Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s65: प्रतिमाविधानम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s65
- Language
- English
प्रतिमाविधानम्
v3.c24.s65.1
षोडशप्रतिमादीनां विष्णुविभवसर्वतः ।
षष्ठीपात्पादपर्यन्तं माने संक्षिप्यतेऽधुना ॥ १ ॥
लिङ्गमानवशाद् विष्णुमूलबेरवशात्क्रमात् ।
उत्तमं मध्यमं सा(धा)र्धमर्धगेहविशालके ॥ २ ॥
हर्म्यतारवशाद् द्वारं वंशा(रवशाद्) विष्ठानपादुके ।
हस्तमानवशाद् गृ(प्रा) ह्यं तालमाना(नन)वतालके ॥ ३ ॥
यजमानवशान्मूलबेरलिङ्गाङ्गुलं तथा ।
मानाङ्गुलवशन्मानं मानद्वादशभेदकम् ॥ ४ ॥
लिङ्गमानादिषण्मानं भोगमानं(मोक्षार्थं) सिद्धि(धर्म)दम् ।
हस्तादिवशान्मानं भोगमानं(क्षं) प्रशंसितम् ॥ ५ ॥
अङ्गुलं मुक्तिकामस्य कर्तुरिच्छावशाद्भवेत् ।
तस्मात्तन्मूललिङ्गादिमानं मानघृतमुरुयते ॥ ६ ॥
लिङ्गे स्वयंभुवे ज्ञात्वा मानुषे च द्विधा भवेत् ।
स्वयंभुलिङ्गे तु शिरोमानं च संग्रहम् ॥ ७ ॥
परिणाह्ये यथा स्थूलं(ल)देशे विस्तारं मानयेत् ।
मानुषं(ष) लिङ्गतुङ्गे तु तच्छिरोमानकं त्यजेत् ॥ ८ ॥
विस्तारे परिणाहं तु यदिच्छं देहं गृह्यते ।
एवं लिङ्गद्वयोत्तुङ्गे पीठमानं त्यजेद् बुधैः (धः) ॥ ६ ॥
लिङ्गशुद्धोदयं वाथ तत्तन्नाहसमं भवेत् ।
केचित्तन्त्रयमानं तु षोडशांश(शे) विभाजिते ॥ १० ॥
तत्तदंशेन वृद्धिः स्याद्धीनं वा देशकान्त(त्त)कम् ।
अथवा तत्तदंशेन लोकभूततलांशकम् ॥ ११ ॥
v3.c24.s65.2
नवमेकादशं चैव ह्यधिक्यं वाथ हीनकम् ।
एवं लिङ्गवशोक्ताक्तं विष्णुबेरवशो (शादु)च्यते ॥ १२ ॥
मूलबेरसमं वापि नेत्रान्तं वा पुटान्तकम् ।
हन्वन्तं बाहुसीमान्तं स्तनान्तं हृदयान्तकम् ॥ १३ ॥
नाभ्यन्तं मेढ्रसीमान्तं नवमानं चोत्सवोदयम् ।
तदर्थं कौतुकोत्सेधं कन्यसादि त्रयं त्रयम् ॥ १४ ॥
शुद्धगर्भगृहं कृत्वा नन्दनन्दोदयं भवेत् ।
तदेवं नवमानं स्यान्नवतिविधमानकम् ॥ १५ ॥
एवं गर्भगृहमानवशान्मानं प्रकल्पयेत् ।
प्रासादविधि(स्तु)ते मानं गर्भगृहप्रमाणवत् ॥ १६ ॥
शुद्धद्वारोदयं वाथ विस्तारे ... [चाया] मे [ए]व वा ।
तत्पादाधिकहीनं वा तत्त(त्त) र्थान्तर्मध्यमानके ॥ १७ ॥
समं वा पादमाधिक्यं द्वारमाने दशो (नवो) दयम् ।
अधिष्ठानोदयं चैव पादतुङ्ग (ङ्गे) द्वयं ततः ॥ १८ ॥
प्रत्येकं नवधा कृत्वा नवमानमुदीरितम् ।
हस्तादिनवहस्तान्तं हस्तमानवशोदयम् ॥ १९ ॥
तालादिनवतालान्तं नवतालादिमानकम् ।
मुष्ट्यादि नवमुष्ट्यन्तं मुष्टिमाननवोदयम् ॥ २० ॥
कर्तृत्तुङ्गसमं वापि नेत्रान्तं च पुटान्तकम् ।
हन्वन्तं स्कन्धसीमान्तं स्तनान्तं हृदयान्तकम् ॥ २१ ॥
नाभिमेढ्रविधानं स्यात्कर्तृमाने नवोदयम् ।
एतेषां चाष्टमानं तज्जात्यंशैस्तु नियोजयेत् ॥ २२ ॥
तन्मानं शिल्पिभिः प्राज्ञा(ज्ञैः) षट्शुभायादि कारयेत् ।
अशुभ्रायादिकं चोक्तं त्रिशद्भाग(गे) विभाजिते ॥ २३ ॥
तद्भागेकेन वृद्धिः स्याद् यश शु(च्छु)भायादिसंभवम् ।
सकलं चोत्सवादीनां यश शु(च्छु) भांशावसानकम् ॥ २४ ॥
