषां(र्वा) नवतालेन कारयेत् ॥ ३ ॥
श्यामवर्णमगस्त्यं च काश्यपं पीतवर्णकम् ।
भृगुं [च] कृष्णवर्णं स्या(कुर्या)द् वसिष्ठं रक्तवर्णकम् ॥ ४ ॥
भार्गवं पिङ्गलाभं स्याद् विश्वामित्रं च रक्तकम् ।
भरद्वाजं च हारिद्रं वर्णमेवं क्रमाद् विदुः ॥ ५ ॥
द्विभुजं च द्विनेत्रं च जटाजूटेन मण्डितम् ।
पीताम्बरधरं चैव सर्वेषामपि मुनीनाम् ॥ ६ ॥
कुब्जाकारं बृहत्कुक्षि कपायं पूर्यशोभितम् ।
अगस्त्यं चमि(चैवे)ति प्रोक्तमन्यं चमि(चैवे)ति पौरुषम् ॥ ७ ॥
सर्वेषामपि मुनीनां यज्ञसूत्रोत्तरीयकैः ।
दण्डं च सव्यहस्तेन वामहस्तेन पुस्तकम् ॥ ८ ॥
अथवा यष्टिं विना सव्ये हस्तौ सदृश(शौ) मुनीनाम् ।
अथवाराध्यवत्कुर्यादासनानान्तु(नं स्थान)कं तु वा ॥ ६ ॥
वेदांशिक्यं(त्यं)शकं(के) तुङ्गे मूर्ध्निgreyतुङ्गं गुह्यांशकम् ।
दशांशं वक्त्रतुङ्गं स्याद् गुह्यांशं श्रोवतुङ्गकम् ॥ १० ॥
दशांशं हृदयान्तं स्यान्नाभ्यन्तं च दशाङ्गुलम् ।
भूतांशं मेढ्रसीमान्तं पीठांशं शुर(श्रोणि)गायतम् ॥ ११ ॥
Linked texts (1)
- Mānasāra — Sanskrit