Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s62: गरुडलक्षणम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s62

Language
English

गरुडलक्षणम्

v3.c24.s62.1

विहङ्गराजमानं च लक्षणं वक्ष्यतेऽधुना।

v3.c24.s62.2

मूलबेरसेमो(ममु)त्तुङ्गं [तत्]त्रिपादमर्धमेव वा ॥ १ ॥ उत्सवोचं समं वापि द्विगुणं त्रिगुणमेव वा । त्रिगुणार्याधिकं वापि तच्चतुर्गुणमेव वा ॥ २ ॥ एवं नवोदयं प्रोक्तमुत्तमादि त्रयं त्रयम् । तत्तत्त्रिंशतिकं कृत्वा ए(चै)कैकांशविवर्धनात् ॥ ३ ॥ पञ्चविंशच्छतान्तं स्यात्तच्छुभायादिसंभवम् । अथवाङ्गुलमानेन कल्पयेद् गरुडोदयम् ॥ ४॥ एकाङ्गुलं समारभ्य द्व्यङ्गलविवर्धनात् । त्रयोविंशच्छतान्तं स्यान्मानायादिं कारयेत् ॥ ५ ॥ द्विजराजायं वापि मानयेद् गरुडोदयम् । पीठतारसमा(मम)र्ध्यर्थं पादोने द्विगुणं तु वा ॥ ६ ॥ द्विगुणात्पादमधिक्यं द्विगुणार्याधिकं तु वा । पादेनत्रिगुणं वापि त्रिगुणं पादमधिकम् ॥ ७ ॥ एवं नवविधं मानं कन्यसादीनि कारयेत् । तदायामसमं वापि त्रिपादं चार्यमेव वा ॥ ८ ॥ उत्तमादि त्रयं प्रोक्तं गरुडस्योदयं विदुः । न कुर्यात्पट्शुभायादि कुर्यात्तद्दंशमानतः ॥ ६ ॥ स्थानकं चासनं चैव गमनं च यथाविधि । उष्णोषात्पादपर्यन्तं गृहीतोत्तुङ्गं मानतः ॥ १० ॥ तत्तन्मानवशात्केचिन्मूलबेरवशान्यसेत् । उत्सवे चोत्सवं प्रोक्तमङ्गुलं मानविश्रुतः ॥ ११ ॥

v3.c24.s62.3

एवं माने तु संप्राप्ते यावल्लारूक्तवद् भवेत् ।
चलं वाप्यचलं वापि कारयेच्छल्पवित्तमः ॥ १२ ॥
षड्वर्गायादिषु सुलक्षणं वक्ष्यतेऽधुना ।
सर्वेषां वाहनानां चायादांश्च यथा तथा ॥ १३ ॥
यथावाहनतुङ्गे तु वृद्धिहान्या यथाक्रमम् ।
गरुडं चैव हंसं च वृषभं चैव सिंहके ॥ १४ ॥
आयमष्टाभिर्वृद्धिः स्याद् द्वादशा(शभिः) क्षयमेव च ।
पञ्चवेदैश्च वृद्धिः स्याद् व्ययं हृत्वा दशमे(भिरे)व वा ॥ १५ ॥
योनिश्च त्रय(त्रिभिर) वृद्धिः स्याद् ध्रुवे(धेयात) चाष्टकमे(कैरे)व च ।
तदृक्षाऽष्टकवृद्धिः स्याद् गुणविंशत्क्षयो भवेत् ॥ १६ ॥
वारं महैश्च वृद्धिः स्यात्सप्तमी(मिश्रं) च क्षयो भवेत् ।
अंशं च चतुर्वृद्धिः (द्विश) च नवमी च(मिश्रं) क्षयो भवेत् ॥ १७ ॥
तच्छ्रेयं सर्वमायादि षड्वर्गं चैव कारयेत् ।
आयाधिक्यं व्ययं हीनं चोत्तरं तु व्ययाधिकम् ॥ १८ ॥
ध्वजो सिंहो वृषो हस्तो शुभयोनिरिति स्मृतम् ।
सिंहे च गजयोनिश्चेत् शु(च्छु)भं तस्माद्दिना गजम् ॥ १९ ॥
विवत्प्रत्यरगोदस्त्वि(स्ता)हीनान्यान(न्य)दिनं शुभम् ।
सौर्यार्काङ्गारवारं च वर्जयेच्छुभमन्यथा ॥ २० ॥
तस्करादि न षण्डं च प्रेष्यांशांनि विवर्जयेत् ।
एवमायादिकं कुर्यादङ्गमाने प्रवक्ष्यते ॥ २१ ॥
ज्वार(ऋजु) चरणरविबन्धैः (न्धु) द्वादशार्कार्कभानु
द्वयरसगुणचतुष्कं बन्ध (बन्धु) केशाननं च ।
गलधरमधरगुह्ये स्थाणुजान्वंघ्रि (इमित्रि) कं तत्
पदमिति गरुडतुङ्गं नन्दतालं (लं)क्रमेण ॥ २२ ॥
अथ सिंहपदतलानां पञ्चा(चा) दशदशांशम् ॥ २३ ॥
वदनं द्विगुणं बाह्रायतं कूर्पराचं प्रमुखकरैर्यष्टिपदम् ।
वलातलं तत्कथितमिति पुराणैः सुरिभिस्तत्र तन्त्रज्ञैः ॥ २४ ॥

