Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s67: मध्यमदशतालविधानम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s67

Language
English

मध्यमदशतालविधानम्

v3.c24.s67.1

ओमानं(न)दशतालं च(लस्य) लक्षणं वक्ष्यतेऽधुना ।
पादादुष्णीषसीमान्तं सविंशतिशताङ्गुलम् ॥ १ ॥
तदेकाष्टांशकं चैव यवमानमुदीरितम् ।
उष्णोषात्केशपर्यन्तं चतुर्मात्रं शिरोदयम् ॥ २ ॥
तस्याधो नेत्रसूत्रान्तं पञ्चाङ्गुलमिति स्मृतम् ।
पुटान्तं नासिदीर्घं(दैर्घ्यं) स्याद् वेदमात्रं प्रशस्यते ॥ ३ ॥
पुटाम्ताचुकपर्यन्तं सार्धं वह्नयङ्गुलं भवेत् ।
अर्धार्थं गलसन्धिः स्याद् गलोत्तुङ्गं युगाङ्गुलम् ॥ ४ ॥
हिक्कात्(काया) हृदयान्तं च सैकार्क मङ्गुलं भवेत् ।
तस्मान्नाभिसोमान्तं मेढ्रान्तं तत्समं भवेत् ॥ ५ ॥
मेढ्रात्तु चोरुतुङ्गं स्यात्षड्‌विशमङ्गुलं भवेत् ।
जानूतुङ्गं चतुर्मात्रं जङ्घा चोरुसमं भवेत् ॥ ६ ॥
पादोत्सेधं युगाङ्गुल्यं पाष्ण्याँङ्गुष्ठावसानकम् ।
तलं षोडशमात्रं स्यादायासमिति कथ्यते ॥ ७ ॥
हिक्का(का)सूत्रादधो बाहुदीर्घं(दैर्घ्यं) ष‌ड्विशदङ्गुलम् ।
कूर्परं च द्विमात्रं स्याद् विंशांशं प्रकोष्ठायतम् ॥ ८ ॥
मध्याङ्गुल्याग्रपर्यन्तं तलं त्रयोदशांशकम् ।
आयामं तस्यहस्तुल्यं मध्यमाङ्गुलिदीर्घकम् ॥ ६॥
शेषं तु तलदीर्घं स्याद् वेदमङ्गुलमायतम् ।
सार्धपञ्चाङ्गुलायामं तर्जन्यनामिकायतम् ॥ १० ॥
कनिष्ठाङ्गुलायतं चैव चतुर्मात्रं प्रशस्यते ।
मुखतारमर्कमात्रं स्यात्कर्णपर्यन्तमेव वा ॥ ११ ॥

v3.c24.s67.2

तस्याधो मुखविस्तारं कर्णान्तं रुद्रमात्रकम् ।
सप्ताङ्गुलं गलतारं मध्यमूलं तदष्टकम् ॥ १२ ॥
पञ्चा(चा)दशाङ्गुलं प्रोक्तं कक्षयोरन्तरं खलम् ।
तस्याधो(धः) स्तनदेशे तु तारं पञ्चदशाङ्गुलम् ॥ १३ ॥
प्रत्येकं स्तनविस्तारमर्धाधिकनवाङ्गुलम् ।
वेदार्धार्धाङ्गुलं तुङ्गमन्तिमध्याङ्गुलं भवेत् ॥ १४ ॥
विस्तारं द्व्यङ्गुलं प्रोक्तं स्तनचूचुकमण्डलम् ।
स्तनान्तं हृदयन्तं स्यात्तारं त्रयोदशाङ्गुलम् ॥ १५ ॥
मध्योदरविशालं स्यादेकादशाङ्गुलं भवेत् ।
तस्याधो नाभिदेशे तु तारं त्रयोदशाङ्गुलम् ॥ १६ ॥
नाभिदेशादधोदेशे तारं पञ्चा(चा)दशाङ्गुलम् ।
तस्याधो(धः) श्रोणिविस्तारं विंशत्यङ्गुलमेव च ॥ १७ ॥
चतुर्विंशाङ्गुलं श्रोण्याद(ऽ)धः कटिविशालकम् ।
त्रयोदशांशं प्रत्येकं चोरूमूलविशालकम् ॥ १८ ॥
ऊरुमध्यविशालं स्याद् द्वादशाङ्गुलमीरितम् ।
नवाङ्गुलं चाम्रविस्तारं सप्तांशं जानुविस्तृतम् ॥ १९ ॥
जङ्घामूलं रसाङ्गुल्यं मध्यतारं शराङ्गुलम् ।
नलकान्तं युगाङ्गुल्यं गुल्फं सार्धयुगाङ्गुलम् ॥ २० ॥
तारं स्यात्तलविस्तारं चतुर्मात्रं प्रशस्यते ।
अग्रतारं शराङ्गुल्यं पार्ष्णिस्तारं युगाङ्गुलम् ॥ २१ ॥
अङ्गुष्ठायाम(मं) वेदांशं तर्जनी तत्समं भवेत् ।
मध्यमाङ्गुलीदीर्घ(दैर्घ्यं) स्यात्सार्धं वङ्गुराङ्गुलं भवेत् ॥ २२ ॥
वङ्गुरंशमनामिकायामं कनिष्ठं द्विमात्रकम् ।
दीर्घाङ्गुष्ठं च(ष्ठस्य) विस्तारं ह्यङ्गुलेनांशं तर्जनी ॥ २३ ॥
तारं सप्तषट्पञ्चयवमन्याङ्गुलं त्रयम् ।
मध्याङ्गुल्यकनिष्ठान्तं विस्तारं परिकीर्तितम् ॥ २४ ॥
बाहुमूलविशालं च चाग्निं अङ्गाङ्गुलं भवेत् ।
मध्यतारमर्धषण्मात्रमग्रतारं षडङ्गुलम् ॥ २५ ॥

