Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s66: उत्तमदशतालविधानम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s66

Language
English

उत्तमदशतालविधानम्

v3.c24.s66.1

उत्तमं (म) दशतालस्य लक्षणं वक्ष्यतेऽधुना ।
मूर्द्धादिपादपर्यन्तं तुङ्गमानं प्रशस्यते ॥ १ ॥
चतुर्विंशच्छतं कृत्वा तन्नैवांशेन मानयेत् ।
उष्णीषात्केशपर्यन्तं चतुर्मात्रं प्रशस्यते ॥ २ ॥
केशान्ताद्विन्वन्तं सैकाकींशं मुखायतम् ।
अर्द्धांशं गलमानं स्याद् वेदांशं गलतुङ्गकम् ॥ ३ ॥
गलान्ताद्धृदयान्तश्च व (स्तु वो) दरं नाभिसिमकम् ।
नाभेस्तु मेदूसीमान्तं सार्धत्रयोदशांशकम् ॥ ४ ॥
मेद्रान्तमूरुदीर्घ (दैर्घ्यं) स्यात् सप्तविंशाङ्गुलं भवेत् ।
जानुतुङ्गं युगाङ्गुल्यं जङ्घा चोरुसमायतम् ॥ ५ ॥
पादजानुसमोत्तुङ्गं मुखायामं त्रिधा भवेत् ।
अच्चिसूत्रावसानं च तस्याधो त (त्प) त्पदान्तकम् ॥ ६ ॥
हिक्कासूत्रादधो बाहुदीर्घ (दैर्घ्य) मष्टाङ्गुलं भवेत् ।
कूर्परं च द्विमात्रं स्यान्मणिबन्धावसानकम् ॥ ७ ॥
प्रकोष्टमेकविंशांशं दीर्घं तस्य ततायतम् ।
मध्याङ्गुल्याग्रपर्यन्तं सार्धत्रयोदशांशकम् ॥ ८ ॥
तन्मध्यम(मा) ङ्गुलायामं सार्धं षडङ्गुलं भवेत् ।
शेषं चान्तस्तलायामं पाद(दं) सप्तदशांशकम् ॥ ९ ॥
अङ्गुष्ठात्पार्ष्णिपर्यन्तं तद्दीर्घाङ्गुष्ठ मायतम् ।
सपाद (सार्धं) वेदाङ्गुलं प्रोक्तं तदर्थं विस्तृतं भवेत् ॥ १० ॥
तदर्थं नखविस्तारं तत्पादोन्नायतं तथा ।
नखं वृत्तायतं चैव चार्शं तन्मुखं मांसलम् ॥ ११ ॥

v3.c24.s66.2

नखं तत्पार्श्वयोश्चैव शेषं तु तत्समाहु(मांस)लम् ।
यवहीनाधंवेदांशं तर्जनीदीर्घकं भवेत् ॥ १२ ॥ 24
पादहीनं चतुर्भागं मध्यमाङ्गुलमायतम् ।
सयवत्र्यंशकं चैवानामिकायामभिष्यते ॥ १३ ॥
अर्धांशकद्वयाङ्गुल्यं कनिष्ठाङ्गुलदीर्घकम् ।
यवाधिक्यंशकं सार्धं यवहीनांशकं तथा ॥ १४ ॥ 28
यवाधिकं त्रिपादं च त्रिपादं तथथाक्रमम् ।
प्रादेशिन्यादि कनिष्ठान्तं विस्तारं तत्प्रशस्यते ॥ १५ ॥
स्वस्वतारार्धविस्तारं नखं प्रागुक्तवद् भवेत् ।
गुल्फाचिं(चि) मध्यसूत्रं तु तल(ला) भ्रान्तं तलायतम् ॥ १६ ॥ 32
षड्यवाधिकमष्टांशं तत्सूत्रात्पाष्णमूलकम् ।
वेदांशं चायतं तारं यवोपेतशरांशकम् ॥ १७ ॥
पश्चात्पाष्णिकपर्यन्तं बह्यर्धाशकमायतम् ।
पाणिमूलं षडंशं स्याद् गुल्फाधो त(धस्त)न्रदेशके ॥ १८ ॥ 36
तलमध्यमविस्तारं षडंशं यद्वयवाधिकम् ।
अग्रतारं षडंशं तु तद्घनं च त्रयाङ्गुलम् ॥ १६ ॥
पादमध्योत्कधं सार्धवेदमात्रं प्रशस्यते ।
अङ्गुलीनां द्वि(त्रि)पर्व(वं) स्याच्छेषं युक्त्या प्रयोजयेत् ॥ २० ॥ 40
सपादभूताङ्गुलं चैव गुल्फतारमिति स्मृतम् ।
सपादवेदाङ्गुलं चोध्र्व नालिकाविस्तृतं भवेत् ॥ २१ ॥
जङ्घामध्ये च विस्तारं सार्धषण्मात्रं मानयेत् ।
जङ्घामूलस्य विस्तारं वसुमात्रं प्रशस्यते ॥ २२ ॥ 44
नवाङ्गुलं प्रकर्तव्यं जानुदेशविशालकम् ।
ऊरुमध्यविशालं तु द्वादशाङ्गुलमीरितम् ॥ २३ ॥
सार्धत्रयोदशांशं स्यादूरूमूलविशालकम् ।
विंशांशं च कटितारमूर्ध्वे श्रोणि विशालकम् ॥ २४ ॥ 48
सार्धमष्टादशाङ्गुल्यं मध्योदरविशालकम् ।
षोडशांशं भवेच्चोर्ध्व हृदयावधितारकम् ॥ २५ ॥