अंशकं मानमेवोक्तमङ्गुलैर्मानमुच्यते ।
यल्लिङ्गतुङ्गं संभाव्य चतुर्विंशाच्छतान्तकम् ॥ २५ ॥
v3.c24.s65.3
लिङ्गाङ्गुलमिति प्रोक्तं बेरं तालवशादपि ।
कृत्वा बेराङ्गुलं प्रोक्तं मानाङ्गुलमिहोच्यते ॥ २६ ॥ 52
यवताराष्टमात्रं स्याद् देवानामतुलं भवेत् ।
मध्यं मुनियवाहुल्यं षट्पञ्चाङ्गुलायतम् ॥ २७ ॥
मानाङ्गुलमिति प्रोक्तं देहलव्धाङ्गुलं भवेत् ।
अङ्गुलद्वयमारभ्य जात्यंशम(शे) विनोदयम्(यं स्यात्) ॥ २८ ॥ 56
द्वित्र्यङ्गुलं समारभ्य मध्ये भूताङ्गुला(लमा)रभेत्(त) ।
सप्ताङ्गुलं समारभ्य द्विद्यङ्गुलविवर्धनात् ॥ २६ ॥
पञ्चविंशच्छतान्तं स्याद् यश शु(च्छु)भायादिसंभवम् ।
नागं नन्दं गुणां चाहनवेवगुणस्तथा ॥ ३० ॥ 60
भानुपङ्क्त्यष्टहर्मी (र्चिमु) निनन्दक्तयं क्रमात् ।
शेषमायामयोन्त्यं च (यं व्ययं योनिश्च) नक्षत्रं वारमंशकम् ॥ ३१ ॥
इ(दा)रिद्रं दारनाशं च श्रीकं(करं) विजयाद्भुतम् ।
भुक्ति मु(क्तिर्मु)क्ति च(क्तिश्च) भोगं च अ(गस्तु चा)र्थलाभद्वयावहम् ॥ ३२ ॥ 64
कीर्तिदं पुष्कलं चैव द्वादशायां [शं] च तत्फलम् ।
सिद्धिदं विजयं चैव श्रीकरं चार्थहानिकम् ॥ ३३ ॥
भोगं च शत्रुनाशं च चतुर्मा(रा)यार्थलाभकम् ।
मुदितं सौख्यकं चैव दशधा वेद्यतन् (व्ययस्य) फलम् ॥ ३४ ॥ 68
आयं सर्वहरं पुण्यं व्ययं सर्वहरं सुखम् ।
आयाधिक्यं व्ययं हीनं सर्वसंपत्क ं सदा ॥ ३५ ॥
यत्फलं शुभयुक्तं चेदायहीनं त[द्]दूषणम् ।
पूज्यं व्ययं सममेवं तत्र दोषो न विद्यते ॥ ३६ ॥ 72
ध्वजः सिंहो वृषो हस्ति(स्ती) स तेषां शुभयोनयः ।
जन्मद्वयं चतुःषष्टिभिरष्टनन्दशुभऋतम्(भर्चकम्) ॥ ३७ ॥
नामजन्मादिनन्दं च गणनैस्तु विधीयते ।
कर्तृराश्यादिनाशयं (रभ्य) च सेना (र्मात्र) द्वितीयान्तकम् ॥ ३८ ॥ 76
तृतीये मा(मौ)नजक्षादौ पूर्ववद् गणनैस्तु वा ।
तस्मात्तृतीयपर्यन्तमुच्चैः सर्वशुभावहम् ॥ ३६ ॥
v3.c24.s65.4
गुरुशुक्रबुध[श्]चन्द्रसूर्य्यवारं प्रशस्यते ।
तस्करोधन(नं) षण्डञ्च(ण्डं च) प्रेष्यान्यानि शुभांशकम् ॥ ४० ॥
वर्ज्यं षष्ठाष्टमं राशिमन्यत्सर्वं शुभं भवेत् ।
गस्(जः) सर्वशुभं प्रोक्तं मानुषामुरं वर्जयेत् ॥ ४१ ॥
एकनेत्रं द्विनेत्रं वा संयुक्ता सं(क्रांशं) विसर्जयेत् ।
शुभयोगं शुभमेवं मृत्ययोगविनाशनम् ॥ ४२ ॥
यत्र दोषो गुणाधिक्यं तत्र दोषो न विद्यते ।
तेषामधिकगुणं वानं(न्यं) सर्वदोषकरं भवेत् ॥ ४३ ॥
तस्मात्परिहरेद् विद्वान् जनमेवं प्रकल्पयेत् ।
तन्मात्राङ्गुलमानोचमात्मार्थं प्र... यम् (योजयेत्) ॥ ४४ ॥
कुर्यादायादि सर्वेषां चोक्तवच्छिल्पिवित्तमः ।
अन्या(न्यो)न्यमन्यतो ग्राह्यं चोक्तवत्तत्र(त्त)वित्तमः ॥ ४५ ॥
ब्रह्माविष्णु[श्च]रुद्राणां बुध(द्ध)स्य ज(जि)नकस्य च ।
अन्यैश्च... व(न्येषां च प्रतिमानामेवं) मानं तु संग्रहम् ॥ ४६ ॥
एवं तु चोत्सवादीनां स्थावरं(र)जङ्गमादिनः(दीनाम्) ॥
v3.c24.s65.5
इति मानमारे वास्तुशास्त्रे प्रतिमाविधानं नाम चतुःषष्टितमोऽध्यायः ॥
Linked texts (1)
- Mānasāra — Sanskrit