Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s65.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s65.2

Language
English

v3.c24.s65.2

नवमेकादशं चैव ह्यधिक्यं वाथ हीनकम् ।
एवं लिङ्गवशोक्ताक्तं विष्णुबेरवशो (शादु)च्यते ॥ १२ ॥
मूलबेरसमं वापि नेत्रान्तं वा पुटान्तकम् ।
हन्वन्तं बाहुसीमान्तं स्तनान्तं हृदयान्तकम् ॥ १३ ॥
नाभ्यन्तं मेढ्रसीमान्तं नवमानं चोत्सवोदयम् ।
तदर्थं कौतुकोत्सेधं कन्यसादि त्रयं त्रयम् ॥ १४ ॥
शुद्धगर्भगृहं कृत्वा नन्दनन्दोदयं भवेत् ।
तदेवं नवमानं स्यान्नवतिविधमानकम् ॥ १५ ॥
एवं गर्भगृहमानवशान्मानं प्रकल्पयेत् ।
प्रासादविधि(स्तु)ते मानं गर्भगृहप्रमाणवत् ॥ १६ ॥
शुद्धद्वारोदयं वाथ विस्तारे ... [चाया] मे [ए]व वा ।
तत्पादाधिकहीनं वा तत्त(त्त) र्थान्तर्मध्यमानके ॥ १७ ॥
समं वा पादमाधिक्यं द्वारमाने दशो (नवो) दयम् ।
अधिष्ठानोदयं चैव पादतुङ्ग (ङ्गे) द्वयं ततः ॥ १८ ॥
प्रत्येकं नवधा कृत्वा नवमानमुदीरितम् ।
हस्तादिनवहस्तान्तं हस्तमानवशोदयम् ॥ १९ ॥
तालादिनवतालान्तं नवतालादिमानकम् ।
मुष्ट्यादि नवमुष्ट्यन्तं मुष्टिमाननवोदयम् ॥ २० ॥
कर्तृत्तुङ्गसमं वापि नेत्रान्तं च पुटान्तकम् ।
हन्वन्तं स्कन्धसीमान्तं स्तनान्तं हृदयान्तकम् ॥ २१ ॥
नाभिमेढ्रविधानं स्यात्कर्तृमाने नवोदयम् ।
एतेषां चाष्टमानं तज्जात्यंशैस्तु नियोजयेत् ॥ २२ ॥
तन्मानं शिल्पिभिः प्राज्ञा(ज्ञैः) षट्शुभायादि कारयेत् ।
अशुभ्रायादिकं चोक्तं त्रिशद्भाग(गे) विभाजिते ॥ २३ ॥
तद्भागेकेन वृद्धिः स्याद् यश शु(च्छु)भायादिसंभवम् ।
सकलं चोत्सवादीनां यश शु(च्छु) भांशावसानकम् ॥ २४ ॥
अंशकं मानमेवोक्तमङ्गुलैर्मानमुच्यते ।
यल्लिङ्गतुङ्गं संभाव्य चतुर्विंशाच्छतान्तकम् ॥ २५ ॥