v3.c24.s66.3

सार्धद्विनवमात्रं स्याद् वक्षस्थलविशालकम् ।
एकविंशाङ्गुलं चोर्ध्वं कक्षयोरन्तरस्थलम् ॥ २६ ॥ 52
द्वाविंशांशकं चोर्ध्वं चत्वारि(तुर्विं)शार्धमात्रकम् ।
बाहुपर्यन्तविस्तारं बाहुमूलविशालकम् ॥ २७ ॥
नवांशं ग्रीवविस्तारं तत्समं तद् विधीयते ।
मुखविस्तारं भान्वंशं पुरस्तस्मात्प्रदेशके ॥ २८ ॥ 56
केशान्तोपरि माने(भागे) तु शिरो(रस्)तारं दशाङ्गुलम् ।
केशान्तान्नेत्रसूत्रान्तं त्रिभागं तद् विभाजिते ॥ २६ ॥
तदेकांशं ललाटोध्वं शेषं दृष्टिपदेशकम् ।
दृष्टिभालद्वयोर्मध्ये सुध्रुक्स्नाने प्रकल्पयेत् ॥ ३० ॥ 60
ध्रुवायामं शराङ्गुल्यं ध्रुवतारमर्धमात्रकम् ।
तदर्धं मध्यता स्थान्मूलाप्रान्तं (न्त) त्रयं क्रमात् ॥ ३१ ॥
ध्रुवयोरन्तरायान्तं (तं) पादांशं पञ्चवंशाकम्(यवाधिकम्) ।
नेत्रायामं त्रिमात्रं स्याद् विस्तारं तच्छिखांशकम् ॥ ३२ ॥ 64
नेत्रयोरन्तरं मध्ये द्विमात्रं तत्प्रशस्यते ।
त्रि(त्र्यं)शैकद्वयपञ्चैव नेत्रमूर्धाम्ररक्षयोः ॥ ३३ ॥
शेषमभ्यन्तराक्षिः स्यात्तत्रिभाग (गे) विभाजिते ।
कृष्णमण्डलमेकांशे(शं) शेषं तच्छेतमण्डलम् ॥ ३४ ॥ 68
कृष्णमण्डलसंकाशं ज्योतिर्मण्डलमंशकम् ।
कृष्णमण्डलमध्य तु ज्योतिर्मण्डलकं विदुः ॥ ३५ ॥
नेत्रमध्ये तथा कृष्णज्योतिरान्तराकमंशकम् ।
दृष्टिमण्डलमेवोक्तं ज्योतिर्मण्डलमध्यमे ॥ ३६ ॥ 72
ऊर्ध्वाधो वर्मविस्तारं ह्यङ्गुलार्थं त्रिमात्रकम् ।
मत्स्याकाराक्षिमात्रं स्याद् ध्रुवः(वं) कोदण्डवत्सुधीः ॥ ३७ ॥
श्रोत्रायामं तु वेदांशं नालायाममधमधिकम् ।
भूमध्यसमं श्रोत्रमममेवं प्रकल्पयेत् ॥ ३८ ॥ 76
पिप्पल्यायामविस्तारं तदर्धं (र्ध) विस्तृतं भवेत् ।
नालान्तरं त्रिमात्रं स्यात्तदर्धं श्रोत्रवद् घनम् ॥ ३६ ॥