v3.c24.s62.4

वन(नव)विपुलतालं कर्णमष्टांशतारम्
विस्तृतं शरयुगांशं कच्योरन्तरख(स्व)म् ।
हृदयविस्तृतं चैकाधिक्यमष्टद्वयांशम्
उदरतति युग(गा)ष्टं श्रोणितुल्यं च तारम् ॥ २५ ॥

v3.c24.s62.5

तस्याधः कटिविशालं सप्त(प्तं)पङ्क्त्यंशं चोक्तुः
वृत्तं तत्समविशालं मूलपिण्डाष्टभागम् ।
तत्र जैनन(नं) जङ्घामूलविस्तारमध्ये
विस्तृतचर[णं] युगांशं गुल्फविस्तारमेव ॥ २६ ॥

v3.c24.s62.6

पदमिति विपुल(लं) भूता(तम)ङ्गुष्ठदीर्घ(दैर्घ्यं) गुहांशम्
तदपि च सम(मं) विमुह्यातर्जनीदीर्घ(दैर्घ्यं)मुक्तम् ।
नवपदसदशमन्यैरङ्गुली चान्यतुर्यम्
नराभिमानं(न)शिल्पिविद्विद्भिरैव ॥ २७ ॥

v3.c24.s62.7

मुनिरसशरयुगांशं बाहुसन्धिस्रदेशे
प्रमुखरविविशालैर्मध्यमामक्रमेण ।
अनलमनिविशालां तत्सदायामषड्भिः
प्रसृतरसयुगांशं मध्यमात्रा(प्रा)यतं च ॥ २८ ॥

v3.c24.s62.8

शरयुगयवाधिकांशानामिका तर्जनीयी
गुणम[न]ङ्गं कनिष्ठदीर्घाङ्गुलुष्ठायाममेतत् ।
त्रयकृतमुखविधिज्ञैः स्मायते चाक्षिकान्तम्
स्फुटमिति मतिः वे(वै)न्द्रैश्च सदृक् तारम् ॥ २९ ॥

v3.c24.s62.9

ध्रुवद्रुत(ग्म)नयनकेशान्त[श्व]योर्मध्यदेशे
गुणयुतनयनमेवं तत्पुटान्त[स्स]योस्तत् ।
युग(गं) यवविहृतदीर्घं तद्गोजिमूलात्तु नाभि
तदुदयविपरीतमन्यं विहृतस्त्वाभ्रवंशम् ॥ ३० ॥

v3.c24.s62.10

विशालाधिकगोजिकाम चो(मु)त्तरमष्टाध्र्धमानम्
विस्तृतमिव तदुक्तं वेद्रमात्रायतं च ।
अधरविहृतपादत्रितुङ्गा(श्वा)यतान्तम्
विस्तृतदीर्घशेषमन्त्रं(न्यं) तु युक्त्या ॥ ३१ ॥

v3.c24.s62.11

वक्रायामं तत्समं नासिकाग्रम्
युक्त्या मानं कर्णरन्ध्रावसानम्।
दृग्वंशं तं श्रोत्रतुङ्गं तदर्धम्
तदर्धं विस्तारं नालमेवं तथैव ॥ ३२ ॥ 80
एवं प्रोक्ता (क्तम) नुक्तमानं तु सर्वम्
मानं कुर्यात्पण्डितालोक्तवत्।
ह्रावं(रं) यावत्कूर्परन्ध्रकान्तम्
बाहुपचौ चाङ्गुलं कञ्चुकेन ॥ ३३ ॥ 84
नासिका शुकतुण्डं पदामे
हंसकास्यदृष्ट्वत्कुर्यात् ।
श्वेतवर्णनखैरपि वक्रयुक्
श्यामवर्णमतितुण्डाग्रके ॥ ३४ ॥ 88
अष्टनागविभूषणपञ्चवक्त्रयुक्तू
तन्महक् मकुटं सकरण्डकम् ।
वर्णनीलसमरत्नमण्डलं कृतम्
तप्तहेमनिभं गरुडं भवेत् ॥ ३५ ॥ 92
पञ्चवर्णसमन्त्रि(न्वि)तपक्षयुक्तू
शङ्खवत्कर्णशिरावृतम् ।
कुञ्चितः सहितगमनेऽपि च
सञ्चितस्थितभावमिति स्मृतम् ॥ ३६ ॥ 96
मूर्ध्नि शङ्खं चोरवर्णावृतं च
वामे कर्णे पद्मवर्णाभपद्मा(द्मम्) ।
सव्ये कर्णे तन्महापद्ममेव
धूम्रवर्णं हारकार्कोटकं च ॥ ३७ ॥ 100
गुलि(ड) कस्कन्धौ लम्बयेत्कृष्णवर्णं (सर्प) म्
व्याघृ(घासू) रूवर्णं वा सद्विवन्नसूत्रम् ।
अन्त(त्य)न्तं शुक्लवर्णभं वामप्रकोष्ठे
हिरण्यवर्णं वाद्यर्कस्य कटकम् ॥ ३८ ॥ 104

