Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.5
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s9.5
- Language
- English
v3.c24.s9.5
उपद्वारो(रमु)क्तवत्कुर्याद्विष्णुधिष्ण्यं तु पश्चिमे ।
तद्धामस्य बहिर्वाऽपि वरुणे च पदे तथा ॥ ५५ ॥
मित्रे चैव पदे चापि विष्णूमूर्तिं यथेष्टकम् ।
ईशे शङ्कर (रं) संस्थाप्य पर्जन्ये चोदिते तथा ॥ ५६ ॥
अन्तर्वाऽपि बहिर्वाऽपि यथेष्टकं (ष्टं) शिवहर्म्यकम् ।
एतद्दण्डकमित्युक्तं भूसुराणां तु योग्यकम् ॥ ५७ ॥
द्वादशैर्वि(शवि) प्रसंघं वा चतुर्विंशतिभूसुरान् ।
पञ्चाशद्द्विजसंघैश्च अ(ह्य)ष्टोत्तरशतं तु वा ॥ ५८ ॥
त्रिशतद्विजसंघैर्वा द्वादशं चेति मौनिनाम् ।
वनान्तरे पर्वते वा तथा चाश्रममीरितम् ॥ ५९ ॥
चतुर्विंशतिसंघं चेद्यतीनां ग्रामयोग्यकम् ।
एतत्तु नदीतीरे वा पुरमेतत्प्रकथ्यते ॥ ६० ॥
पञ्चाशद्गीक्षितानां तु नगरं तु (तन्) प्रशस्यते ।
अष्टोत्तरं [च] पञ्चाशद्गृहस्थानां तु मङ्गलम् ॥ ६१ ॥
विस्करिं (निकर) शतसंघैश्च कोष्ठमेवं प्रकथ्यते ।
अन्येषां विप्रसंघैश्च यथेष्टं नाम [प्र] कल्पयेत् ॥ ६२ ॥
अन्यान्यनुक्तं [क्तानि] सर्वेषां शास्त्रमार्गेण कारयेत् ।
सर्वतोभद्रविन्यासं (सं) लक्षणं वक्ष्यतेऽधुना ॥ ६३ ॥
चतुरश्रसमाकारं मण्डूकं (क) पद (दं) विन्यसेत् ।
अथवा स्थण्डिलं वाऽपि मध्ये तद्ब्रह्ममण्डपम् ॥ ६४ ॥
अथवा देवताहर्म्यं विष्णोर्वाऽथ शिवस्य वा ।
तपस्विनां यतीनां च पाषण्डाश्रमियां तथा ॥ ६५ ॥
ब्रह्मचारी (चारिणां) तथा योगिनां संघैर्यथेच्छया ।
एकद्वित्रिचतुष्पञ्चरथ्या वा परितस्तथा ॥ ६६ ॥
एकपञ्चान्तरथ्या च बाह्यरथ्या द्विपञ्चयुक् ।
पैशाचान्तपदैः सर्वैस्तेन वीथीं प्रकल्पयेत् ॥ ६७ ॥
पैशाचेशान्तराले महादिक्पाल (लो) बहिरिष्यते ।
तत्तद्वीथी द्विपञ्चं (चा) स्याद्गन्यावर्ताकृतिस्तु वा ॥ ६८ ॥