v3.c24.s67.3

कूर्परं सार्धपञ्चांशं विस्तारं परिकीर्तितम् ।
प्रकोष्ठमूलविशालं तु पञ्चाङ्गुलमिति स्मृतम् ॥ २६ ॥
मध्यं सार्धयुगाङ्गुल्यं तारं चाग्रे युगाङ्गुलम् ।
मणिबन्धविशालं स्याद् बह्वङ्गुलमिति स्मृतम् ॥ २७ ॥
तलतारं शराङ्गुल्यं कन्याङ्गुलाङ्गुष्ठविस्तृतम् ।
षड्यवं तर्जनीतारं तत्तुल्यमनामिकाविस्तृतम् ॥ २८ ॥
सार्धपञ्चयवं तारं कनिष्ठाङ्गुलिमूलके ।
मध्याङ्गुलविस्तारं च मूल(ले) सप्तयवं भवेत् ॥ २९ ॥
केशान्तं नेत्रसूत्रान्तं द्वयोर्मध्ये ध्रुवः स्थितिः ।
एकांशं नेत्रविस्तारं नेत्रायामं गुहाङ्गुलम् ॥ ३० ॥
पुटबाह्यासाने स्याद् द्व्यङ्गुलं नासिविस्तृतम् ।
मध्यतारं शिवाङ्गुल्यं तदर्धं मूलविस्तृतम् ॥ ३१ ॥
पादोनद्विमात्रं स्यात्कक्षयो(दृक्ष्यो)रन्तरं भवेत् ।
भ्रूमूलं च द्वयोर्मध्ये चैकाङ्गुलमुदीरितम् ॥ ३२ ॥
भ्रूवायामं नवाङ्गुल्यं भ्रूवोतारं द्विमात्रकम् ।
अच्छा(क्ष्या)यामं त्रिधा चैकं तन्मध्ये कृष्णमण्डलम् ॥ ३३ ॥
चापाकारं ध्रुवाकारं मत्स्याकारमक्षकं तथा ।
पुटतारोद्वयं चार्धमात्रं युक्त्या प्रयोजयेत् ॥ ३४ ॥
तिलपुष्पाकृतिर्ना(ना)सि पुटं निष्पावबीजवत् ।
कुर्यादास्यायतं वेदमात्रं सृकान्तमेव च ॥ ३५ ॥
उत्तरोष्ठविशाले तु यवपञ्चकमेव च ।
अधरोष्ठं षड्यवं स्यादायामं च द्विमात्रकम् ॥ ३६ ॥
कुक्कुटाण्डसमाकारं मुखं युक्त्या प्रकारयेत् ।
भ्रूमध्यसमं कर्ण(र्णं) श्रोत्रतुङ्गं युगाङ्गुलम् ॥ ३७ ॥
तत्समं नाललम्बं स्याद् घनमार्धाङ्गुलं भवेत् ।
अश्वत्थपत्रवत्कुर्याद् योनितारं युगाङ्गुलम् ॥ ३८ ॥
दीर्घं(दैर्घ्यं) समाङ्गुलं प्रोक्तमूर्ध्वतारायतं तत्समम् ।
शेषं तु चोत्तमपञ्चितालवत्कारयेत् सुधीः ॥ ३९ ॥

v3.c24.s67.4

इति मानसार वास्तुशास्त्रे स्त्रीमानमध्यमदशतालविधानं नाम षटषष्टितमोऽध्यायः ॥