Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s62.12

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s62.12

Language
English

v3.c24.s62.12

केचित्तच्छ्र(ङ्कि)यार्थं तु तार्र्य्यं वर्णं विशेषतः ।
केशान्तात्कर्णसीमान्तं श्यामनीलाभसीम कम् ॥ ३६ ॥
भित्तिकाद्धृदयान्तं च तद्द्वयो(यं) कूर्परान्तकौ(कम्) ।
पञ्चवर्णसमं श्रितपञ्चकाञ्चुककञ्चुकी ॥ ४० ॥
हृदयात्कटिसूत्रान्तं प्रकोष्ठादिकरामयोः ।
पीतवर्णमिति प्रोक्तं तस्माद् [योर्] जानुकान्तकम् ॥ ४१ ॥
रक्तवर्णं तु पादान्तं श्वेतवर्णनिभं भवेत् ।
द्विभुजाग्रं च वक्त्रं च द्विपादौ कुचितौ भवेत्(ताम्) ॥ ४२ ॥
स्थानकं चासनं वापि विष्णुं ध्यात्वा(येत्) कृताञ्जलिः ।
सर्वालङ्कारसंयुक्तं ग्रामे स्थाप्यं स्वतन्त्रकम् ॥ ४३ ॥
एवमैश्वर्यसिद्धिः स्यात्तन्मात्रैरर्चयेत्सुधीः ।
अभिचारादिकाम्य(म्या)र्थं तार्क्ष्यंरूपं विशेषतः ॥ ४४ ॥
पाद(दं) स्थानकं कुर्याद् वक्त्रं चासनं भागतः ।
सर्वाङ्गं स्वर्णवर्णं स्यात्पञ्चकञ्चुकिपूर्वकम् ॥ ४५ ॥
वपुषं तु निर्वाणमयो हस्तौ कृताञ्जलिम् ।
शीर्षं च सिंहपत्रैश्च(वक्त्रं च) संयुक्तं पञ्चवर्णयुक् ॥ ४६ ॥
नाभिषेकं शिरो(र ऊ)र्ध्वं तु कुक्कुटस्य शिरोऽप्रवत् ।
रक्तवर्णं तु पुच्छाग्रं पञ्चमान्तं(त्रं) तदायतम् ॥ ४७ ॥
घनं चोर्ध्ववक्त्रं च न प्रच्छादनमास्यकम् ।
सप्ताष्टपूर्ववत्साङ्गेर्वर्णवैपर्य्यं विश्वतः ॥ ४८ ॥
सौ(सु)प्रामे क्षेत्रसीमान्ते चान्यप्र(त्र) निरीक्ष्यम् ।
क्षणिकार्यर्थं संस्थाप्य पूजयेत्तन्त्रवित्तमः ॥ ४६ ॥
त्रिनाडि त्रिदिने वापि त्रिपक्षे वा त्रिमासके ।
नित्यं त्रिकालं संपूज्य शत्रुनाशं न संशयः ॥ ५० ॥
रिपुसंग्रहणार्थं चेद्धस्ती रात्रौ च कारयेत् ।
युद्धकाले रिपुसंभं(भव)स्तम्भं हस्तौ च बन्धनम् ॥ ५१ ॥
शिलामृण्मये वापि दारुजे कटि(ट)शर्करा(रया) ।
एतेषां(तैः) वैनतेयं च वर्णसंस्का[क]रमेव च ॥ ५२ ॥