Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s67.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s67.2
- Language
- English
v3.c24.s67.2
तस्याधो मुखविस्तारं कर्णान्तं रुद्रमात्रकम् ।
सप्ताङ्गुलं गलतारं मध्यमूलं तदष्टकम् ॥ १२ ॥
पञ्चा(चा)दशाङ्गुलं प्रोक्तं कक्षयोरन्तरं खलम् ।
तस्याधो(धः) स्तनदेशे तु तारं पञ्चदशाङ्गुलम् ॥ १३ ॥
प्रत्येकं स्तनविस्तारमर्धाधिकनवाङ्गुलम् ।
वेदार्धार्धाङ्गुलं तुङ्गमन्तिमध्याङ्गुलं भवेत् ॥ १४ ॥
विस्तारं द्व्यङ्गुलं प्रोक्तं स्तनचूचुकमण्डलम् ।
स्तनान्तं हृदयन्तं स्यात्तारं त्रयोदशाङ्गुलम् ॥ १५ ॥
मध्योदरविशालं स्यादेकादशाङ्गुलं भवेत् ।
तस्याधो नाभिदेशे तु तारं त्रयोदशाङ्गुलम् ॥ १६ ॥
नाभिदेशादधोदेशे तारं पञ्चा(चा)दशाङ्गुलम् ।
तस्याधो(धः) श्रोणिविस्तारं विंशत्यङ्गुलमेव च ॥ १७ ॥
चतुर्विंशाङ्गुलं श्रोण्याद(ऽ)धः कटिविशालकम् ।
त्रयोदशांशं प्रत्येकं चोरूमूलविशालकम् ॥ १८ ॥
ऊरुमध्यविशालं स्याद् द्वादशाङ्गुलमीरितम् ।
नवाङ्गुलं चाम्रविस्तारं सप्तांशं जानुविस्तृतम् ॥ १९ ॥
जङ्घामूलं रसाङ्गुल्यं मध्यतारं शराङ्गुलम् ।
नलकान्तं युगाङ्गुल्यं गुल्फं सार्धयुगाङ्गुलम् ॥ २० ॥
तारं स्यात्तलविस्तारं चतुर्मात्रं प्रशस्यते ।
अग्रतारं शराङ्गुल्यं पार्ष्णिस्तारं युगाङ्गुलम् ॥ २१ ॥
अङ्गुष्ठायाम(मं) वेदांशं तर्जनी तत्समं भवेत् ।
मध्यमाङ्गुलीदीर्घ(दैर्घ्यं) स्यात्सार्धं वङ्गुराङ्गुलं भवेत् ॥ २२ ॥
वङ्गुरंशमनामिकायामं कनिष्ठं द्विमात्रकम् ।
दीर्घाङ्गुष्ठं च(ष्ठस्य) विस्तारं ह्यङ्गुलेनांशं तर्जनी ॥ २३ ॥
तारं सप्तषट्पञ्चयवमन्याङ्गुलं त्रयम् ।
मध्याङ्गुल्यकनिष्ठान्तं विस्तारं परिकीर्तितम् ॥ २४ ॥
बाहुमूलविशालं च चाग्निं अङ्गाङ्गुलं भवेत् ।
मध्यतारमर्धषण्मात्रमग्रतारं षडङ्गुलम् ॥ २५ ॥