v3.c24.s62.12

केचित्तच्छ्र(ङ्कि)यार्थं तु तार्र्य्यं वर्णं विशेषतः ।
केशान्तात्कर्णसीमान्तं श्यामनीलाभसीम कम् ॥ ३६ ॥
भित्तिकाद्धृदयान्तं च तद्द्वयो(यं) कूर्परान्तकौ(कम्) ।
पञ्चवर्णसमं श्रितपञ्चकाञ्चुककञ्चुकी ॥ ४० ॥
हृदयात्कटिसूत्रान्तं प्रकोष्ठादिकरामयोः ।
पीतवर्णमिति प्रोक्तं तस्माद् [योर्] जानुकान्तकम् ॥ ४१ ॥
रक्तवर्णं तु पादान्तं श्वेतवर्णनिभं भवेत् ।
द्विभुजाग्रं च वक्त्रं च द्विपादौ कुचितौ भवेत्(ताम्) ॥ ४२ ॥
स्थानकं चासनं वापि विष्णुं ध्यात्वा(येत्) कृताञ्जलिः ।
सर्वालङ्कारसंयुक्तं ग्रामे स्थाप्यं स्वतन्त्रकम् ॥ ४३ ॥
एवमैश्वर्यसिद्धिः स्यात्तन्मात्रैरर्चयेत्सुधीः ।
अभिचारादिकाम्य(म्या)र्थं तार्क्ष्यंरूपं विशेषतः ॥ ४४ ॥
पाद(दं) स्थानकं कुर्याद् वक्त्रं चासनं भागतः ।
सर्वाङ्गं स्वर्णवर्णं स्यात्पञ्चकञ्चुकिपूर्वकम् ॥ ४५ ॥
वपुषं तु निर्वाणमयो हस्तौ कृताञ्जलिम् ।
शीर्षं च सिंहपत्रैश्च(वक्त्रं च) संयुक्तं पञ्चवर्णयुक् ॥ ४६ ॥
नाभिषेकं शिरो(र ऊ)र्ध्वं तु कुक्कुटस्य शिरोऽप्रवत् ।
रक्तवर्णं तु पुच्छाग्रं पञ्चमान्तं(त्रं) तदायतम् ॥ ४७ ॥
घनं चोर्ध्ववक्त्रं च न प्रच्छादनमास्यकम् ।
सप्ताष्टपूर्ववत्साङ्गेर्वर्णवैपर्य्यं विश्वतः ॥ ४८ ॥
सौ(सु)प्रामे क्षेत्रसीमान्ते चान्यप्र(त्र) निरीक्ष्यम् ।
क्षणिकार्यर्थं संस्थाप्य पूजयेत्तन्त्रवित्तमः ॥ ४६ ॥
त्रिनाडि त्रिदिने वापि त्रिपक्षे वा त्रिमासके ।
नित्यं त्रिकालं संपूज्य शत्रुनाशं न संशयः ॥ ५० ॥
रिपुसंग्रहणार्थं चेद्धस्ती रात्रौ च कारयेत् ।
युद्धकाले रिपुसंभं(भव)स्तम्भं हस्तौ च बन्धनम् ॥ ५१ ॥
शिलामृण्मये वापि दारुजे कटि(ट)शर्करा(रया) ।
एतेषां(तैः) वैनतेयं च वर्णसंस्का[क]रमेव च ॥ ५२ ॥

v3.c24.s62.13

त्रिंशत्यंशममपच्क्षम्
तस्मादूके (द्वधः) पञ्चकैकांशहीनम् ।
तद्वदग्रे मूलतारं शरांशम्
पक्षैः सर्वैश्चामतारं यथेष्टम् ॥ ५३ ॥
बाह्याबाह्ये पक्षसंयुक्तमेतत्
बाह्योक्षा (क्षो वा) ग्रे संयुक्तं चामपत्रम् ।
मानं कृत्वा पञ्चपक्षैः प्रधानम्
मानानुक्तं कन्यसा शोभनार्थम् ॥ ५४ ॥
पीतं श्वेतं श्यामरक्तं च कृष्णम्
मूलाग्रान्तं पञ्चवर्ण क्रमेण ॥ ५५ ॥
मात्रावर्धांश (द्वांस) वत् कर्णसंयुक्तम्
श्रोण्यां च पक्षैः पङ्कितः पञ्चधा स्यात् ।
वक्त्रं तुण्डं विस्तृतं विहीनके
कर्तुर्मरणं न संशयः ॥ ५६ ॥
यत्र मानं विधिवत्प्रकारयेत्पुत्रवृद्धिः ॥ ५७ ॥

v3.c24.s62.14

इति मानमारे वास्तुशास्त्रे गरुडमानविधानं नाम एकषष्टितमोऽध्यायः ॥

Linked texts (2)