Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s66.20

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s66.20

Language
English

v3.c24.s66.20

बृहती सप्तांशकं कक्षान्तरसमायतम् ।
बृहती स्तनसीमन्तं सार्धद्विरणुमात्रकम् ॥ ८२ ॥
त्रयोदशांशकं चैव कटिसूत्रं तु विस्तृतम् ।
ऊरुमूलं तु निर्गमं च तत्समं तु युगाङ्गुलम् ॥ ८३ ॥
विस्तारं नवांशं स्यात्तत्तत्पिण्डी सुवृत्तकौ ।
स्तनपीठं द्विमात्रं स्याद् विस्तारं तत्सुवृत्तकम् ॥ ८४ ॥
स्तनपञ्चद्वयस्यान्तं तत्समं चोदयं तथा ।
हिक्का च(काया) हृदयं चै(यस्यै)व निम्नकं च यवं स्मृतम् ॥ ८५ ॥
हिक्कात्(या) स्तनान्तं स्यात् हि(द्वि)काया कक्षान्तरं तथा ।
सार्धत्रयोदशांशं स्याद् द्वियवं नाभिनिम्नकम् ॥ ॥ ८६ ॥
नाभिप्रदक्षिणावृत्तं मुकुलवत्कारयेद् बुधैः ।
नाभ्यधः कटिसीमन्तं कुक्षिदीर्घं(दैर्घ्यं) षडङ्गुलम् ॥ ८७ ॥
नाभ्या[ङ्] वस्तिसीमन्तं वेदमात्रं प्रशस्यते ।
कटितुङ्गा(ङ्गम्) र्धसप्तांशं तस्यान्तं मेढ्रमूलकम् ॥ ८८ ॥
मेढ्रपीठस्य विस्तारं चतुर्मात्रं प्रशस्यते ।
तस्मात्तु लिङ्गदीर्घं(दैर्घ्यं) स्याद् द्वादशांशं विधीयते ॥ ८६ ॥
मुष्कायामं द्वयार्धांशं तद्विस्ता ं तवांणकम् ।
लिङ्गस्तारं शिवांशं स्यात् शे(च्छे)षं युक्तितो न्यसेत् ॥ ६० ॥
तद्देवाधिकहीने वा शोभाथं चैकमात्रकम् ।
उक्तमानाङ्गकैः सर्वैः त(वैस्त)त्र दोषो न विद्यते ॥ ६१ ॥
तदूर्ध्वेऽधिकहीनं चेत्सर्वदोषसमुद्भवम् ।
तस्मात् परिहरेच्छिल्पी प्रतिमानं तु सर्वदा ॥ ६२ ॥
ब्रह्माविष्ण्व[श्व]रुद्राणां मानयेन्मानवित्तमः ।
अन्येषां चैव देवानां माने कुर्याच्छुभावहम् ॥ ६३ ॥
एवं तु चोत्तमं पञ्चितालं प्रोक्तं मुनीश्वरैः ॥ ६४ ॥