v3.c24.s66.4

श्रोत्रतारं द्विय(ड्या)र्धांशं शेषमूह्यं विचक्षणैः ।
नेत्रान्तात्कर्णसीमन्तं ह्यन्तरं सप्तमात्रकम् ॥ ४० ॥ 80
द्वयर्धांशं नास्य(सि)विस्तारमग्रमेकाङ्गुलं भवेत् ।
पुटतारार्धमात्रं स्यात्तद्द्दीर्घ(दैर्घ्यं) पञ्चयवं भवेत् ॥ ४१ ॥
सुषिरं चार्धमात्रं स्यात्तारं पञ्चयवं भवेत् ।
पुष्करोत्सेधमंशं स्याद् विस्तारं तद्द्वयं भवेत् ॥ ४२ ॥ 84
एकांशं द्वयमाधिक्यं नासिमध्यं तु विस्तृतम् ।
तदर्धं मूलविस्तारं तुङ्गमर्धं(कं) यथाक्रमम् ॥ ४३ ॥
गोजिमूलं तदग्रान्तं नासितुङ्गं द्वयङ्गुलम् ।
पुष्करं स्यादधोगोजी दीर्घं(दैर्घ्यं) चतुर्यवं भवेत् ॥ ४४ ॥ 88
निम्नं तु यवं चैव विस्तारं त्रियवं तथा ।
तस्यास्तथोत्तरा पालि यवमेवं(कं) विधीयते ॥ ४५ ॥
तस्याधश्चोत्तरोष्ठं च तारं षड्यवं भवेत् ।
आहृत्वा(असृक् त्व)र्घयवं चैव तद्वायाधा(द्वाय)र्युक् [स्यादेव] ॥ ४६ ॥ 92
अधरोष्ठं शिंवांशं स्याद् विस्तारं चोन्नतसमम् ।
अस्यायामं चतुर्मात्रमसृक्का(ग)न्तं तु कारयेत् ॥ ४७ ॥
त्रियं(त्र्यं)शार्धा(र्धम)धरायामं चार्धं चन्द्रवदाकृति ।
त्रिवक्त्रं(? यवं) चोत्तरा पाली चान्तरैश्चैव संयुतम् ॥ ४८ ॥ 96
द्वयं तत्तद्विस्तारं तत्समं चायतविस्तृतम् ।
अधरोर्ध्वं तु दन्तं च तद् द्वात्रिंशत्तु दन्तकम् ॥ ४९ ॥
अधरस्याधोदेशे चिबुकायाः(कं च) शिवांशकम् ।
शेषं यवान्तरमुत्सेधं हन्वन्तं तत्प्रदेशके ॥ ५० ॥ 100
हन्वन्तं विस्तृतं ज्ञात्वा सार्धबह्वङ्गुलं भवेत् ।
हन्वन्तं कर्णबन्धान्तं द्वया(योर)न्तरं दशाङ्गुलम् ॥ ५१ ॥
हन्वन्तरद्वयोर्मध्ये निम्नतुङ्गं शिवायतम् ।
हन्वन्ता(न्तमा)यतवृत्तं स्याद् विस्तारार्धसमं भवेत् ॥ ५२ ॥ 104
द्वियवाधिकमंशं च हन्वन्ताद् गोजि तद् भवेत् ।
हन्वन्तं मध्यमूले तु गलं तद् द्वयमात्रकम् ॥ ५३

