Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s7.8

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s7.8

Language
English

v3.c24.s7.8

नीलाम्बरधरं चैव यज्ञसूत्रोत्तरीयधृत्(तम्) ।
अग्निवर्णं चाग्निदेवं मेषवाहनसंयुतम् ॥ ९७ ॥
द्विभुजं च त्रिनेत्रं च ज्वालासदृशमूर्ध्वजम् ।
स्रुक्स्रुवं पाणियुगले स्वाहादेव्या च संयुतम् ॥ ९८ ॥ 196
सर्वाभरणसंयुक्तं शेषं प्रागुक्तवद्भवेत् ।
महिषारूढं त्रिणे(ने)त्रं च ज्वालासदृशकुन्तलम् ॥ ९९ ॥
त्रिशूलं दक्षिणे हस्ते पाशं वामकरेऽधरे ।
धूम्रवर्णं रक्तवस्त्रं देव्या यम्या च संयुतम् ॥ १०० ॥ 200
यमं ध्यात्वा यथोक्तवत् सर्वाभरणभूषितम् ।
नरारूढं निर्ऋतिं द्विभुजं च द्विनेत्रकम् ॥ १०१ ॥
[श्र] सव्यहस्ते गदां चैव वरदं वामहस्तके ।
श्यामवर्णो(र्यामि)न्द्रेन्द्र्यां(न्या) च संयुक्तं रक्तवस्त्रकम् ॥ १०२ ॥ 204
करण्डमकुटोपेतं ध्यात्वा शेषं तु पूर्ववत् ।
वरुणं मकरारूढं भरण्या सह सेवितम् ॥ १०३ ॥
द्विभुजं च द्विनेत्रं च करण्डमकुटान्वितम् ।
पाशाङ्कुशधरं चैव धवलं रक्तं(क्त)वाससम् ॥ १०४ ॥ 208
यज्ञसूत्रोत्तरीयं च नानाभरणभूषितम् ।
वायुदेवं मृगारूढं मारुत्या सह सेवितम् ॥ १०५ ॥
द्विभुजं च त्रिनेत्रं च पाशं च वरदं तथा ।
शेषं च पूर्ववद्ध्यात्वा शशिरूपमिहोच्यते ॥ १०६ ॥ 212
द्विभुजं च द्विनेत्रं च पङ्कजद्वयधारिणम् ।
अश्वारूढं चन्द्रिकया संयुक्तं श्वेतवर्णकम् ॥ १०७ ॥
श्वेताम्बरधरं यज्ञसूत्रं च मकुटान्वितम् ।
सर्वाभरणसंयुक्तं सौम्यं ध्यात्वा यथोक्तवत् ॥ १०८ ॥ 216
पर्जन्यं रक्तवर्णं च महा(जय)न्तं श्यामवर्णकम् ।
महेन्द्रं पीतवर्णं च द्विभुजं च द्विनेत्रकम् ॥ १०९ ॥
करण्डमकुटोपेतं सर्वाभरणशोभितम् ।
पाशपद्मावधारौ च (दाधरौ चैव) रक्तवस्त्रोत्तरीयकौ (कम्) ॥ ११० ॥ 220