Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s65.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s65.1
- Language
- English
v3.c24.s65.1
षोडशप्रतिमादीनां विष्णुविभवसर्वतः ।
षष्ठीपात्पादपर्यन्तं माने संक्षिप्यतेऽधुना ॥ १ ॥
लिङ्गमानवशाद् विष्णुमूलबेरवशात्क्रमात् ।
उत्तमं मध्यमं सा(धा)र्धमर्धगेहविशालके ॥ २ ॥
हर्म्यतारवशाद् द्वारं वंशा(रवशाद्) विष्ठानपादुके ।
हस्तमानवशाद् गृ(प्रा) ह्यं तालमाना(नन)वतालके ॥ ३ ॥
यजमानवशान्मूलबेरलिङ्गाङ्गुलं तथा ।
मानाङ्गुलवशन्मानं मानद्वादशभेदकम् ॥ ४ ॥
लिङ्गमानादिषण्मानं भोगमानं(मोक्षार्थं) सिद्धि(धर्म)दम् ।
हस्तादिवशान्मानं भोगमानं(क्षं) प्रशंसितम् ॥ ५ ॥
अङ्गुलं मुक्तिकामस्य कर्तुरिच्छावशाद्भवेत् ।
तस्मात्तन्मूललिङ्गादिमानं मानघृतमुरुयते ॥ ६ ॥
लिङ्गे स्वयंभुवे ज्ञात्वा मानुषे च द्विधा भवेत् ।
स्वयंभुलिङ्गे तु शिरोमानं च संग्रहम् ॥ ७ ॥
परिणाह्ये यथा स्थूलं(ल)देशे विस्तारं मानयेत् ।
मानुषं(ष) लिङ्गतुङ्गे तु तच्छिरोमानकं त्यजेत् ॥ ८ ॥
विस्तारे परिणाहं तु यदिच्छं देहं गृह्यते ।
एवं लिङ्गद्वयोत्तुङ्गे पीठमानं त्यजेद् बुधैः (धः) ॥ ६ ॥
लिङ्गशुद्धोदयं वाथ तत्तन्नाहसमं भवेत् ।
केचित्तन्त्रयमानं तु षोडशांश(शे) विभाजिते ॥ १० ॥
तत्तदंशेन वृद्धिः स्याद्धीनं वा देशकान्त(त्त)कम् ।
अथवा तत्तदंशेन लोकभूततलांशकम् ॥ ११ ॥