v3.c24.s66.5

एवं तु गलमानं स्यात्तदर्थं निर्गमं बुधैः ।
नयने तन्नित्रिपादं च ललाटे नेत्रमानकम् ॥ ५४ ॥ 108
अथवा तन्त्रिपादं च चार्धं वाथ त्रिधा भवेत् ।
संहारं च स्थितिः सृष्टिर्दृष्टिरेवं शिवस्य च ॥ ५५ ॥
नवलष्टेरोमहष्टिनन्दं ध्यात्वा शिल्पिवित्तमः ।
श्रोवरोम यथा कृत्वा तस्य माने न योजयेत् ॥ ५६ ॥ 112
यथा युक्त्या तथा वक्त्रे कुर्यात्तु तलदेशके ।
द्वियवाधिकमष्टांशं बाहुमध्यमविस्तृतम् ॥ ५७ ॥
कूर्परं तद् विशालं स्यात्सप्तमात्रं प्रशस्यते ।
प्रकोष्ठमध्यविस्तारं यवोपेतशरांशकम् ॥ ५८ ॥ 116
मणिबन्धविशालं तु सार्धवह्वयङ्गुलं भवेत् ।
तत्तले मूलविस्तारं सप्तमात्रं तु कारयेत् ॥ ५९ ॥
तन्मध्यमविशाले तु सार्धषण्मात्रकं भवेत् ।
तलाग्रप्रतारमर्धमाधिक्यं पञ्चाङ्गुलं विधीयते ॥ ६० ॥ 120
बहिः सार्धषडङ्गुल्यं मणिबन्धा[त्तु] तलायतम् ।
तस्मात्तु चाङ्गुलानां च दीर्घं(दैर्घ्यं) युक्त्या तद्वृद्धिर्भवेत् ॥ ६१ ॥
पुरोक्तानां तत्तद्द्दीर्घं(दैर्घ्यं) मङ्गुलीनां तत्तदायतम् ।
सपादोषेतवेदांशं चानामिकाङ्गुलदीर्घकम् ॥ ६२ ॥ 124
प्रादेशिन्यायामं भूतांशं स(च) वेदाङ्गुष्ठकनिष्ठकम् ।
अङ्गुष्ठमूलविस्ता˙ सपादामुलमेव च ॥ ६३ ॥
तर्जन्यनाभिमूले तु विस्तारं तच्छिठ्ठवंांशकम् ।
मध्यमाङ्गुलिमूले तु विशालं स्वाङ्घ्रियें(यवो)शकम् ॥ ६४ ॥ 128
पडूय˙ तत्कनिष्ठे तु विशालं तस्य मूलके ।
तत्तद्विदृष्टभागे तु तदेकांशविहीनकम् ॥ ६५ ॥
शेषाङ्गुल्यमविस्तारं विभजेत्प्रियं(त्रयां)शकम् ।
द्विभागं नखविस्तारं शेषे तु तद् द्विपाश्र्वयोः ॥ ६६ ॥ 132
अङ्गुष्ठे(ले) नखविस्तारे चतुर्भागाकमधिकम् ।
नखायाममिति चाम्रं द्वियवं तत्प्रशस्यते ॥ ६७ ॥

v3.c24.s66.6

तर्जन्याद्यङ्गुलीनां दीर्घं(दैर्घ्यं) वह्न्यंशकं भवेत् ।
पर्वदीर्घं(दैर्घ्यं) तदेकांशं युगा(गा)नां त्रिपर्वकम् ॥ ६८ ॥ 136

v3.c24.s66.7

अङ्गुष्ठे तु द्विपर्वं(र्वे) स्यादायामे त[द्]द्विभागतः ।
तर्जनीमूलपार्श्वे तु श्रेष्ठोध्वें मूलकावनी(ती) ॥ ६६ ॥

v3.c24.s66.8

तद्द्वयोर्मध्यदीर्घं(दैर्घ्यं) स्यात्त्र्यंशं द्व्यंशं तद्धनम् ।
शेषं तं(तन) मणिबन्धान्तं दीर्घं(दैर्घ्यं) सार्द्धिम्रि(धं)युगाङ्गुलम् ॥ ७० ॥ 140

v3.c24.s66.9

तस्या(स्माद्)ङ्गुष्ठादधोदेशे सार्धद्व्यङ्गुलं घनम् ।
तद्विशालं गुणांशं स्यात्सार्धिस्तारं युगाङ्गुलम् ॥ ७१ ॥

v3.c24.s66.10

तद्धनं च त्रियं(त्र्यां)शं स्यादग्रं तु द्वियवांशिकम् ।
अन्तस्तलं द्विमात्रं स्याद् विशालं निम्न(चतु)र्यवम् ॥ ७२ ॥ 144

v3.c24.s66.11

पद्मं त्रिशूलवत् शङ्खं चक्रवत् सूक्ष्मरेखया ।
शेषं युक्त्या तथा हस्ते प्रदेशं कारयेद् बुधः ॥ ७३ ॥

v3.c24.s66.12

शिरःपृष्ठे विशालं स्यान्नवमात्रं प्रशस्यते ।
कर्णान्तं नासिकाप्रान्तं सार्धत्रयोदशांशिकम् ॥ ७४ ॥ 148

v3.c24.s66.13

हिक्कासूत्रोपरि स्कन्धं गलसन्धि युगांशकम् ।
गलसन्ध्या ककुद्द्वानं पञ्चमात्रं प्रशस्यते ॥ ७५ ॥

v3.c24.s66.14

तस्मात्कटिसूत्रान्तं सप्तविंशाङ्गुलं भवेत् ।
तस्मात्तु पायुसीमान्तं सार्धत्रयोदशांशकम् ॥ ७६ ॥ 152

v3.c24.s66.15

पश्चिमे तदेकविंशत्यंशं तत्तदङ्गुलविस्तृतम् ।
सप्ता(प्र)दशाङ्गुलं पञ्च(श्चात्) श्रोणिदेशे विशालकम् ॥ ७७ ॥

v3.c24.s66.16

तदूर्ध्वं मध्यकायं तु विशालं श्रोणिविशालकम् ।
एकविंशाङ्गुलं चैव तदूर्ध्वं च स्तनापरी ॥ ७८ ॥ 156

v3.c24.s66.17

सप्तविंशाङ्गुलं चैव कक्षयोरन्तरं स्थलम् ।
वंशनिम्नं शिवांशं स्यात्कटिमध्यान्तरायतम् ॥ ७६ ॥

v3.c24.s66.18

विस्तारं तु द्विमात्रं स्याद् युक्त्या तत्रैव कारयेत् ।
तस्मात्कुक्षि(क्ष्य)वसानं स्याद् भानु शं फलकायतमू ॥ ८० ॥ 160

v3.c24.s66.19

फलका [च] द्वयोर्मध्ये [च] द्वयन्तरं वेदमात्रकम् ।
फलकांशे तु स्कन्धसीमान्तं बाह्वार्धांशमुन्नतम् ॥ ८१ ॥

v3.c24.s66.20

बृहती सप्तांशकं कक्षान्तरसमायतम् ।
बृहती स्तनसीमन्तं सार्धद्विरणुमात्रकम् ॥ ८२ ॥
त्रयोदशांशकं चैव कटिसूत्रं तु विस्तृतम् ।
ऊरुमूलं तु निर्गमं च तत्समं तु युगाङ्गुलम् ॥ ८३ ॥
विस्तारं नवांशं स्यात्तत्तत्पिण्डी सुवृत्तकौ ।
स्तनपीठं द्विमात्रं स्याद् विस्तारं तत्सुवृत्तकम् ॥ ८४ ॥
स्तनपञ्चद्वयस्यान्तं तत्समं चोदयं तथा ।
हिक्का च(काया) हृदयं चै(यस्यै)व निम्नकं च यवं स्मृतम् ॥ ८५ ॥
हिक्कात्(या) स्तनान्तं स्यात् हि(द्वि)काया कक्षान्तरं तथा ।
सार्धत्रयोदशांशं स्याद् द्वियवं नाभिनिम्नकम् ॥ ॥ ८६ ॥
नाभिप्रदक्षिणावृत्तं मुकुलवत्कारयेद् बुधैः ।
नाभ्यधः कटिसीमन्तं कुक्षिदीर्घं(दैर्घ्यं) षडङ्गुलम् ॥ ८७ ॥
नाभ्या[ङ्] वस्तिसीमन्तं वेदमात्रं प्रशस्यते ।
कटितुङ्गा(ङ्गम्) र्धसप्तांशं तस्यान्तं मेढ्रमूलकम् ॥ ८८ ॥
मेढ्रपीठस्य विस्तारं चतुर्मात्रं प्रशस्यते ।
तस्मात्तु लिङ्गदीर्घं(दैर्घ्यं) स्याद् द्वादशांशं विधीयते ॥ ८६ ॥
मुष्कायामं द्वयार्धांशं तद्विस्ता ं तवांणकम् ।
लिङ्गस्तारं शिवांशं स्यात् शे(च्छे)षं युक्तितो न्यसेत् ॥ ६० ॥
तद्देवाधिकहीने वा शोभाथं चैकमात्रकम् ।
उक्तमानाङ्गकैः सर्वैः त(वैस्त)त्र दोषो न विद्यते ॥ ६१ ॥
तदूर्ध्वेऽधिकहीनं चेत्सर्वदोषसमुद्भवम् ।
तस्मात् परिहरेच्छिल्पी प्रतिमानं तु सर्वदा ॥ ६२ ॥
ब्रह्माविष्ण्व[श्व]रुद्राणां मानयेन्मानवित्तमः ।
अन्येषां चैव देवानां माने कुर्याच्छुभावहम् ॥ ६३ ॥
एवं तु चोत्तमं पञ्चितालं प्रोक्तं मुनीश्वरैः ॥ ६४ ॥

v3.c24.s66.21

इति मानहारे वास्तुशास्त्रे प्रतिमानामूहसप्तदशतालविधानं नाम पञ्चषष्टितमोऽध्यायः ॥